ततो
मन्दाकिनीतीरे
रामं
प्रकृतिवत्सलम् ।
उवाच
भरतश्चित्रं
धार्मिको
धार्मिकं
वचः ॥ १ ॥
को
हि
स्यादीदृशो
लोके
यादृशस्त्वमरिन्दम ।
न
त्वां
प्रव्यथयेद्दुःखं
प्रीतिर्वा
न
प्रहर्षयेत् ॥ २ ॥
सम्मतश्चासि
वृद्धानां
तांश्च
पृच्छसि
संशयान् ।
यथा
मृतस्तथा
जीवन्
यथाऽसति
तथा
सति ॥ ३ ॥
यस्यैष
बुद्धिलाभः
स्यात्परितप्येत
केन
सः ।
परावरज्ञो
यश्च
स्यात्तथा
त्वं
मनुजाधिप ॥ ४ ॥
स
एवं
व्यसनं
प्राप्य
न
विषीदितुमर्हति ।
अमरोपम
सत्त्वस्त्वं
महात्मा
सत्यसङ्गरः ॥ ५ ॥
सर्वज्ञः
सर्वदर्शी
च
बुद्धिमांश्चासि
राघव ।
न
त्वामेवङ्गुणैर्युक्तं
प्रभवाभवकोविदम् ॥ ६ ॥
अविषह्यतमं
दुःखमासादयितुमर्हति ।
प्रोषिते
मयि
यत्पापं
मात्रा
मत्कारणात्कृतम् ॥ ७ ॥
क्षुद्रया
तदनिष्टं
मे
प्रसीदतु
भवान्मम ।
धर्मबन्धेन
बद्धोऽस्मि
तेनेमां
नेह
मातरम् ॥ ८ ॥
हन्मि
तीव्रेण
दण्डेन
दण्डार्हां
पापकारिणीम् ।
कथं
दशरथाज्जातः
शुद्धाभिजनकर्मणः ॥ ९ ॥
जानन्
धर्ममधर्मिष्ठं
कुर्य्यां
कर्म
जुगुप्सितम् ।
गुरुः
क्रियावान्
वृद्धश्च
राजा
प्रेतः
पितेति
च ॥ १० ॥
तातं
न
परिगर्हेयं
दैवतं
चेति
संसदि ।
को
हि
धर्मार्थयोर्हीनमीदृशं
कर्म
किल्बिषम् ॥ ११ ॥
स्त्रियाः
प्रियं
चिकीर्षुः
सन्
कुर्याद्धर्मज्ञ
धर्मवित् ।
अन्तकाले
हि
भूतानि
मुह्यन्तीति
पुराश्रुतिः ॥ १२ ॥
राज्ञैवं
कुर्वता
लोके
प्रत्यक्षं
सा
श्रुतिः
कृता ।
साध्वर्थमभिसन्धाय
क्रोधान्मोहाच्च
साहसात् ॥ १३ ॥
तातस्य
यदतिक्रान्तं
प्रत्याहरतु
तद्भवान् ।
तदपत्यं
मतं
लोके
विपरीतमतोऽन्यथा\* ॥ १४ ॥
पितुरपतनहेतुत्वात्तदेवापत्यत्वेन
सम्मतम् ।
तदपत्यं
भवानस्तु
मा
भवान्
दुष्कृतं
पितुः ॥ १५ ॥
अभिपत्ता
कृतं
कर्म
लोके
धीरविगर्हितम् ।
कैकेयीं
मां
च
तातं
च
सुहृदो
बान्धवांश्च
नः ॥ १६ ॥
पौरजानपदान्
सर्वांस्त्रातु
सर्वमिदं
भवान् ।
क्व
चारण्यं
क्व
च
क्षात्त्र
क्व
जटाः
क्व
च
पालनम् ॥ १७ ॥
ईदृशं
व्याहतं
कर्म
न
भवान्
कर्तुमर्हति ।
एष
हि
प्रथमो
धर्मः
