वसिष्ठः
पुरतः
कृत्वा
दारान्
दशरथस्य
च ।
अभिचक्राम
तं
देशं
रामदर्शनतर्षितः ॥ १ ॥
राजपत्न्यश्च
गच्छन्त्यो
मन्दं
मन्दाकिनीं
प्रति ।
ददृशुस्तत्र
तत्तीर्थं
रामलक्ष्मणसेवितम् ॥ २ ॥
कौसल्या
बाष्पपूर्णेन
मुखेन
परिशुष्यता ।
सुमित्रामब्रवीद्दीना
याश्चान्या
राजयोषितः ॥ ३ ॥
इदं
तेषामनाथानां
क्लिष्टमक्लिष्टकर्मणाम् ।
वने
प्राक्केवलं
तीर्थं
ये
ते
निर्विषयीकृताः ॥ ४ ॥
इतः
सुमित्रे
पुत्रस्ते
सदा
जलमतन्द्रितः ।
स्वयं
हरति
सौमित्रिर्मम
पुत्रस्य
कारणात् ॥ ५ ॥
जघन्यमपि
ते
पुत्रः
कृतवान्न
तु
गर्हितः ।
भ्रातुर्यदर्थसहितं
सर्वं
तद्विहितं
गुणैः ॥ ६ ॥
अद्यायमपि
ते
पुत्रः
क्लेशानामतथोचितः ।
नीचानर्थसमाचारं
सज्जं
कर्म
प्रमुञ्चतु ॥ ७ ॥
दक्षिणाग्रेषु
दर्भेषु
सा
ददर्श
महीतले ।
पितुरिङ्गुदिपिण्याकं
न्यस्तमायतलोचना ॥ ८ ॥
तं
भूमौ
पितुरार्तेन
न्यस्तं
रामेण
वीक्ष्य
सा ।
उवाच
देवी
कौसल्या
सर्वा
दशरथस्त्रियः ॥ ९ ॥
इदमिक्ष्वाकुनाथस्य
राघवस्य
महात्मनः ।
राघवेण
पितुर्दत्तं
पश्यतैतद्यथाविधि ॥ १० ॥
तस्य
देवसमानस्य
पार्थिवस्य
महात्मनः ।
नैतदौपयिकं
मन्ये
भुक्तभोगस्य
भोजनम् ॥ ११ ॥
चतुरन्तां
महीं
भुक्त्वा
महेन्द्रसदृशो
विभुः ।
कथमिङ्गुदिपिण्याकं
स
भुङ्क्ते
वसुधाधिपः ॥ १२ ॥
अतो
दुःखतरं
लोके
न
किञ्चित्
प्रतिभाति
मा ।
यत्र
रामः
पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ॥ १३ ॥
रामेणेङ्गुदिपिण्याकं
पितुर्दत्तं
समीक्ष्य
मे ।
कथं
दुःखेन
हृदयं
न
स्फोटति
सहस्रधा ॥ १४ ॥
श्रुतिस्तु
खल्वियं
सत्या
लौकिकी
प्रतिभाति
मा ।
यदन्नः
पुरुषो
भवति
तदन्नास्तस्य
देवताः ॥ १५ ॥
एवमार्त्तां
सपत्न्यस्ता
जग्मुराश्वास्य
तां
तदा ।
ददृशुश्चाश्रमे
रामं
स्वर्गच्युतमिवामरम् ॥ १६ ॥
सर्वभोगैः
परित्यक्तं
रामं
सम्प्रेक्ष्य
मातरः ।
आर्त्ता
मुमुचुरश्रूणि
सस्वरं
शोककर्शिताः ॥ १७ ॥
तासां
रामः
समुत्थाय
जग्राह
चरणान्
शुभान् ।
मातॄणां
मनुजव्याघ्रः
सर्वासां
सत्यसङ्गरः ॥ १८ ॥
ताः
पाणिभिः
सुखस्पर्शैर्मृद्वङ्गुलितलैः
शुभैः ।
प्रममार्जू
रजः
पृष्ठाद्रामस्यायतलोचनाः ॥ १९ ॥
सौमित्रिरपि
ताः
सर्वाः
मातॄः
सम्प्रेक्ष्य
दुःखितः ।
अभ्यवादयतासक्तं
शनै
रामादनन्तरम् ॥ २० ॥
यथा
रामे
तथा
तस्मिन्
सर्वा
ववृतिरे
स्त्रियः ।
वृत्तिं
दशरथाज्जाते
लक्ष्मणे
शुभलक्षणे ॥ २१ ॥
सीतापि
चरणांस्तासामुपसङ्गृह्य
दुःखिता ।
श्वश्रूणामश्रुपूर्णाक्षी
सा
बभूवाग्रतः
स्थिता ॥ २२ ॥
तां
परिष्वज्य
दुःखार्त्तां
माता
दुहितरं
यथा ।
वनवासकृशां
दीनां
कौसल्या
वाक्यमब्रवीत् ॥ २३ ॥
विदेहराजस्य
सुता
स्नुषा
दशरथस्य
च ।
रामपत्नी
कथं
दुःखं
सम्प्राप्ता
निर्जने
वने ॥ २४ ॥
पद्ममातपसन्तप्तं
परिक्लिष्टमिवोत्पलम् ।
काञ्चनं
रजसा
ध्वस्तं
क्लिष्टं
चन्द्रमिवाम्बुदैः ॥ २५ ॥
मुखं
ते
प्रेक्ष्य
मां
शोको
दहत्यग्निरिवाश्रयम्
भृशं
मनसि
वैदेहि
व्यसनारणिसम्भवः ।
ब्रुवन्त्यामेवमार्त्तायां
जनन्यां
भरताग्रजः ॥ २६ ॥
पादावासाद्य
जग्राह
वसिष्ठस्य
च
राघवः ।
पुरोहितस्याग्निसमस्य
वै
तदा
बृहस्पतेरिन्द्र
इवामराधिपः ॥ २७ ॥
प्रगृह्य
पादौ
सुसमृद्धतेजसः
सहैव
तेनोपविवेश
राघवः ।
ततो
जघन्यं
सहितैः
समन्त्रिभिः
पुरप्रधानैश्च
सहैव
सैनिकैः ॥ २८ ॥
जनेन
धर्मज्ञतमेन
धर्मवानुपोपविष्टो
भरतस्तदाग्रजम् ।
उपोपविष्टस्तु
तथा
स
वीर्यवांस्तपस्विवेषेण
समीक्ष्य
राघवम् ॥ २९ ॥
श्रिया
ज्वलन्तं
भरतः
कृताञ्जलिर्यथा
महेन्द्रः
प्रयतः
प्रजापतिम् ।
किमेष
वाक्यं
भरतोऽद्य
राघवं
प्रणम्य
सत्कृत्य
च
साधु
वक्ष्यति ॥ ३० ॥
इतीव
तस्यार्यजनस्य
तत्त्वतो
बभूव
कौतूहलमुत्तमं
तदा ।
स
राघवः
सत्यधृतिश्च
लक्ष्मणो
महानुभवो
भरतश्च
धार्मिकः ॥ ३१ ॥
वृताः
सुहृद्भिश्च
विरेजुरध्वरे
यथा
सदस्यैः
सहितास्त्रयोऽग्नयः ॥ ३२ ॥