क्रुद्धमाज्ञाय
रामं
तं
वसिष्ठः
प्रत्युवाच
ह ।
जाबालिरपि
जानीते
लोकस्यास्य
गतागतिम् ॥ १ ॥
निवर्त्तयितुकामस्तु
त्वामेतद्वाक्यमुक्तवान् ।
इमां
लोकसमुत्पत्तिं
लोकनाथ
निबोध
मे ॥ २ ॥
ततः
समभवद्ब्रह्मा
स्वयम्भूर्दैवतैः
सह ।
स
वराहस्ततो
भूत्वा
प्रोज्जहार
वसुन्धराम् ॥ ३ ॥
असृजच्च
जगत्
सर्वं
सह
पुत्रैः
कृतात्मभिः ।
आकाशप्रभवो
ब्रह्मा
शाश्वतो
नित्य
अव्ययः ॥ ४ ॥
तस्मान्मरीचिः
सञ्जज्ञे
मरीचेः
काश्यपः
सुतः ।
विवस्वान्
काश्यपाज्जज्ञे
मनुर्वैवस्वतस्सुतः ॥ ५ ॥
स
तु
प्रजापतिः
पूर्वमिक्ष्वाकुस्तु
मनोः
सुतः ।
यस्येयं
प्रथमं
दत्ता
समृद्धा
मनुना
मही ॥ ६ ॥
तमिक्ष्वाकुमयोध्यायां
राजानं
विद्धि
पूर्वकम् ।
इक्ष्वाकोस्तु
सुतः
श्रीमान्
कुक्षिरेवेति
विश्रुतः ॥ ७ ॥
कुक्षेरथात्मजो
वीरो
विकुक्षिरुदपद्यत ।
विकुक्षेस्तु
महातेजा
बाणः
पुत्रः
प्रतापवान् ॥ ८ ॥
बाणस्य
तु
महाबाहुरनरण्यो
महायशाः ।
नानावृष्टिर्बभूवास्मिन्न
दुर्भिक्षं
सतां
वरे ॥ ९ ॥
अनरण्ये
महाराजे
तस्करो
नापि
कश्चन ।
तस्मात्
पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत ॥ १० ॥
स
सत्यवचनाद्वीरः
सशरीरो
दिवङ्गतः ।
त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो
महायशाः ॥ ११ ॥
धुन्धुमारो
महातेजा
युवनाश्वो
व्यजायत ।
युवनाश्वसुतः
श्रीमान्
मान्धाता
समपद्यत ॥ १२ ॥
मान्धातुस्तु
महातेजाः
सुसन्धिरुदपद्यत ।
सुसन्धेरपि
पुत्रौ
द्वौ
ध्रुवसन्धिः
प्रसेनजित् ॥ १३ ॥
यशस्वी
ध्रुवसन्धेस्तु
भरतो
रिपुसूदनः ।
यस्यैते
प्रतिराजान
उदपद्यन्त
शत्रवः ॥ १४ ॥
हैहयास्तालजङ्घाश्च
शूराश्च
शशिबिन्दवः ।
तांस्तु
सर्वान्
प्रतिव्यूह्य
युद्धे
राजा
प्रवासितः ॥ १५ ॥
स
च
शैलवरे
रम्ये
बभूवाभिरतो
मुनिः ।
द्वे
चास्य
भार्ये
गर्भिण्यौ
बभूवतुरिति
श्रुतिः ॥ १६ ॥
एका
गर्भविनाशाय
सपत्न्यै
सगरं
ददौ ।
भार्गवश्च्यवनो
नाम
हिमवन्तमुपाश्रितः ॥ १७ ॥
तमृषिं
समुपागम्य
कालिन्दी
त्वभ्यवादयत् ।
पुत्रस्ते
भविता
देवि
महात्मा
लोकविश्रुतः ॥ १८ ॥
धार्मिकश्च
सुशीलश्च
वंशकर्त्ताऽरिसूदनः ।
पद्मपत्रसमानाक्षं
पद्मगर्भसमप्रभम् ॥ १९ ॥
ततः
सा
गृहमागम्य
देवी
पुत्रं
व्यजायत ।
सपत्न्या
तु
गरस्तस्यै
दत्तो
गर्भजिघांसया ॥ २० ॥
गरेण
सह
तेनैव
जातः
स
सगरोऽभवत् ।
स
राजा
सगरो
नाम
यः
समुद्रमखानयत् ॥ २१ ॥
इष्ट्वा
पर्वणि
वेगेन
त्रासयन्तमिमाः
प्रजाः ।
असमञ्जस्तु
पुत्रोभूत्
सगरस्येति
नः
श्रुतम् ॥ २२ ॥
जीवन्नेव
स
पित्रा
तु
निरस्तः
पापकर्मकृत् ।
अंशुमानपि
पुत्रोऽभूदसमञ्जस्य
वीर्य्यवान् ॥ २३ ॥
दिलीपोंऽशुमतः
पुत्रो
दिलीपस्य
भगीरथः ।
भगीरथात्
ककुत्स्थस्तु
काकुत्स्था
येन
विश्रुताः ॥ २४ ॥
ककुत्स्थस्य
च
पुत्रोऽभूद्रघुर्येन
तु
राघवाः ।
रघोस्तु
पुत्रस्तेजस्वी
प्रवृद्धः
पुरुषादकः ॥ २५ ॥
कल्माषपादः
सौदास
इत्येवं
प्रथितो
भुवि ।
कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति
विश्रुतः ॥ २६ ॥
यस्तु
तद्वीर्यमासाद्य
सहसैन्यो
व्यनीनशत् ।
शङ्खणस्य
च
पुत्रोऽभूच्छूरः
श्रीमान्
सुदर्शनः ॥ २७ ॥
सुदर्शनस्याग्निवर्ण
अग्निवर्णस्य
शीघ्रगः ।
शीघ्रगस्य
मरुः
पुत्रो
मरोः
पुत्रः
प्रशुश्रुकः ॥ २८ ॥
प्रशुश्रुकस्य
पुत्रोऽभूदम्बरीषो
महाद्युतिः ।
अम्बरीषस्य
पुत्रोऽभून्नहुषः
सत्यविक्रमः ॥ २९ ॥
नहुषस्य
च
नाभागः
पुत्रः
परमधार्मिकः ।
अजश्च
सुव्रतश्चैव
नाभागस्य
सुतावुभौ ॥ ३० ॥
अजस्य
चैव
धर्मात्मा
राजा
दशरथः
सुतः ।
तस्य
ज्येष्ठोऽसि
दायादो
राम
इत्यभिविश्रुतः ॥ ३१ ॥
तद्गृहाण
स्वकं
राज्यमवेक्षस्व
जनं
नृप ।
इक्ष्वाकूणां
हि
सर्वेषां
राजा
भवति
पूर्वजः ॥ ३२ ॥
पूर्वजे
नावरः
पुत्रो
ज्येष्ठो
राज्येऽभिषिच्यते ।
स
राघवाणां
कुलधर्ममात्मनः
सनातनं
नाद्य
विहन्तुमर्हसि ॥ ३३ ॥
प्रभूतरत्नामनुशाधि
मेदिनीं
प्रभूतराष्ट्रां
पितृवन्महायशः ॥ ३४ ॥