क्षत्त्रियस्याभिषेचनम् ॥ १८ ॥
येन
शक्यं
महाप्राज्ञ
प्रजानां
परिपालनम् ।
कश्च
प्रत्यक्षमुत्सृज्य
संशयस्थमलक्षणम् ॥ १९ ॥
आयतिस्थं
चरेद्धर्मं
क्षत्त्रबन्धुरनिश्चितम् ।
अथ
क्लेशजमेव
त्वं
धर्मं
चरितुमिच्छसि ॥ २० ॥
धर्मेण
चतुरो
वर्णान्
पालयन्
क्लेशमाप्नुहि ।
चतुर्णामाश्रमाणां
हि
गार्हस्थ्यं
श्रेष्ठमाश्रमम् ॥ २१ ॥
प्राहुर्धर्मज्ञ
धर्मज्ञास्तं
कथं
त्यक्तुमर्हसि ।
श्रुतेन
बालः
स्थानेन
जन्मना
भवतो
ह्यहम् ॥ २२ ॥
स
कथं
पालयिष्यामि
भूमिं
भवति
तिष्ठति ।
हीनबुद्धिगुणो
बालो
हीनः
स्थानेन
चाप्यहम् ॥ २३ ॥
भवता
च
विनाभूतो
न
वर्त्तयितुमुत्सहे ।
इदं
निखिलमव्यग्रं
राज्यं
पित्र्यमकण्टकम् ॥ २४ ॥
अनुशाधि
स्वधर्मेण
धर्मज्ञ
सह
बान्धवैः ।
इहैव
त्वाऽभिषिञ्चन्तु
सर्वाः
प्रकृतयः
सह ॥ २५ ॥
ऋत्विजः
सवसिष्ठाश्च
मन्त्रवन्मन्त्रकोविदाः ।
अभिषिक्तस्त्वमस्माभिरयोध्यां
पालने
व्रज ॥ २६ ॥
विजित्य
तरसा
लोकान्
मरुद्भिरिव
वासवः ।
ऋणानि
त्रीण्यपाकुर्वन्
दुर्हृदः
साधु
निर्द्दहन् ॥ २७ ॥
सुहृदस्तर्पयन्
कामैस्त्वमेवात्रानुशाधि
माम् ।
अद्यार्य
मुदिताः
सन्तु
सुहृदस्तेऽभिषेचने ॥ २८ ॥
अद्य
भीताः
पलायन्तां
दुर्हृदस्ते
दिशो
दश ।
आक्रोशं
मम
मातुश्च
प्रमृज्य
पुरुषर्षभ ॥ २९ ॥
अद्य
तत्रभवन्तं
च
पितरं
रक्ष
किल्बिषात् ।
शिरसा
त्वाऽभियाचेऽहं
कुरुष्व
करुणां
मयि ॥ ३० ॥
बान्धवेषु
च
सर्वेषु
भूतेष्विव
महेश्वरः ।
अथैतत्
पृष्ठतः
कृत्वा
वनमेव
भवानितः ॥ ३१ ॥
गमिष्यति
गमिष्यामि
भवता
सार्द्धमप्यहम् ।
तथाहि
रामो
भरतेन
ताम्यता
प्रसाद्यमानः
शिरसा
महीपतिः ॥ ३२ ॥
न
चैव
चक्रे
गमनाय
सत्त्ववान्
मतिं
पितुस्तद्वचने
व्यवस्थितः ।
तदद्भुतं
स्थैर्यमवेक्ष्य
राघवे
समं
जनो
हर्षमवाप
दुःखितः ॥ ३३ ॥
न
यात्ययोध्यामिति
दुःखितोऽभवत्
स्थिरप्रतिज्ञत्वमवेक्ष्य
हर्षितः ।
तमृत्विजो
नैगमयूथवल्लभास्तदा
विंसज्ञाश्रुकलाश्च
मातरः ॥ ३४ ॥
तथा
ब्रुवाणं
भरतं
प्रतुष्टुवुः
प्रणम्य
रामं
च
ययाचिरे
सह ॥ ३५ ॥