ततः
पुरुषसिंहानां
वृतानां
तैः
सुहृद्गणैः ।
शोचतामेव
रजनी
दुःखेन
व्यत्यवर्त्तत ॥ १ ॥
रजन्यां
सुप्रभातायां
भ्रातरस्ते
सुहृद्वृताः ।
मन्दाकिन्यां
हुतं
जप्यं
कृत्वा
राममुपागमन् ॥ २ ॥
तूष्णीं
ते
समुपासीना
न
कश्चित्किञ्चिदब्रवीत् ।
भरतस्तु
सुहृन्मध्ये
रामं
वचनमब्रवीत् ॥ ३ ॥
सान्त्विता
मामिका
माता
दत्तं
राज्यमिदं
मम ।
तद्ददामि
तवैवाहं
भुङ्क्ष्व
राज्यमकण्टकम् ॥ ४ ॥
महतेवाम्बुवेगेन
भिन्नः
सेतुर्जलागमे ।
दुरावारं
त्वदन्येन
राज्यखण्डमिदं
महत् ॥ ५ ॥
गतिं
खर
इवाश्वस्य
तार्क्ष्यस्येव
पतत्त्रिणः ।
अनुगन्तुं
न
शक्तिर्मे
गतिं
तव
महीपते ॥ ६ ॥
सुजीवं
नित्यशस्तस्य
यः
परैरुपजीव्यते ।
राम
तेन
तु
दुर्जीवं
यः
परानुपजीवति ॥ ७ ॥
यथा
तु
रोपितो
वृक्षः
पुरुषेण
विवर्द्धितः ।
ह्रस्वकेन
दुरारोहो
रूढस्कन्धो
महाद्रुमः ॥ ८ ॥
स
यथा
पुष्पितो
भूत्वा
फलानि
न
विदर्शयेत् ।
स
तां
नानुभवेत्प्रीतिं
यस्य
हेतोः
प्ररोपितः ॥ ९ ॥
एषोपमा
महाबाहो
तमर्थं
वेत्तुमर्हसि ।
यदि
त्वमस्मान्
वृषभो
भर्त्ता
भृत्यान्न
शाधि
हि ॥ १० ॥
श्रेणयस्त्वां
महाराज
पश्यन्त्वग्र्याश्च
सर्वशः ।
प्रतपन्तमिवादित्यं
राज्ये
स्थितमरिन्दमम् ॥ ११ ॥
तवाऽनुयाने
काकुत्स्थ
मत्ता
नर्दन्तु
कुञ्जराः ।
अन्तःपुरगता
नार्यो
नन्दन्तु
सुसमाहिताः ॥ १२ ॥
तस्य
साध्वित्यमन्यन्त
नागरा
विविधा
जनाः ।
भरतस्य
वचः
श्रुत्वा
रामं
प्रत्यनुयाचतः ॥ १३ ॥
तमेवं
दुःखितं
प्रेक्ष्य
विलपन्तं
यशस्विनम् ।
रामः
कृतात्मा
भरतं
समाश्वासय
दात्मवान् ॥ १४ ॥
नात्मनः
कामकारोऽस्ति
पुरुषोऽयमनीश्वरः ।
इतश्चेतरतश्चैनं
कृतान्तः
परिकर्षति ॥ १५ ॥
सर्वे
क्षयान्ता
निचयाः
पतनान्ताः
समुच्छ्रयाः ।
संयोगा
विप्रयोगान्ता
मरणान्तं
च
जीवितम् ॥ १६ ॥
यथा
फलानां
पक्वानां
नान्यत्र
पतनाद्भयम् ।
एवं
नरस्य
जातस्य
नान्यत्र
मरणाद्भयम् ॥ १७ ॥
यथागारं
दृढस्थूणं
जीर्णं
भूत्वाऽवसीदति ।
तथैव
सीदन्ति
नरा
जरामृत्युवशङ्गताः ॥ १८ ॥
अत्येति
रजनी
या
तु
सा
न
प्रतिनिवर्त्तते ।
यात्येव
यमुना
पूर्णा
समुद्रमुदकाकुलम् ॥ १९ ॥
अहोरात्राणि
गच्छन्ति
सर्वेषां
प्राणिनामिह ।
आयूंषि
क्षपयन्त्याशु
ग्रीष्मे
जलमिवांशवः ॥ २० ॥
आत्मानमनुशोच
त्वं
किमन्यमनुशोचसि ।
आयुस्ते
हीयते
यस्य
स्थितस्य
च
गतस्य
च ॥ २१ ॥
सहैव
मृत्युर्व्रजति
सह
मृत्युर्निषीदति ।
गत्वा
सुदीर्घमध्वानं
सहमृत्युर्निवर्तते ॥ २२ ॥
गात्रेषु
वलयः
प्राप्ताः
श्वेताश्चैव
शिरोरुहाः ।
जरया
पुरुषो
जीर्णः
किं
हि
कृत्वा
प्रभावयेत् ॥ २३ ॥
नन्दन्त्युदित
आदित्ये
नन्दन्त्यस्तमिते
