प्रविश्य
तु
महारण्यं
दण्डकारण्यमात्मवान् ।
ददर्श
रामो
दुर्धर्षस्तापसाश्रममण्डलम् ॥ १ ॥
कुशचीरपरिक्षिप्तं
ब्राह्म्या
लक्ष्म्या
समावृत्तम् ।
यथा
प्रदीप्तं
दुर्दर्शं
गगने
सूर्यमण्डलम् ॥ २ ॥
शरण्यं
सर्वभूतानां
सुसंमृष्टाजिरं
तथा ।
मृगैर्बहुभिराकीर्णं
पक्षिसङ्घैः
समावृतम् ॥ ३ ॥
पूजितं
च
प्रनृत्तं
च
नित्यमप्सरसां
गणैः ।
विशालैरग्निशरणैः
स्रुग्भाण्डैरजिनैः
कुशैः ॥ ४ ॥
समिद्भिस्तोयकलशैः
फलमूलैश्च
शोभितम् ।
आरण्यैश्च
महावृक्षैः
पुण्यैः
स्वादुफलैर्वृतम् ॥ ५ ॥
बलिहोमार्चितं
पुण्यं
ब्रह्मघोषनिनादितम् ।
पुष्पैर्वन्यैः
परिक्षिप्तं
पद्मिन्या
च
सपद्मया ॥ ६ ॥
फलमूलाशनैर्दान्तश्चीरकृष्णाजिनाम्बरैः ।
सूर्यवैश्वानराभैश्च
पुराणैर्मुनिभिर्वृतम् ॥ ७ ॥
तद्ब्रह्मभवनप्रख्यं
ब्रह्मघोषनिनादितम् ।
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् ॥ ८ ॥
स
दृष्ट्वा
राघवः
श्रीमान्
तापसाश्रममण्डलम् ।
अभ्यगच्छन्महातेजा
विज्यं
कृत्वा
महद्धनुः ॥ ९ ॥
दिव्यज्ञानोपपन्नास्ते
रामं
दृष्ट्वा
महर्षयः ।
अभ्यगच्छंस्तथा
प्रीता
वैदेहीं
च
यशस्विनीम् ॥ १० ॥
लक्ष्मणं
चैव
दृष्ट्वा
तु
वैदेहीं
च
यशस्विनीम् ।
मङ्गलानि
प्रयुञ्जानाः
प्रत्यगृह्णन्
दृढव्रताः ॥ ११ ॥
रूपसंहननं
लक्ष्मीं
सौकुमार्यं
सुवेषताम् ।
ददृशुर्विस्मिताकारा
रामस्य
वनवासिनः ॥ १२ ॥
वैदेहीं
लक्ष्मणं
रामं
नेत्रैरनिमिषैरिव ।
आश्चर्यभूतान्
ददृशुः
सर्वे
ते
वनचारिणः ॥ १३ ॥
अत्रैनं
हि
महाभागाः
सर्वभूतहिते
रतम् ।
अतिथिं
पर्णशालायां
राघवं
सन्न्यवेशयन् ॥ १४ ॥
ततो
रामस्य
सत्कृत्य
विधिना
पावकोपमाः ।
आजह्रुस्ते
महाभागास्सलिलं
धर्मचारिणः ॥ १५ ॥
मूलं
पुष्पं
फलं
वन्यमाश्रमं
च
महात्मनः ।
निवेदयित्वा
धर्मज्ञास्ततः
प्राञ्जलयोऽब्रुवन् ॥ १६ ॥
धर्मपालो
जनस्यास्य
शरण्यस्त्वं
महायशाः ।
पूजनीयश्च
मान्यश्च
राजा
दण्डधरो
गुरुः ॥ १७ ॥
इन्द्रस्येह
चतुर्भागः
प्रजा
रक्षति
राघव ।
राजा
तस्माद्वरान्
भोगान्
भुङ्क्ते
लोकनमस्कृतः ॥ १८ ॥
ते
वयं
भवता
रक्ष्या
भवद्विषयवासिनः ।
नगरस्थो
वनस्थो
वा
त्वं
नो
राजा
जनेश्वरः ॥ १९ ॥
न्यस्तदण्डा
वयं
राजन्
जितक्रोधा
जितेन्द्रियाः ।
रक्षितव्यास्त्वया
शश्वद्गर्भभूतास्तपोधनाः ॥ २० ॥
एवमुक्त्वा
फलैर्मूलैः
पुष्पैर्वन्यैश्च
राघवम् ।
अन्यैश्च
विविधाहारैः
सलक्ष्मणमपूजयन् ॥ २१ ॥
तथान्ये
तापसाः
सिद्धा
रामं
वैश्वानरोपमाः ।
न्यायवृत्ता
यथान्यायं
तर्पयामासुरीश्वरम् ॥ २२ ॥