स्त्रिग्धगम्भीरघोषेण
स्यन्दनेनोपयान्
प्रभुः ।
अयोध्यां
भरतः
क्षिप्रं
प्रविवेश
महायशाः ॥ १ ॥
बिडालोलूकचरितामालीननरवारणाम् ।
तिमिराभ्याहतां
कालीमप्रकाशां
निशामिव ॥ २ ॥
राहुशत्रोः
प्रियां
पत्नीं
श्रिया
प्रज्वलितप्रभाम् ।
ग्रहेणाभ्युत्थिते
नैकां
रोहिणीमिव
पीडिताम् ॥ ३ ॥
अल्पोष्णक्षुब्धसलिलां
धर्मोत्तप्तविहङ्गमाम् ।
लीनमीनझषग्राहां
कृशां
गिरिनदीमिव ॥ ४ ॥
विधूमामिव
हेमाभामध्वराग्नेः
समुत्थिताम् ।
हविरभ्युक्षितां
पश्चात्
शिखां
विप्रलयं
गताम् ॥ ५ ॥
विध्वस्तकवचां
रुग्णजवाजिरथध्वजाम् ।
हतप्रवीरामापन्नां
चमूमिव
महाहवे ॥ ६ ॥
सफेना
सस्वना
भूत्वा
सागरस्य
समुत्थिताम् ।
प्रशान्तमारुतोद्घातां
जलोर्मिमिव
निस्वनाम् ॥ ७ ॥
त्यक्तां
यज्ञायुधैः
सर्वैरभिरूपैश्च
याजकैः ।
सुत्याकाले
विनिर्वृत्ते
वेदिं
गतरवामिव ॥ ८ ॥
गोष्ठमध्ये
स्थितामार्त्तामचरन्तीं
तृणं
नवम् ।
गोवृषेण
परित्यक्तां
गवां
पत्तिमिवोत्सुकाम् ॥ ९ ॥
प्रभाकराद्यैः
सुस्निग्धैः
प्रज्वलद्भिरिवोत्तमैः ।
वियुक्तां
मणिभिर्जात्यैर्नवां
मुक्तावलीमिव ॥ १० ॥
सहसा
चलितां
स्थानान्महीं
पुण्यक्षयाद्गताम् ।
संहृतद्युतिविस्तारां
तारामिव
दिवश्च्युताम् ॥ ११ ॥
पुष्पनद्धां
वसन्तान्ते
मत्तभ्रमरनादिताम् ।
द्रुतदावाग्निविप्लुष्टां
क्लान्तां
वनलतामिव ॥ १२ ॥
सम्मूढनिगमां
स्तब्धां
सङ्क्षिप्तविपणापणाम् ।
प्रच्छन्नशशिनक्षत्रां
द्यामिवाम्बुधरैर्वृताम् ॥ १३ ॥
क्षीणपानोत्तमैर्भिन्नैः
शरावैरभिसंवृताम् ।
हतशौण्डामिवाकाशे
पानभूमिमसंस्कृताम् ॥ १४ ॥
वृक्णभूमितलां
निम्नां
वृक्णपात्रैः
समावृताम् ।
उपयुक्तोदकां
भग्नां
प्रपां
निपतितामिव ॥ १५ ॥
विपुलां
विततां
चैव
युक्तपाशां
तरस्विनाम् ।
भूमौ
बाणैर्विनिष्कृत्तां
पतितां
ज्यामिवायुधात् ॥ १६ ॥
सहसा
युद्धशौण्डेन
हयारोहेण
वाहिताम् ।
निक्षिप्तभाण्डामुत्सृष्टां
किशोरीमिव
दुर्बलाम् ॥ १७ ॥
शुष्कतोयां
महामत्स्यैः
कूर्मैश्च
बहुभिर्वृताम् ।
प्रभिन्नतटविस्तीर्णां
वापीमिव
हृतोत्पलाम् ॥ १८ ॥
पुरुषस्याप्रहृष्टस्य
प्रतिषिद्धानुलेपनाम् ।
सन्तप्तामिव
शोकेन
गात्रयष्टिमभूषणाम् ॥ १९ ॥
प्रावृषि
प्रविगाढायां
प्रविष्टस्याभ्रमण्डलम् ।
प्रच्छन्नां
नीलजीमूतैर्भास्करस्य
प्रभामिव ॥ २० ॥
भरतस्तु
रथस्थः
सन्
श्रीमान्
दशरथात्मजः ।
वाहयन्तं
रथश्रेष्ठं
सारथिं
वाक्यमब्रवीत् ॥ २१ ॥
किं
नु
खल्वद्य
गम्भीरो
मूर्च्छितो
न
निशम्यते ।
यथापुरमयोध्यायां
गीतवादित्रनिस्वनः ॥ २२ ॥
वारुणीमदगन्धश्च
माल्यगन्धश्च
मूर्च्छितः ।
धूपितागरुगन्धश्च
न
प्रवाति
समन्ततः ॥ २३ ॥
प्रमत्तगजनादश्च
महांश्च
रथनिस्वनः ।
नेदानीं
श्रूयते
पुर्यामस्यां
रामे
विवासिते ॥ २४ ॥
चन्दनागरुगन्धांश्च
महार्हाश्च
नवस्रजः ।
गते
हि
रामे
तरुणाः
सन्तप्ता
नोपभुञ्जते ॥ २५ ॥
बहिर्यात्रां
न
गच्छन्ति
चित्रमाल्यधरा
नराः ।
नोत्सवाः
सम्प्रवर्त्तन्ते
रामशोकार्दिते
पुरे ॥ २६ ॥
सह
नूनं
मम
भ्रात्रा
पुरस्यास्यद्युतिर्गता ।
नहि
राजत्ययोध्येयं
सासारेवार्जुनी
क्षपा ॥ २७ ॥
कदा
नु
खलु
मे
भ्राता
महोत्सव
इवागतः ।
जनयिष्यत्ययोध्यायां
हर्षं
ग्रीष्म
इवाम्बुदः ॥ २८ ॥
तरुणैश्चारुवेषैश्च
नरैरुन्नतगामिभिः ।
सम्पतद्भिरयोध्यायां
नाभिभान्ति
महापथाः ॥ २९ ॥
एवं
बहुविधं
जल्पन्
विवेश
वसतिं
पितुः ।
तेन
हीनां
नरेन्द्रेण
सिंहहीनां
गुहामिव ॥ ३० ॥
तदा
तदन्तःपुरमुज्झितप्रभं
सुरैरिवोत्सृष्टमभास्करं
दिनम् ।
निरीक्ष्य
सर्वन्तु
विविक्तमात्मवान्
मुमोच
बाष्पं
भरतः
सुदुःखितः ॥ ३१ ॥