रामस्तु
सहितो
भ्रात्रा
सीतया
च
परन्तपः ।
सुतीक्ष्णस्याश्रमपदं
जगाम
सह
तैर्द्विजैः ॥ १ ॥
स
गत्वाऽदूरमध्वानं
नदीस्तीर्त्वा
बहूदकाः ।
ददर्श
विपुलं
शैलं
महामेघमिवोन्नतम् ॥ २ ॥
ततस्तदिक्ष्वाकुवरौ
सन्ततं
विविधैर्द्रुमैः ।
काननं
तौ
विविशतुस्सीतया
सह
राघवौ ॥ ३ ॥
प्रविष्टस्तु
वनं
घोरं
बहुपुष्पफलद्रुमम् ।
ददर्शाश्रममेकान्ते
चीरमालापरिष्कृतम् ॥ ४ ॥
तत्र
तापसमासीनं
मलपङ्कजटाधरम् ।
रामस्सुतीक्ष्णं
विधिवत्तपोवृद्धमभाषत ॥ ५ ॥
रामोऽहमस्मि
भगवन्
भवन्तं
द्रष्टुमागतः ।
त्वं
माऽभिवद
धर्मज्ञ
महर्षे
सत्यविक्रम ॥ ६ ॥
स
निरीक्ष्य
ततो
वीरं
रामं
धर्मभृतां
वरम् ।
समाश्लिष्य
च
बाहुभ्यामिदं
वचनमब्रवीत् ॥ ७ ॥
स्वागतं
खलु
ते
वीर
राम
धर्मभृतां
वर ।
आश्रमोऽयं
त्वयाक्रान्तः
सनाथ
इव
साम्प्रतम् ॥ ८ ॥
प्रतीक्षमाणस्त्वामेव
नारोहेऽहं
माहायशः ।
देवलोकमितो
वीर
देहं
त्यक्त्वा
महीतले ॥ ९ ॥
चित्रकूटमुपादाय
राज्यभ्रष्टोऽसि
मे
श्रुतः ।
उपागम्य
च
मां
देवो
महादेवस्सुरेश्वरः ॥ १० ॥
सर्वान्
लोकान्
जितानाह
मम
पुण्येन
कर्मणा ।
तेषु
देवर्षिजुष्टेषु
जितेषु
तपसा
मया ॥ ११ ॥
मत्प्रसादात्सभार्यस्त्वं
विहरस्व
सलक्ष्मणः ।
तमुग्रतपसा
युक्तं
महर्षिं
सत्यवादिनम् ॥ १२ ॥
प्रत्युवाचात्मवान्
रामो
ब्रह्माणमिव
काश्यपः ।
अहमेवाहरिष्यामि
स्वयं
लोकान्महामुने ॥ १३ ॥
आवासं
त्वहमिच्छामि
प्रदिष्टमिह
कानने ।
भवान्
सर्वत्र
कुशलस्सर्वभूतहिते
रतः ॥ १४ ॥
आख्यातश्शरभङ्गेण
गौतमेन
महात्मना ।
एवमुक्तस्तु
रामेण
महर्षिर्लोकर्विश्रुतः ॥ १५ ॥
अब्रवीन्मधुरं
वाक्यं
हर्षेण
महताप्लुतः ।
अयमोवाश्रमो
राम
गुणवान्
रम्यतामिह ॥ १६ ॥
ऋषिसङ्घानुचरितस्सदा
मूलफलान्वितः ।
अटित्वा
प्रतिगच्छन्ति
लोभयित्वाकुतोभयाः ॥ १७ ॥
नान्यो
दोषो
भवेदत्र
मृगेभ्योऽन्यत्र
विद्धि
वै ।
तच्छ्रुत्वा
वचनं
तस्य
महर्षेर्लक्ष्मणाग्रजः ॥ १८ ॥
उवाच
वचनं
धीरो
विकृष्य
सशरं
घनुः ।
तानहं
सुमहाभाग
मृगसङ्घान्
समागतान् ॥ १९ ॥
हन्यां
निशितधारेण
शरेणाशनिवर्चसा ।
भवांस्तत्राभिषज्येत
किं
स्यात्कृच्छ्रतरं
ततः ॥ २० ॥
एतस्मिन्नाश्रमे
वासं
चिरं
तु
न
समर्थये ।
तमेवमुक्त्वा
वरदं
रामस्सन्ध्यामुपागमत् ॥ २१ ॥
अन्वास्य
पश्चिमां
सन्ध्यां
तत्र
वासमकल्पयत् ।
सुतीक्ष्णस्याश्रमे
रम्ये
सीतया
लक्ष्मणेन
च ॥ २२ ॥
ततश्शुभं
तापसभोज्यमन्नं
स्वयं
सुतीक्ष्णः
पुरुषर्षभाभ्याम् ।
ताभ्यां
सुसुत्कृत्य
ददौ
महात्मा
सन्ध्यानिवृत्तौ
रजनीमवेक्ष्य ॥ २३ ॥