रवौ ।
आत्मनो
नावबुध्यन्ते
मनुष्या
जीवितक्षयम् ॥ २४ ॥
हृष्यन्त्यृतुमखं
दृष्ट्वा
नवं
नवमिहागतम् ।
ऋतूनां
परिवर्त्तेन
प्राणिनां
प्राणसङ्क्षयः ॥ २५ ॥
यथा
काष्ठं
च
काष्ठं
च
समेयातां
महार्णवे ।
समेत्य
च
व्यपेयातां
कालमासाद्य
कञ्चन ॥ २६ ॥
एवं
भार्याश्च
पुत्राश्च
ज्ञातयश्च
घनानि
च ।
समेत्य
व्यवधावन्ति
ध्रुवो
ह्येषां
विनाभवः ॥ २७ ॥
नात्र
कश्चिद्यथाभावं
प्राणी
समभिवर्त्तते ।
तेन
तस्मिन्न
सामर्थ्यं
प्रेतस्यास्त्यनुशोचतः ॥ २८ ॥
यथा
हि
सार्थं
गच्छन्तं
ब्रूयात्
कश्चित्
पथि
स्थितः ।
अहमप्यागमिष्यामि
पृष्ठतो
भवतामिति ॥ २९ ॥
एवं
पूर्वैर्गतो
मार्गः
पितृपैतामहो
ध्रुवः ।
तमापन्नः
कथं
शोचेद्यस्य
नास्ति
व्यतिक्रमः ॥ ३० ॥
वयसः
पतमानस्य
स्रोतसो
वाऽनिवर्तिनः ।
आत्मा
सुखे
नियोक्तव्यः
सुखभाजः
प्रजाः
स्मृताः ॥ ३१ ॥
धर्मात्मा
स
शुभैः
कृत्स्नैः
क्रतुभिश्चाप्तदक्षिणैः ।
धूतपापो
गतः
स्वर्गं
पिता
नः
पृथिवीपतिः ॥ ३२ ॥
भृत्यानां
भरणात्
सम्यक्
प्रजानां
परिपालनात् ।
अर्थादानाच्च
धर्मेण
पिता
नस्त्रिदिवं
गतः ॥ ३३ ॥
कर्मभिस्तु
शुभैरिष्टैः
क्रतुभिश्चाप्तदक्षिणैः ।
स्वर्गं
दशरथः
प्राप्तः
पिता
नः
पृथिवीपतिः ॥ ३४ ॥
इष्ट्वा
बहुविधैर्यज्ञैर्भोगांश्चावाप्य
पुष्कलान् ।
उत्तमं
चायुरासाद्य
स्वर्गतः
पृथिवीपतिः ॥ ३५ ॥
आयुरुत्तममासाद्य
भोगानपि
च
राघवः ।
स
न
शोच्यः
पिता
तातः
स्वर्गतः
सत्कृतः
सताम् ॥ ३६ ॥
स
जीर्णं
मानुषं
देहं
परित्यज्य
पिता
हि
नः ।
दैवीमृद्धिमनुप्राप्तो
ब्रह्मलोकविहारिणीम् ॥ ३७ ॥
तं
तु
नैवंविधः
कश्चित्
प्राज्ञः
शोचितुमर्हति ।
तद्विधो
यद्विधश्चापि
श्रुतवान्
बुद्धिमत्तरः ॥ ३८ ॥
एते
बहुविधाः
शोका
विलापरुदिते
तथा ।
वर्जनीया
हि
धीरेण
सर्वावस्थासु
धीमता ॥ ३९ ॥
स
स्वस्थो
भव
माशोचीर्यात्वा
चावस
तां
पुरीम् ।
तथा
पित्रा
नियुक्तोऽसि
वशिना
वदतां
वर ॥ ४० ॥
यत्राहमपि
तेनैव
नियुक्तः
पुण्यकर्मणा ।
तत्रैवाहं
करिष्यामि
पितुरार्य्यस्य
शासनम् ॥ ४१ ॥
न
मया
शासनं
तस्य
त्यक्तुं
न्याय्यमरिन्दम ।
तत्
त्वयापि
सदा
मान्यं
स
वै
बन्धुः
स
नः
पिता ॥ ४२ ॥
तद्वचः
पितुरेवाहं
सम्मतं
धर्मचारिणः ।
कर्मणा
पालयिष्यामि
वनवासेन
राघव ॥ ४३ ॥
धीर्मिकेणानृशंसेन
नरेण
गुरुवर्त्तिना ।
भवितव्यं
नरव्याघ्र
परलोकं
जिगीषता ॥ ४४ ॥
आत्मानमनुतिष्ठ
त्वं
स्वभावेन
नरर्षभ ।
निशाम्य
तु
शुभं
वृत्तं
पितुर्दशरथस्य
नः ॥ ४५ ॥
इत्येवमुक्त्वा
वचनं
महात्मा
पितुर्निदेशप्रतिपालनार्थम् ।
यवीयसं
भ्रातरमर्थवच्च
प्रभुर्मुहूर्ताद्विरराम
रामः ॥ ४६ ॥