अथोवाच
पुनर्वाक्यं
विराधः
पूरयन्
वनम् ।
आत्मानं
पृच्छते
ब्रूतं
कौ
युवां
क्व
गमिष्यथः ॥ १ ॥
तमुवाच
ततो
रामो
राक्षसं
ज्वलिताननम् ।
पृच्छन्तं
सुमहातेजा
इक्ष्वाकुकुलमात्मनः ॥ २ ॥
क्षत्त्रियौ
वृत्तसम्पन्नौ
विद्धि
नौ
वनगोचरौ ।
त्वां
तु
वेदितुमिच्छावः
कस्त्वं
चरसि
दण्डकान् ॥ ३ ॥
तमुवाच
विराधस्तु
रामं
सत्यपराक्रमम् ।
हन्त
वक्ष्यामि
ते
राजन्
निबोध
मम
राघव ॥ ४ ॥
पुत्रः
किल
जयस्याहं
मम
माता
शतह्रदा ।
विराध
इति
मामाहुः
पृथिव्यां
सर्वराक्षसाः ॥ ५ ॥
तपसा
चापि
मे
प्राप्ता
ब्रह्मणो
हि
प्रसादजा ।
शस्त्रेणावध्यता
लोकेऽच्छेद्याभेद्यत्वमेव
च ॥ ६ ॥
उत्सृज्य
प्रमदामेनामनपेक्षौ
यथागतम् ।
त्वरमाणौ
पलायेथां
न
वां
जीवितमाददे ॥ ७ ॥
तं
रामः
प्रत्युवाचेदं
कोपसंरक्तलोचनः ।
राक्षसं
विकृताकारं
विराधं
पापचेतसम् ॥ ८ ॥
क्षुद्र
धिक्
त्वां
तु
हीनार्थं
मृत्युमन्वेषसे
ध्रुवम् ।
रणे
सम्प्राप्स्यसे
तिष्ठ
न
मे
जीवन्
गमिष्यति ॥ ९ ॥
ततः
सज्यं
धनुः
कृत्वा
रामः
सुनिशितान्
शरान् ।
सुशीघ्रमभिसन्धाय
राक्षसं
निजघान
ह ॥ १० ॥
धनुषा
ज्यागुणवता
सप्त
बाणान्
मुमोच
ह ।
रुक्मपुङ्खान्
महावेगान्
सुपर्णानिलतुल्यगान् ॥ ११ ॥
ते
शरीरं
विराधस्य
भित्त्वा
बर्हिणवाससः ।
निपेतुः
शोणितादिग्धा
धरण्यां
पावकोपमाः ॥ १२ ॥
स
विद्धो
न्यस्य
वैदेहीं
शूलमुद्यम्य
राक्षसः ।
अभ्यद्रवत्सुसङ्क्रुद्धस्तदा
रामं
सलक्ष्मणम् ॥ १३ ॥
स
विनद्य
महानादं
शूलं
शक्रध्वजोपमम् ।
प्रगृह्याशोभत
तदा
व्यात्तानन
इवान्तकः ॥ १४ ॥
अथ
तौ
भ्रातरौ
दीप्तं
शरवर्षं
ववर्षतुः ।
विराधे
राक्षसे
तस्मिन्
कालान्तकयमोपमे ॥ १५ ॥
स
प्रहस्य
महारौद्रः
स्थित्वाजृम्भत
राक्षसः ।
जृम्भमाणस्य
ते
बाणाः
कायान्निष्पेतुराशुगाः ॥ १६ ॥
स्पर्शात्तु
वरदानेन
प्राणान्
संरोध्य
राक्षसः ।
विराधः
शूलमुद्यम्य
राघवावभ्यधावत ॥ १७ ॥
तच्छूलं
वज्रसङ्काशं
गगने
ज्वलनोपमम् ।
द्वाभ्यां
शराभ्यां
चिच्छेद
रामः
शस्त्रभृतां
वरः ॥ १८ ॥
तद्रामविशिखच्छिन्नं
शूलं
तस्य
कराद्भुवि ।
पपाताशनिना
छिन्नं
मेरोरिव
शिलातलम् ॥ १९ ॥
तौ
खङ्गौ
क्षिप्रमुद्यम्य
कृष्णसर्पोपमौ
शुभौ ।
तूर्णमापततस्तस्य
तदा
प्रहरतां
बलात् ॥ २० ॥
स
वध्यमानस्सुभृशं
बाहुभ्यां
परिरभ्य
तौ ।
अप्रकम्प्यौ
नरव्याघ्रौ
रोद्रः
प्रस्थातुमैच्छत ॥ २१ ॥
तस्याभिप्रायमाज्ञाय
रामो
लक्ष्मणमब्रवीत् ।
वहत्वयमलं
तावत्
पथानेन
तु
राक्षसः ॥ २२ ॥
यथा
चेच्छति
सोमित्रे
तथा
वहतु
राक्षसः ।
अयमेव
हि
नः
पन्था
येन
याति
निशाचरः ॥ २३ ॥
स
तु
स्वबलवीर्येण
समुत्क्षिप्य
निशाचरः ।
बालाविव
स्कन्धगतौ
चकारातिबलौ
ततः ॥ २४ ॥
तावारोप्य
ततः
स्कन्धं
राघवौ
रजनीचरः ।
विराधो
निनदन्
घोरं
जगामाभिमिखो
वनम् ॥ २५ ॥
वनं
महामेघनिभं
प्रविष्टो
द्रुमैर्महद्भिर्विविधैरुपेतम् ।
नानाविधैः
पक्षिशतैर्विचित्रं
शिवायुतं
व्यालमृगैर्विकीर्णम् ॥ २६ ॥