कृतातिथ्योऽथ
रामस्तु
सूर्यस्योदयनं
प्रति ।
आमन्त्र्य
स
मुनीन्
सर्वान्
वनमेवान्वगाहत ॥ १ ॥
नानामृगगणाकीर्णं
शार्दूलवृकसेवितम् ।
ध्वस्तवृक्षलतागुल्मं
दुर्दर्शसलिलाशयम् ॥ २ ॥
निष्कूजनानाशकुनिझिल्लिकागणनादितम् ।
लक्ष्मणानुगतो
रामो
वनमध्यं
ददर्श
ह ॥ ३ ॥
सीतया
सह
काकुत्स्थस्तस्मिन्
घोरमृगायुते ।
ददर्श
गिरिशृङ्गाभं
पुरुषादं
महास्वनम् ॥ ४ ॥
गम्भीराक्षं
महावक्त्रं
विकटं
विषमोदरम् ।
बीभत्सं
विषमं
दीर्घं
विकृतं
घोरदर्शनम् ॥ ५ ॥
वसानं
चर्म
वैयाघ्रं
वसार्द्रं
रुधिरोक्षितम् ।
त्रासनं
सर्वभूतानां
व्यादितास्य
मिवान्तकम् ॥ ६ ॥
सविषाणं
वसादिग्धं
गजस्य
च
शिरो
महत् ।
अवसज्यायसे
शूले
विनदन्तं
महास्वनम् ॥ ७ ॥
स
रामं
लक्ष्मणं
चैव
सीतां
दृष्ट्वा
च
मैथिलीम् ।
अभ्यधावत
सङ्क्रुद्धः
प्रजाः
काल
इवान्तकः ॥ ८ ॥
स
कृत्वा
भैरवं
नादं
चालयन्निव
मेदिनीम् ।
अङ्केनादाय
वैदेहीमपक्रम्य
ततोऽब्रवीत् ॥ ९ ॥
युवां
जटाचीरधरौ
सभार्यौ
क्षीणजीवितौ ।
प्रविष्टौ
दण्डकारण्यं
शरचापासिधारिणौ ॥ १० ॥
कथं
तापसयोर्वां
च
वासः
प्रमदया
सह ।
अधर्मचारिणौ
पापौ
कौ
युवां
मुनिदूषकौ ॥ ११ ॥
अहं
वनमिदं
दुर्गं
विराधो
नाम
राक्षसः ।
चरामि
सायुधो
नित्यमृषिमांसानि
भक्षयन् ॥ १२ ॥
इयं
नारी
वरारोहा
मम
भार्या
भविष्यति ।
युवयोः
पापयोश्चाहं
पास्यामि
रुधिरं
मृधे ॥ १३ ॥
तस्यैवं
ब्रुवतो
धृष्टं
विराधस्य
दुरात्मनः ।
श्रुत्वा
सगर्वितं
वाक्यं
सम्भ्रान्ता
जनकात्मजा ॥ १४ ॥
सीता
प्रावेपतोद्वेगात्प्रवाते
कदली
यथा ।
तां
दृष्ट्वा
राघवः
सीतां
विराधाङ्कगतां
शुभाम् ॥ १५ ॥
अब्रवील्लक्ष्मणं
वाक्यं
मुखेन
परिशुष्यता ।
मम
भार्यां
शुभाचारां
विराधाङ्के
प्रवेशिताम् ॥ १६ ॥
अत्यन्तसुखसंवृद्धां
राजपुत्रीं
यशस्विनीम् ।
यदभिप्रेतमस्मासु
प्रियं
वरवृतं
च
यत् ॥ १७ ॥
कैकेय्यास्तु
सुसम्पन्नं
क्षिप्रमद्यैव
लक्ष्मण ।
या
न
तुष्यति
राज्येन
पुत्रार्थे
दीर्घदर्शिनी ॥ १८ ॥
ययाहं
सर्वभूतानां
हितः
प्रस्थापितो
वनम् ।
अद्येदानीं
सकामा
सा
या
माता
मम
मध्यमा ॥ १९ ॥
परस्पर्शात्तु
वैदेह्या
न
दुःखतरमस्ति
मे ।
पितुर्वियोगात्सौमित्रे
स्वराज्यहरणात्तथा ॥ २० ॥
इति
ब्रुवति
काकुत्स्थे
बाष्पशोकपरिप्लुते ।
अब्रवील्लक्ष्मणः
क्रुद्धो
रुद्धो
नाग
इव
श्वसन् ॥ २१ ॥
अनाथ
इव
भूतानां
नाथस्त्वं
वासवोपमः ।
मया
प्रेष्येण
काकुत्स्थ
किमर्थं
परितप्यसे ॥ २२ ॥
शरेण
निहतस्याद्य
मया
क्रुद्धेन
रक्षसः ।
विराधस्य
गतासोर्हि
मही
पास्यति
शोणितम् ॥ २३ ॥
राज्यकामे
मम
क्रोधो
भरते
यो
बभूव
ह ।
तं
विराधे
प्रमोक्ष्यामि
वज्री
वज्रमिवाचले ॥ २४ ॥
मम
भुजबलवेगवेगितः
पततु
शरोऽस्य
महान्
महोरसि ।
व्यवसयतु
तनोश्च
जीवितं
पततु
ततस्स
महीं
विघूर्णितः ॥ २५ ॥