आश्वासयन्तं
भरतं
जाबालिर्ब्राह्मणोत्तमः ।
उवाच
रामं
धर्मज्ञं
धर्मापेतमिदं
वचः ॥ १ ॥
साधु
राघव
माभूत्ते
बुद्धिरेवं
निरर्थिका ।
प्राकृतस्य
नरस्येव
ह्यार्यबुद्धेर्मनस्विनः ॥ २ ॥
कः
कस्य
पुरुषो
बन्धुः
किमाप्यं
कस्य
केनचित् ।
यदेको
जायते
जन्तुरेक
एव
विनश्यति ॥ ३ ॥
तस्मान्माता
पिता
चेति
राम
सज्जेतयो
नरः ।
उन्मत्त
इव
स
ज्ञेयो
नास्ति
कश्चिद्धि
कस्यचित् ॥ ४ ॥
यथा
ग्रामान्तरं
गच्छन्
नरः
कश्चित्
क्वचिद्वसेत् ।
उत्सृज्य
च
तमावासं
प्रतिष्ठेतापरेऽहनि ॥ ५ ॥
एवमेव
मनुष्याणां
पिता
माता
गृहं
वसु ।
आवासमात्रं
काकुत्स्थ
सज्जन्ते
नात्र
सज्जनाः ॥ ६ ॥
पित्र्यं
राज्यं
परित्यज्य
स
नार्हसि
नरोत्तम ।
आस्थातुं
कापथं
दुःखं
विषमं
बहुकण्टकम् ॥ ७ ॥
समृद्धायामयोध्यायामात्मानमभिषेचय ।
एकवेणी
धरा
हि
त्वां
नगरी
सम्प्रतीक्षते ॥ ८ ॥
राजभोगाननुभवन्
महार्हान्
पार्थिवात्मज ।
विहर
त्वमयोध्यायां
यथा
शक्रस्त्रिविष्टपे ॥ ९ ॥
न
ते
कश्चिद्दशरथस्त्वं
च
तस्य
न
कश्चन ।
अन्यो
राजा
त्वमन्यः
स
तस्मात्
कुरु
यदुच्यते ॥ १० ॥
बीजमात्रं
पिता
जन्तोः
शुक्लं
रुधिरमेव
च ।
संयुक्तमृतुमन्मात्रा
पुरुषस्येह
जन्म
तत् ॥ ११ ॥
गतः
स
नृपतिस्तत्र
गन्तव्यं
यत्र
तेन
वै ।
प्रवृत्तिरेषा
मर्त्त्यानां
त्वं
तु
मिथ्या
विहन्यसे ॥ १२ ॥
अर्थधर्मपरा
ये
ये
तांस्तान्
शोचामि
नेतरान् ।
ते
हि
दुःखमिह
प्राप्य
विनाशं
प्रेत्य
भेजिरे ॥ १३ ॥
अष्टका
पितृदैवत्यमित्ययं
प्रसृतो
जनः ।
अन्नस्योपद्रवं
पश्य
मृतो
हि
किमशिष्यति ॥ १४ ॥
यदि
भुक्तमिहान्येन
देहमन्यस्य
गच्छति ।
दद्यात्
प्रवसतः
श्राद्धं
न
तत्
पथ्यशनं
भवेत् ॥ १५ ॥
दानसंवनना
ह्येते
ग्रन्था
मेधाविभिः
कृताः ।
यजस्व
देहि
दीक्षस्व
तपस्तप्यस्व
सन्त्यज ॥ १६ ॥
स
नास्ति
परमित्येव
कुरु
बुद्धिं
महामते ।
प्रत्यक्षं
यत्तदातिष्ठ
परोक्षं
पृष्ठतः
कुरु ॥ १७ ॥
स
तां
बुद्धिं
पुरस्कृत्य
सर्वलोकनिदर्शिनीम् ।
राज्यं
त्वं
प्रतिगृह्णीष्व
भरतेन
प्रसादितः ॥ १८ ॥