प्रतिप्रयाते
भरते
वसन्
रामस्तपोवने ।
लक्षयामास
सोद्वेगमथौत्सुक्यं
तपस्विनाम् ॥ १ ॥
ये
तत्र
चित्रकूटस्य
पुरस्तात्तापसाश्रमे ।
राममाश्रित्य
निरतास्तानलक्षयदुत्सुकान् ॥ २ ॥
नयनैर्भुकुटीभिश्च
रामं
निर्दिश्य
शङ्किताः ।
अन्योन्यमुपजल्पन्तः
शनैश्चक्रुर्मिथः
कथाः ॥ ३ ॥
तेषामौत्सुक्यमालक्ष्य
रामस्त्वात्मनि
शङ्कितः ।
कृताञ्जलिरुवाचेदमृषिं
कुलपतिं
ततः ॥ ४ ॥
न
कच्चिद्भगवन्
किञ्चित्पूर्ववृत्तमिदं
मयि ।
दृश्यते
विकृतं
येन
विक्रियन्ते
तपस्विनः ॥ ५ ॥
प्रमादाच्चरितं
कच्चित्किञ्चिन्नावरजस्य
मे ।
लक्ष्मणस्यर्षिभिर्दृष्टं
नानुरूपमिवात्मनः ॥ ६ ॥
कच्चिच्छुश्रूषमाणा
वः
शुश्रूषणपरा
मयि ।
प्रमादाभ्युचितां
वृत्तिं
सीता
युक्तं
न
वर्तते ॥ ७ ॥
अथर्षिर्जरया
वृद्धस्तपसा
च
जरां
गतः ।
वेपमान
इवोवाच
रामं
भूतदयापरम् ॥ ८ ॥
कुतः
कल्याणसत्त्वायाः
कल्याणाभिरतेस्तथा ।
चलनं
तात
वैदेह्यास्तपस्विषु
विशेषतः ॥ ९ ॥
त्वन्निमित्तमिदं
तावत्तापसान्
प्रति
वर्तते ।
रक्षोभ्यस्तेन
संविग्नाः
कथयन्ति
मिथः
कथाः ॥ १० ॥
रावणावरजः
कश्चित्
खरो
नामेह
राक्षसः ।
उत्पाट्य
तापसान्
सर्वान्
जनस्थाननिकेतनान् ॥ ११ ॥
धृष्टश्च
जितकाशीं
च
नृशंसः
पुरुषादकः ।
अवलिप्तश्च
पापश्च
त्वां
च
तात
न
मृष्यते ॥ १२ ॥
त्वं
यदाप्रभृति
ह्यस्मिन्नाश्रमे
तात
वर्तसे ।
तदाप्रभृति
रक्षांसि
विप्रकुर्वन्ति
तापसान् ॥ १३ ॥
दर्शयन्ति
हि
बीभत्सैः
क्रूरैर्भीषणकैरपि ।
नानारूपैर्विरूपैश्च
रूपैर्विकृतदर्शनैः ॥ १४ ॥
अप्रशस्तैरशुचिभिः
सम्प्रयोज्य
च
तापसान् ।
प्रतिघ्नन्त्यपरान्
क्षिप्रमनार्य्याः
पुरतः
स्थिताः ॥ १५ ॥
तेषु
तेष्वाश्रमस्थानेष्वबुद्धमवलीय
च ।
रमन्ते
तापसांस्तत्र
नाशयन्तोऽल्पयेतसः ॥ १६ ॥
अपक्षिपन्ति
स्रुग्भाण्डानग्नीन्
सिञ्चन्ति
वारिणा ।
कलशांश्च
प्रमृद्नन्ति
हवने
समुपस्थिते ॥ १७ ॥
तैर्दुरात्मभिरामृष्टानाश्रमान्
प्रजिहासवः ।
गमनायान्यदेशस्य
चोदयन्त्यृषयोऽद्य
माम् ॥ १८ ॥
तत्पुरा
राम
शारीरीमुपहिंसां
तपस्विषु ।
दर्शयन्ति
हि
दुष्टास्ते
त्यक्ष्याम
इममाश्रमम् ॥ १९ ॥
बहुमूलफलं
चित्रमविदूरादितो
वनम् ।
पुराणाश्रममेवाहं
श्रयिष्ये
सगणः
पुनः ॥ २० ॥
खरस्त्वय्यपि
चायुक्तं
पुरा
तात
प्रवर्त्तते ।
सहास्माभिरितो
गच्छ
यदि
बुद्धिः
प्रवर्त्तते ॥ २१ ॥
सकलत्रस्य
सन्देहो
नित्यं
यत्तस्य
राघव ।
समर्थस्यापि
वसतो
वासो
दुःखमिहाद्य
ते ॥ २२ ॥
इत्युक्तवन्तं
रामस्तं
राजपुत्रस्तपस्विनम् ।
न
शशाकोत्तरैर्वाक्यैरवरोद्धुं
समुत्सुकः ॥ २३ ॥
अभिनन्द्य
समापृच्छ्य
समाधाय
च
राघवम् ।
स
जगामाश्रमं
त्यक्त्वा
कुलैः
कुलपतिः
सह ॥ २४ ॥
रामः
संसाध्य
त्वृषिगणमनुगमनाद्देशात्तस्मात्
कुलपतिमभिवाद्य
ऋषिम् ।
सम्यक्प्रीतैस्तैरनुमत
उपदिष्टार्थः
पुण्यं
वासाय
स्वनिलयमुपसम्पेदे ॥ २५ ॥
आश्रमं
त्वृषिविरहितं
प्रभुः
क्षणमपि
न
विजहौ
स
राघवः ।
राघवं
हि
सततमनुगतास्तापसाश्चार्षचरितधृतगुणाः ॥ २६ ॥