ततः
शिरसि
कृत्वा
तु
पादुके
भरतस्तदा ।
आरुरोह
रथं
हृष्टः
शत्रुघ्नेन
समन्वितः ॥ १ ॥
वसिष्ठो
वामदेवश्च
जाबालिश्च
दृढव्रतः ।
अग्रतः
प्रययुः
सर्वे
मन्त्रिणो
मन्त्रपूजिताः ॥ २ ॥
मन्दाकिनीं
नदीं
रम्यां
प्राङ्मुखास्ते
ययुस्तदा ।
प्रदक्षिणं
च
कुर्वाणाश्चित्रकूटं
महागिरिम् ॥ ३ ॥
पश्यन्
धातुसहस्राणि
रम्याणि
विविधानि
च ।
प्रययौ
तस्य
पार्श्वेन
ससैन्यो
भरतस्तदा ॥ ४ ॥
अदूराच्चित्रकूटस्य
ददर्श
भरतस्तदा ।
आश्रमं
यत्र
स
मुनिर्भरद्वाजः
कृतालयः ॥ ५ ॥
स
तमाश्रममागम्य
भरद्वाजस्य
बुद्धिमान् ।
अवतीर्य
रथात्
पादौ
ववन्दे
भरतस्तदा ॥ ६ ॥
ततो
हृष्टो
भरद्वाजो
भरतं
वाक्यमब्रवीत् ।
अपि
कृत्यं
कृतं
तात
रामेण
च
समागतम् ॥ ७ ॥
एवमुक्तः
स
तु
ततो
भरद्वाजेन
धीमता ।
प्रत्युवाच
भरद्वाजं
भरतो
भ्रातृवत्सलः ॥ ८ ॥
स
याच्यमानो
गुरुणा
मया
च
दृढविक्रमः ।
राघवः
परमप्रीतो
वसिष्ठं
वाक्यमब्रवीत् ॥ ९ ॥
पितुः
प्रतिज्ञां
तामेव
पालयिष्यामि
तत्त्वतः ।
चतुर्दश
हि
वर्षाणि
या
प्रतिज्ञा
पितुर्मम ॥ १० ॥
एवमुक्तो
महाप्राज्ञो
वसिष्ठः
प्रत्युवाच
ह ।
वाक्यज्ञो
वाक्यकुशलं
राघवं
वचनं
महत् ॥ ११ ॥
एते
प्रयच्छ
संहृष्टः
पादुके
हेमभूषिते ।
अयोध्यायां
महाप्राज्ञ
योगक्षेमकरे
तव ॥ १२ ॥
एवमुक्तो
वसिष्ठेन
राघवः
प्राङ्मुखः
स्थितः ।
पादुके
अधिरुह्यैते
मम
राज्याय
वै
ददौ ॥ १३ ॥
निवृत्तोऽहमनुज्ञातो
रामेण
सुमहात्मना ।
अयोध्यामेव
गच्छामि
गृहीत्वा
पादुके
शुभे ॥ १४ ॥
एतच्छ्रुत्वा
शुभं
वाक्यं
भरतस्य
महात्मनः ।
भरद्वाजः
शुभतरं
मुनिर्वाक्यमुवाच
तम् ॥ १५ ॥
नैतच्चित्रं
नरव्याघ्र
शीलवृत्तवतां
वर ।
यदार्यं
त्वयि
तिष्ठेत्तु
निम्ने
सृष्टमिवोदकम् ॥ १६ ॥
अमृतः
स
महाबाहुः
पिता
दशरथस्तव ।
यस्य
त्वमीदृशः
पुत्रो
धर्मज्ञो
धर्मवत्सलः ॥ १७ ॥
तमृषिं
तु
महात्मानमुक्तवाक्यं
कृताञ्जलिः ।
आमतन्त्रयितुमारेभे
चरणावुपगृह्य
च ॥ १८ ॥
ततः
प्रदक्षिणं
कृत्वा
भरद्वाजं
पुनःपुनः ।
भरतस्तु
ययौ
श्रीमानयोध्यां
सह
मन्त्रिभिः ॥ १९ ॥
यानैश्च
शकटैश्चैव
हयैर्नागैश्च
सा
चमूः ।
पुनर्निवृत्ता
विस्तीर्णा
भरतस्यानुयायिनी ॥ २० ॥
ततस्ते
यमुनां
दिव्यां
नदीं
तीर्त्वोर्मिमालिनीम् ।
ददृशुस्तां
पुनः
सर्वे
गङ्गां
शुभजलां
नदीम् ॥ २१ ॥
तां
रम्यजलसम्पूर्णां
सन्तीर्य
सहबान्धवः ।
शृङ्गिबेरपुरं
रम्यं
प्रविवेश
ससैनिकः ॥ २२ ॥
शृङ्गिबेरपुराद्भूयस्त्वयोध्यां
सन्ददर्श
ह ।
अयोध्यां
च
ततो
दृष्ट्वा
पित्रा
भ्रात्रा
विवर्जिताम् ॥ २३ ॥
भरतो
दुःखसन्तप्तः
सारथिं
चेदमब्रवीत् ।
सारथे
पश्य
विध्वस्ता
सायोध्या
न
प्रकाशते ॥ २४ ॥
निराकारा
निरानन्दा
दीना
प्रतिहतस्वरा ॥ २५ ॥