सा
त्वेवमुक्ता
वैदेही
त्वनसूयाऽनसूयया ।
प्रतिपूज्य
वचो
मन्दं
प्रवक्तुमुपचक्रमे ॥ १ ॥
नैतदाश्चर्य्यमार्याया
यन्मां
त्वमनुभाषसे ।
विदितं
तु
ममाप्येतद्यथा
नार्य्याः
पतिर्गुरुः ॥ २ ॥
यद्यप्येष
भवेद्भर्ता
ममार्ये
वृत्तवर्जितः ।
अद्वैधमुपचर्तव्यस्तथाप्येष
मया
भवेत् ॥ ३ ॥
किं
पुनर्यो
गुणः
श्लाघ्यः
सानुक्रोशो
जितेन्द्रियः ।
स्थिरानुरागो
धर्मात्मा
मातृवत्पितृवत्प्रियः ॥ ४ ॥
यां
वृत्तिं
वर्त्तते
रामः
कौसल्यायां
महाबलः ।
तामेव
नृपनारीणामन्यासामपि
वर्त्तते ॥ ५ ॥
सकृद्दृष्टास्वपि
स्त्रीषु
नृपेण
नृपवत्सलः ।
मातृवद्वर्त्तते
वीरो
मानमुत्सृज्य
धर्मवित् ॥ ६ ॥
आगच्छन्त्याश्च
विजनं
वनमेवं
भयावहम् ।
समाहितं
मे
श्वश्र्वा
च
हृदये
तद्धृतं
महत् ॥ ७ ॥
पाणिप्रदानकाले
च
यत्पुरा
त्वग्निसन्निधौ ।
अनुशिष्टा
जनन्याऽस्मि
वाक्यं
तदपि
मे
धृतम् ॥ ८ ॥
नवीकृतं
च
तत्सर्वं
वाक्यैस्ते
धर्मचारिणि ।
पतिशुश्रूषणान्नार्य्यास्तपो
नान्यद्विधीयते ॥ ९ ॥
सावित्री
पतिशुश्रूषां
कृत्वा
स्वर्गे
महीयते ।
तथावृत्तिश्च
याता
त्वं
पतिशुश्रूषया
दिवम् ॥ १० ॥
वरिष्ठा
सर्वनारीणामेषा
च
दिवि
देवता ।
रोहिणी
न
विना
चन्द्रं
मुहूर्त्तमपि
दृश्यते ॥ ११ ॥
एवंविधाश्च
प्रवराः
स्त्रियो
भर्तृदृढव्रताः ।
देवलोके
महीयन्ते
पुण्येन
स्वेन
कर्मणा ॥ १२ ॥
ततोऽनसूया
संहृष्टा
श्रुत्वोक्तं
सीतया
वचः ।
शिरस्याघ्राय
चोवाच
मैथिलीं
हर्षयन्त्युत ॥ १३ ॥
नियमैर्विविधैराप्तं
तपो
हि
महदस्ति
मे ।
तत्संश्रित्य
बलं
सीते
छन्दये
त्वां
शुचिस्मिते ॥ १४ ॥
उपपन्नं
मनोज्ञं
च
वचनं
तव
मैथिलि ।
प्रीता
चास्म्युचितं
किं
ते
करवाणि
ब्रवीहि
मे ॥ १५ ॥
तस्यास्तद्वचनं
श्रुत्वा
विस्मिता
मन्दविस्मया
कृतमित्यब्रवीत्सीता
तपोबलसमन्विताम् ।
सा
त्वेवमुक्ता
धर्मज्ञा
तया
प्रीततराऽभवत् ॥ १६ ॥
सफलं
च
प्रहर्षं
ते
हन्त
सीते
करोम्यहम् ।
इदं
दिव्यं
वरं
माल्यं
वस्त्रमाभरणानि
च ॥ १७ ॥
अङ्गरागं
च
वैदेहि
