जाबालेस्तु
वचः
श्रुत्वा
रामः
सत्यात्मनां
वरः ।
उवाच
परया
भक्त्या
स्वबुद्ध्या
चाविपन्नया ॥ १ ॥
भवान्
मे
प्रियकामार्थं
वचनं
यदिहोक्तवान् ।
अकार्य्यं
कार्य्यसङ्काशमपथ्यं
पथ्यसम्मितम् ॥ २ ॥
निर्मर्यादस्तु
पुरुषः
पापाचारसमन्वितः ।
मानं
न
लभते
सत्सु
भिन्नचारित्रदर्शनः ॥ ३ ॥
कुलीनमकुलीनं
वा
वीरं
पुरुषमानिनम् ।
चारित्रमेव
व्याख्याति
शुचिं
वा
यदि
वाऽशुचिम् ॥ ४ ॥
अनार्यस्त्वार्यसङ्काशः
शौचाद्धीनस्तथा
शुचिः ।
लक्षण्यवदलक्षण्यो
दुःशीलः
शीलवानिव ॥ ५ ॥
अधर्मं
धर्मवेषेण
यदीमं
लोकसङ्करम् ।
अभिपत्स्ये
शुभं
हित्वा
क्रियाविधिविवर्जितम् ॥ ६ ॥
कश्चेतयानः
पुरुषः
कार्याकार्यविचक्षणः ।
बहुमंस्यति
मां
लोके
दुर्वृत्तं
लोकदूषणम् ॥ ७ ॥
कस्य
धास्याम्यहं
वृत्तं
केन
वा
स्वर्गमाप्नुयाम् ।
अनया
वर्त्तमानो
हि
वृत्त्या
हीनप्रतिज्ञया ॥ ८ ॥
कामवृत्तस्त्वयं
लोकः
कृत्स्नः
समुपवर्त्तते ।
यद्वृत्ताः
सन्ति
राजानस्तद्वृत्ताः
सन्ति
हि
प्रजाः ॥ ९ ॥
सत्यमेवानृशंसञ्च
राजवृत्तं
सनातनम् ।
तस्मात्सत्यात्मकं
राज्यं
सत्ये
लोकः
प्रतिष्ठितः ॥ १० ॥
ऋषयश्चैव
देवाश्च
सत्यमेव
हि
मेनिरे ।
सत्यवादी
हि
लोकेऽस्मिन्
परमं
गच्छति
क्षयम् ॥ ११ ॥
उद्विजन्ते
यथा
सर्प्पान्नरादनृतवादिनः ।
धर्मः
सत्यं
परो
लोके
मूलं
स्वर्गस्य
चोच्यते ॥ १२ ॥
सत्यमेवेश्वरो
लोके
सत्यं
पद्मा
श्रिता
सदा ।
सत्यमूलानि
सर्वाणि
सत्यान्नास्ति
परं
पदम् ॥ १३ ॥
दत्तमिष्टं
हुतं
चैव
तप्तानि
च
तपांसि
च ।
वेदाः
सत्यप्रतिष्ठानास्तस्मात्
सत्यपरो
भवेत् ॥ १४ ॥
एकः
पालयते
लोकमेकः
पालयते
कुलम् ।
मज्जत्येको
हि
निरय
एकः
स्वर्गे
महीयते ॥ १५ ॥
सोऽहं
पितुर्नियोगन्तु
किमर्थं
नानुपालये ।
सत्यप्रतिश्रवः
सत्यं
सत्येन
समयीकृतः ॥ १६ ॥
नैव
लोभान्न
मोहाद्वा
न
ह्यज्ञानात्तमोन्वितः ।
सेतुं
सत्यस्य
भेत्स्यामि
गुरोः
सत्यप्रतिश्रवः ॥ १७ ॥
असत्यसन्धस्य
सतश्चलस्यास्थिरचेतसः ।
नैव
देवा
न
पितरः
प्रतीच्छन्तीति
नः
श्रुतम् ॥ १८ ॥
प्रत्यगात्ममिमं
धर्मं
सत्यं
पश्याम्यहं
स्वयम् ।
भारः
सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥ १९ ॥
क्षात्त्रं
धर्ममहं
त्यक्ष्ये
ह्यधर्मं
धर्मसंहितम् ।
क्षुद्रैर्नृशंसैर्लुब्धैश्च
सेवितं
पापकर्मभिः ॥ २० ॥
कायेन
कुरुते
पापं
मनसा
सम्प्रधार्य
च ।
