अनसूया
तु
धर्मज्ञा
श्रुत्वा
तां
महतीं
कथाम् ।
पर्य्यष्वजत
बाहुभ्यां
शिरस्याघ्राय
मैथिलीम् ॥ १ ॥
यथा
स्वयम्वरं
वृत्तं
तत्सर्वं
हि
श्रुतं
मया ।
रमेऽहं
कथया
ते
तु
दृढं
मधुरभाषिणि ॥ २ ॥
दिवसं
प्रतिकीर्णानामाहारार्थं
पतत्त्रिणाम् ।
सन्ध्याकाले
निलीनानां
निद्रार्थं
श्रूयते
ध्वनिः ॥ ३ ॥
एते
चाप्यभिषेकार्द्रा
मुनयः
कलशोद्यताः ।
सहिता
उपवर्तन्ते
सलिलाप्लुतवल्कलाः ॥ ४ ॥
ऋषीणामग्निहोत्रेषु
हुतेषु
विधिपूर्वकम् ।
कपोताङ्गारुणो
धूमो
दृश्यते
पवनोद्धतः ॥ ५ ॥
अल्पपर्णाहि
तरवो
घनीभूताः
समन्ततः ।
विप्रकृष्टेपि
देशेऽस्मिन्न
प्रकाशन्ति
वै
दिशः ॥ ६ ॥
रजनीचरसत्त्वानि
प्रचरन्ति
समन्ततः ।
तपोवनमृगा
ह्येते
वेदितीर्थेषु
शेरते ॥ ७ ॥
सम्प्रवृद्धा
निशा
सीते
नक्षत्रसमलङ्कृता ।
जोत्स्नाप्रावरणश्चन्द्रो
दृश्यतेऽभ्युदितोऽम्बरे ॥ ८ ॥
गम्यतामनुजानामि
रामस्यानुचरी
भव ।
कथयन्त्या
हि
मधुरं
त्वयाहं
परितोषिता ॥ ९ ॥
अलङ्कुरु
च
तावत्त्वं
प्रत्यक्षं
मम
मैथिलि ।
प्रीतिं
जनय
मे
वत्से
दिव्यालङ्कारशोभिता ॥ १० ॥
सा
तथा
समलङ्कृत्य
सीता
सुरसुतोपमा ।
प्रणम्य
शिरसा
तस्यै
रामं
त्वभिमुखी
ययौ ॥ ११ ॥
तथा
तु
भूषितां
सीतां
ददर्श
वदतां
वरः ।
राघवः
प्रीतिदानेन
तपस्विन्या
जहर्ष
च ॥ १२ ॥
न्यवेदयत्ततः
सर्वं
सीता
रामाय
मैथिली ।
प्रीतिदानं
तपस्विन्या
वसनाभरणस्रजम् ॥ १३ ॥
प्रहृष्टस्त्वभवद्रामो
लक्ष्मणश्च
महारथः ।
मैथिल्याः
सत्क्रियां
दृष्ट्वा
मानुषेषु
सुदुर्लभाम् ॥ १४ ॥
ततस्तां
शर्वरीं
प्रीतः
पुण्यां
शशिनिभाननः ।
अर्चितस्तापसैः
सिद्धैरुवास
रघुनन्दनः ॥ १५ ॥
तस्यां
रात्र्यां
व्यतीतायामभिषिच्य
हुताग्निकान् ।
आपृच्छेतां
नरव्याघ्रौ
तापसान्
वनगोचरान् ॥ १६ ॥
तावूचुस्ते
वनचरास्तापसा
धर्मचारिणः ।
वनस्य
तस्य
सञ्चारं
राक्षसैः
समभिप्लुतम् ॥ १७ ॥
रक्षांसि
पुरुषादानि
नानारूपाणि
राघव ।
वसन्त्यस्मिन्
महारण्ये
व्यालाश्च
रुधिराशनाः ॥ १८ ॥
उच्छिष्टं
वा
प्रमत्तं
वा
तापसं
धर्मचारिणम् ।
अदन्त्यस्मिन्
महारण्ये
तान्निवारय
राघव ॥ १९ ॥
एष
पन्था
महर्षीणां
फलान्याहरतां
वने ।
अनेन
तु
वनं
दुर्गं
गन्तुं
राघव
ते
क्षमम् ॥ २० ॥
इतीव
तैः
प्राञ्जलिभिस्तपस्विभिर्द्विजैः
कृतः
स्वस्त्ययनः
परं
तपः ।
वनं
सभार्य्यः
प्रविवेश
राघवः
सलक्ष्मणः
सूर्य्यमिवाभ्रमण्डलम् ॥ २१ ॥