महार्हं
चानुलेपनम् ।
मया
दत्तमिदं
सीते
तव
गात्राणि
शोभयेत् ॥ १८ ॥
अनुरूपमसङ्क्लिष्टं
नित्यमेव
भविष्यति ।
अङ्गरागेण
दिव्येन
लिप्ताङ्गी
जनकात्मजे ॥ १९ ॥
शोभयिष्यसि
भर्त्तारं
यथा
श्रीविष्णुमव्ययम् ।
सा
वस्त्रमङ्गरागं
च
भूषणानि
स्रजस्तथा ॥ २० ॥
मैथिली
प्रतिजग्राह
प्रीतिदानमनुत्तमम् ।
प्रतिगृह्य
च
तत्
सीता
प्रीतिदानं
यशस्विनी ॥ २१ ॥
श्लिष्टाञ्जलिपुटा
तत्र
समुपास्त
तपोधनाम् ।
तथा
सीतासुपासीनामनसूया
दृढव्रता ॥ २२ ॥
वचनं
प्रष्टुमारेभे
काञ्चित्
प्रियकथामनु ।
स्वयंवरे
किल
प्राप्ता
त्वमनेन
यशस्विना ॥ २३ ॥
राघवेणेति
मे
सीते
कथा
श्रुतिमुपागता ।
तां
कथां
श्रोतुमिच्छामि
विस्तरेण
च
मैथिलि ॥ २४ ॥
यथानुभूतं
कार्त्स्न्येन
तन्मे
त्वं
वक्तुमर्हसि ।
एवमुक्ता
तु
सा
सीता
तां
ततो
धर्मचारिणीम् ॥ २५ ॥
श्रूयतामिति
चोक्त्वा
वै
कथयामास
तां
कथाम् ।
मिथिलाधिपतिर्वीरो
जनको
नाम
धर्मवित् ॥ २६ ॥
क्षत्त्रधर्मे
ह्यभिरतो
न्यायतः
शास्ति
मेदिनीम् ।
तस्य
लाङ्गलहस्तस्य
कर्षतः
क्षेत्रमण्डलम् ॥ २७ ॥
अहं
किलोत्थिता
भित्त्वा
जगतीं
नृपतेः
सुता ।
स
मां
दृष्ट्वा
नरपतिर्मुष्टिविक्षेपतत्परः ॥ २८ ॥
पांसुकुण्ठितसर्वाङ्गीं
जनको
विस्मितोऽभवत् ।
अनपत्येन
च
स्नेहादङ्कमारोप्य
च
स्वयम् ॥ २९ ॥
ममेयं
तनयेत्युक्त्वा
स्नेहो
मयि
निपातितः ।
अन्तरिक्षे
च
वागुक्ता
प्रति
माऽमानुषी
किल ॥ ३० ॥
एवमेतन्नरपते
धर्मेण
तनया
तव ।
ततः
प्रहृष्टो
धर्मात्मा
पिता
मे
मिथिलाधिपः ॥ ३१ ॥
अवाप्तो
विपुलामृद्धिं
मामवाप्य
नराधिपः ।
दत्ता
चास्मीष्टवद्देव्यै
ज्येष्ठायै
पुण्यकर्मणा ॥ ३२ ॥
तया
सम्भाविता
चास्मि
स्निग्धया
मातृसौहृदात् ।
पतिसंयोगसुलभं
वयो
दृष्ट्वा
तु
मे
पिता ॥ ३३ ॥
चिन्तामभ्यगमद्दीनो
वित्तनाशादिवाधनः ।
सदृशाच्चापकृष्टाच्च
लोके
कन्यापिता
जनात् ॥ ३४ ॥
प्रधर्षणमवाप्नोति
शक्रेणापि
समो
भुवि ।
तां
धर्षणामदूरस्थां
दृष्ट्वा
चात्मनि
पार्थिवः ॥ ३५ ॥
चिन्तार्णवगतः