अनृतं
जिह्वया
चाह
त्रिविधं
कर्म
पातकम् ॥ २१ ॥
भूमिः
कीर्त्तिर्यशो
लक्ष्मीः
पुरुषं
प्रार्थयन्ति
हि ।
स्वर्गस्थं
चानुपश्यन्ति
सत्यमेव
भजेत
तत् ॥ २२ ॥
श्रेष्ठं
ह्यनार्यमेव
स्याद्यद्भवानवधार्य्य
माम् ।
आह
युक्तिकरैर्वाक्यैरिदं
भद्रं
कुरुष्व
ह ॥ २३ ॥
कथं
ह्यहं
प्रतिज्ञाय
वनवासमिमं
गुरौ ।
भरतस्य
करिष्यामि
वचो
हित्वा
गुरोर्वचः ॥ २४ ॥
स्थिरा
मया
प्रतिज्ञाता
प्रतिज्ञा
गुरुसन्निधौ ।
प्रहृष्यमाणा
सा
देवी
कैकेयी
चाभवत्तदा ॥ २५ ॥
वनवासं
वसन्नेवं
शुचिर्नियतभोजनः ।
मूलैः
पुष्पैः
फलैः
पुण्यैः
पितॄन्
देवांश्च
तर्पयन् ॥ २६ ॥
सन्तुष्टपञ्चवर्गोऽहं
लोकयात्रां
प्रवर्त्तये ।
अकुहः
श्रद्दधानस्सन्
कार्य्याकार्य्यविचक्षणः ॥ २७ ॥
कर्मभूमिमिमां
प्राप्य
कर्त्तव्यं
कर्म
यच्छुभम् ।
अग्निर्वायुश्च
सोमश्च
कर्मणां
फलभागिनः ॥ २८ ॥
शतं
क्रतूनामाहृत्य
देवराट्
त्रिदिवङ्गतः ।
तपांस्युग्राणि
चास्थाय
दिवं
याता
महर्षयः ॥ २९ ॥
अमृष्यमाणः
पुनरुग्रतेजा
निशम्य
तन्नास्तिकवाक्यहेतुम् ।
अथाब्रवीत्तं
नृपतेस्तनूजो
विगर्हमाणो
वचनानि
तस्य ॥ ३० ॥
सत्यं
च
धर्मं
च
पराक्रमं
च
भूतानुकम्पां
प्रियवादिताञ्च ।
द्विजातिदेवातिथिपूजनं
च
पन्थानमाहुस्त्रिदिवस्य
सन्तः ॥ ३१ ॥
तेनैवमाज्ञाय
यथावदर्थमेकोदयं
सम्प्रतिपद्य
विप्राः ।
धर्मं
चरन्तः
सकलं
यथावत्
काङ्क्षन्ति
लोकागममप्रमत्ताः ॥ ३२ ॥
निन्दाम्यहं
कर्म
पितुः
कृतं
तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् ।
बुद्ध्यानयैवंविधया
चरन्तं
सुनास्तिकं
धर्मपथादपेतम् ॥ ३३ ॥
यथा
हि
चोरः
स
तथा
हि
बुद्धस्तथागतं
नास्तिकमत्र
विद्धि ।
तस्माद्धि
यः
शङ्क्यतमः
प्रजानां
न
नास्तिकेनाभिमुखो
बुधः
स्यात् ॥ ३४ ॥
त्वत्तो
जनाः
पूर्वतरे
वराश्च
शुभानि
कर्माणि
बहूनि
चक्रुः ।
जित्वा
सदेमं
च
परञ्च
लोकं
तस्माद्द्विजाः
स्वस्ति
हुतं
कृतं
च ॥ ३५ ॥
धर्मे
रताः
सत्पुरुषैः
समेतास्तेजस्विनो
दानगुणप्रधानाः ।
अहिंसका
वीतमलाश्च
लोके
भवन्ति
पूज्या
मुनयः
प्रधानाः ॥ ३६ ॥
इति
ब्रुवन्तं
वचनं
सरोषं
रामं
महात्मानमदीनसत्त्वम् ।
उवाच
तथ्यं
पुनरास्तिकं
च
सत्यं
वचः
सानुनयं
च
विप्रः ॥ ३७ ॥
स
चापि
कालोऽयमुपागतः
शनैर्यथा
मया
नास्तिकवागुदीरिता ।
निवर्त्तनार्थं
तव
राम
कारणात्
प्रसादनार्थं
तु
मयैतदीरितम् ॥ ३८ ॥