तमप्रतिमतेजोभ्यां
भ्रातृभ्यां
रोमहर्षणम् ।
विस्मिताः
सङ्गमं
प्रेक्ष्य
समवेता
महर्षयः ॥ १ ॥
अन्तर्हितास्त्वृषिगणाः
सिद्धाश्च
परमर्षयः ।
तौ
भ्रातरौ
महात्मानौ
महात्मानौ
काकुत्स्थौ
प्रशशंसिरे ॥ २ ॥
स
धन्यो
यस्य
पुत्रौ
द्वौ
धर्मज्ञौ
धर्मविक्रमौ ।
श्रुत्वा
वयं
हि
सम्भाषामुभयोः
स्पृहयामहे ॥ ३ ॥
ततस्त्वृषिगणाः
क्षिप्रं
दशग्रीववधैषिणः ।
भरतं
राजशार्दूलमित्यूचुः
सङ्गता
वचः ॥ ४ ॥
कुले
जात
महाप्राज्ञ
महावृत्त
महायशः ।
ग्राह्यं
रामस्य
वाक्यं
ते
पितरं
यद्यवेक्षसे ॥ ५ ॥
सदानृणमिमं
रामं
वयमिच्छामहे
पितुः ।
अनृणत्वाच्च
कैकेय्याः
स्वर्गं
दशरथो
गतः ॥ ६ ॥
एतावदुक्त्वा
वचनं
गन्धर्वाः
समहर्षयः ।
राजर्षयश्चैव
तदा
सर्वे
स्वांस्वां
गतिं
गताः ॥ ७ ॥
ह्लादितस्तेन
वाक्येन
शुभेन
शुभदर्शनः ।
रामः
संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥ ८ ॥
स्रस्तगात्रस्तु
भरतः
स
वाचा
सज्जमानया ।
कृताञ्जलिरिदं
वाक्यं
राघवं
पुनरब्रवीत् ॥ ९ ॥
राजधर्ममनुप्रेक्ष्य
कुलधर्मानुसन्ततिम् ।
कर्त्तुमर्हसि
काकुत्स्थ
मम
मातुश्च
याचनाम् ॥ १० ॥
रक्षितुं
सुमहद्राज्यमहमेकस्तु
नोत्सहे ।
पौरजानपदांश्चापि
रक्तान्
रञ्जयितुं
तथा ॥ ११ ॥
ज्ञातयश्च
हि
योधाश्च
मित्राणि
सुहृदश्च
नः ।
त्वामेव
प्रतिकाङ्क्षन्ते
पर्जन्यमिव
कर्षकाः ॥ १२ ॥
इदं
राज्यं
महाप्राज्ञ
स्थापय
प्रतिपद्य
हि ।
शक्तिमानसि
काकुत्स्थ
लोकस्य
परिपालने ॥ १३ ॥
इत्युक्त्वा
न्यपतद्
भ्रातुः
पादयोर्भरतस्तदा ।
भृशं
सम्प्रार्थयामास
राममेव
प्रियंवदः ॥ १४ ॥
तमङ्के
भ्रातरं
कृत्वा
रामो
वचनमब्रवीत् ।
श्यामं
नलिनपत्राक्षं
मत्तहंसस्वरं
स्वयम् ॥ १५ ॥
आगता
त्वामियं
बुद्धिः
स्वजा
वैनयिकी
च
या ।
भृशमुत्सहसे
तात
रक्षितुं
पृथिवीमपि ॥ १६ ॥
अमात्यैश्च
सुहृद्भिश्च
बुद्धिमद्भिश्च
मन्त्रिभिः ।
सर्वकार्याणि
सम्मन्त्र्य
सुमहान्त्यपि
कारय ॥ १७ ॥
लक्ष्मीश्चन्द्रादपेयाद्वा
हिमवान्
वा
हिमं
त्यजेत् ।
अतीयात्
सागरो
वेलां
न
प्रतिज्ञामहं
पितुः ॥ १८ ॥
कामाद्वा
तात
लोभाद्वा
मात्रा
तुभ्यमिदं
कृतम् ।
न
तन्मनसि
कर्त्तव्यं
वर्त्तितव्यं
च
मातृवत् ॥ १९ ॥
एवं
ब्रुवाणं
भरतः
कौसल्यासुतमब्रवीत् ।
तेजसादित्यसङ्काशं
प्रतिपच्चन्द्रदर्शनम् ॥ २० ॥
अधिरोहार्य
पादाभ्यां
पादुके
हेमभूषिते ।
एते
हि
सर्वलोकस्य
योगक्षेमं
विधास्यतः ॥ २१ ॥
सोऽधिरुह्य
नरव्याघ्रः
पादुके
ह्यवरुह्य
च ।
प्रायच्छत्
सुमहातेजा
भरताय
महात्मने ॥ २२ ॥
स
पादुके
सम्प्रणम्य
रामं
वचनमब्रवीत् ।
चतुर्दश
हि
वर्षाणि
जटाचीरधरो
ह्यहम् ॥ २३ ॥
फलमूलाशनो
वीर
भवेयं
रघुनन्दन ।
तवागमनमाकाङ्क्षन्
वसन्
वै
नगराद्बहिः ॥ २४ ॥
चतुर्दशे
हि
सम्पूर्णे
वर्षेऽहनि
रघूत्तम ।
न
द्रक्ष्यामि
यदि
त्वां
तु
प्रवेक्ष्यामि
हुताशनम् ॥ २५ ॥
तथेति
च
प्रतिज्ञाय
तं
परिष्वज्य
सादरम् ।
शत्रुघ्नं
च
परिष्वज्य
भरतं
चेदमब्रवीत् ॥ २६ ॥
मातरं
रक्ष
कैकेयीं
मा
रोषं
कुरु
तां
प्रति ।
मया
च
सीतया
चैव
शप्तोऽसि
रघुसत्तम ॥ २७ ॥
इत्युक्त्वाऽश्रुपरीताक्षो
भ्रातरं
विससर्ज
ह ।
स
पादुके
ते
भरतः
प्रतापवान्
स्वलङ्कृते
सम्परिपूज्य
धर्मवित् ॥ २८ ॥
प्रदक्षिणं
चैव
चकार
राघवं
चकार
चैवोत्तमनागमूर्द्धनि ।
अथानुपूर्व्यात्
प्रतिनन्द्य
तं
जनं
गुरूंश्च
मन्त्रिप्रकृतीस्तथानुजौ ॥ २९ ॥
व्यसर्जयद्राघववंशवर्द्धनः
स्थिरः
स्वधर्मे
हिमवानिवाचलः ।
तं
मातरो
बाष्पगृहीतकण्ठ्यो
दुःखेन
नामन्त्रयितुं
हि
शेकुः ॥ ३० ॥
स
त्वेव
मातॄरभिवाद्य
सर्वा
रुदन्
कुटीं
स्वां
प्रविवेश
रामः ॥ ३१ ॥