पारं
नाससादाप्लवो
यथा ।
अयोनिजां
हि
मां
ज्ञात्वा
नाध्यगच्छद्विचिन्तयन् ॥ ३६ ॥
सदृशं
चानुरूपं
च
महीपालः
पतिं
मम ।
तस्य
बुद्धिरियं
जाता
चिन्तयानस्य
सन्ततम् ॥ ३७ ॥
स्वयं
वरं
तनूजायाः
करिष्यामीति
धीमतः ।
महायज्ञे
तदा
तस्य
वरुणेन
महात्मना ॥ ३८ ॥
दत्तं
धनुर्वरं
प्रीत्या
तूणी
चाक्षयसायकौ ।
असञ्चाल्यं
मनुष्यैश्च
यत्नेनापि
च
गौरवात् ॥ ३९ ॥
तन्न
शक्ता
नमयितुं
स्वप्नेष्वपि
नराधिपाः ।
तद्धनुः
प्राप्य
मे
पित्रा
व्याहृतं
सत्यवादिना ॥ ४० ॥
समवाये
नरेन्द्राणां
पूर्वमामन्त्र्य
पार्थिवान् ।
इदं
च
धनुरुद्यम्य
सज्यं
यः
कुरुते
नरः ॥ ४१ ॥
तस्य
मे
दुहिता
भार्या
भविष्यति
न
संशयः ।
तच्च
दृष्ट्वा
धनुः
श्रेष्ठं
गौरवाद्गिरिसन्निभम् ॥ ४२ ॥
अभिवाद्य
नृपा
जग्मुरशक्तास्तस्य
तोलने ।
विश्वामित्रेण
सहितो
यज्ञं
द्रष्टुं
समागतः ॥ ४३ ॥
लक्ष्मणेन
सह
भ्रात्रा
रामः
सत्यपराक्रमः ।
विश्वामित्रस्तु
धर्मात्मा
मम
पित्रा
सुपूजितः ॥ ४४ ॥
प्रोवाच
पितरं
तत्र
भ्रातरौ
रामलक्ष्मणौ ।
सुतौ
दशरथस्येमौ
धनुर्दर्शनकाङ्क्षिणौ ॥ ४५ ॥
धनुर्दर्शय
रामाय
राजपुत्राय
दैविकम् ।
इत्युक्तस्तेन
विप्रेण
तद्धनुः
समुपानयत् ॥ ४६ ॥
निमेषान्तरमात्रेण
तदानम्य
स
वीर्य्यवान् ।
ज्यां
समारोप्य
झटिति
पूरयामास
वीर्यवत् ॥ ४७ ॥
तेन
पूरयता
वेगान्मध्ये
भग्नं
द्विधा
धनुः ।
तस्य
शब्दोऽभवद्भीमः
पतितस्याशनेरिव ॥ ४८ ॥
ततोऽहं
तत्र
रामाय
पित्रा
सत्याभिसन्धिना ।
निश्चिता
दातुमुद्यम्य
जलभाजनमुत्तमम् ॥ ४९ ॥
दीयमानां
न
तु
तदा
प्रतिजग्राह
राघवः ।
अविज्ञाय
पितुश्छन्दमयोध्याधिपतेः
प्रभोः ॥ ५० ॥
ततः
श्वशुरमामन्त्र्य
वृद्धं
दशरथं
नृपम् ।
मम
पित्रा
त्वहं
दत्ता
रामाय
विदितात्मने ॥ ५१ ॥
मम
चैवानुजा
साध्वी
ऊर्मिला
प्रियदर्शना ।
भार्य्यार्थे
लक्ष्मणस्यापि
दत्ता
पित्रा
मम
स्वयम् ॥ ५२ ॥
एवं
दत्तास्मि
रामाय
तदा
तस्मिन्
स्वयम्वरे ।
अनुरक्तास्मि
धर्मेण
पतिं
वीर्यवतां
वरम् ॥ ५३ ॥