रामस्तु
सहसौमित्रिस्सुतीक्ष्णेनाभिपूजितः ।
परिणाम्य
निशां
तत्र
प्रभाते
प्रत्यबुद्ध्यत ॥ १ ॥
उत्थाय
तु
यथाकालं
राघवः
सह
सीतया ।
उपास्पृशत्सुशीतेन
जलेनोत्पलगन्धिना ॥ २ ॥
अथ
तेऽग्निं
सुरांश्चैव
वैदेही
रामलक्ष्मणौ ।
काल्यं
विधिवदभ्यर्च्य
तपस्विशरणे
वने ॥ ३ ॥
उदयन्तं
दिनकरं
दृष्ट्वा
विगतकल्मषाः ।
सुतीक्ष्णमभिगम्येदं
श्लक्ष्णं
वचनमब्रुवन् ॥ ४ ॥
सुखोषितास्स्म
भगवन्
त्वया
पूज्येन
पूजिताः ।
आपृच्छामः
प्रयास्यामो
मुनयस्त्वरयन्ति
नः ॥ ५ ॥
त्वरामहे
वयं
द्रष्टुं
कृत्स्नमाश्रममण्डलम् ।
ऋषीणां
पुण्यशीलानां
दण्डकारण्यवासिनाम् ॥ ६ ॥
अभ्यनुज्ञातुमिच्छामस्सहैभिर्मुनिपुङ्गवैः ।
धर्मनित्यैस्तपौदान्तैर्विशिखैरिव
पावकैः ॥ ७ ॥
अविषह्यातपो
यात्सूर्यो
नातिविराजते ।
अमार्गेणागतां
लक्ष्मीं
प्राप्येवान्वयवर्जितः ॥ ८ ॥
तावदिच्छामहे
गन्तुमित्युक्त्वा
चरणौ
मुनेः ।
ववन्दे
सहसौमित्रिस्सीतया
सह
राघवः ॥ ९ ॥
तौ
संस्पृशन्तौ
चरणावुत्थाप्य
मुनिपुङ्गवः ।
गाढमालिङ्ग्य
सस्नेहमिदं
वचनमब्रवीत् ॥ १० ॥
अरिष्टं
गच्छ
पन्थानं
राम
सैमित्रिणा
सह ।
सीतया
चानया
सार्द्धं
छाययेवानुवृत्तया ॥ ११ ॥
पश्याश्रमपदं
रम्यं
दण्डकारण्यवासिनाम् ।
एषां
तपस्विनां
वीर
तपसा
भावितात्मनाम् ॥ १२ ॥
सप्राज्यफलमूलानि
पुष्पितानि
वनानि
च ।
प्रशस्तमृगयूथानि
शान्तपक्षिगणानि
च ॥ १३ ॥
फुल्लपङ्कजषण्डानि
प्रसन्नसलिलानि
च ।
कारण्डवविकीर्णानि
तटाकानि
सरांसि
च ॥ १४ ॥
द्रक्ष्यसे
दृष्टिरम्याणि
गिरिप्रस्रवणानि
च ।
रमणीयान्यरण्यानि
मयूराभिरुतानि
च ॥ १५ ॥
गम्यतां
वत्स
सौमित्रे
भवानपि
च
गच्छतु ।
आगन्तव्यं
त्वाय
तात
पुनरेवाश्रमं
मम ॥ १६ ॥
एवमुक्तस्तथेत्युक्त्वा
काकुत्स्थस्सहलक्ष्मणः ।
प्रदक्षिणं
मुनिं
कृत्वा
प्रस्थातुमुपचक्रमे ॥ १७ ॥
ततः
शुभतरे
तूणी
धनुषी
चायतेक्षणा ।
ददौ
सीता
तयोर्भ्रात्रोः
खङ्गौ
च
विमलौ
ततः ॥ १८ ॥
आबध्य
च
शुभे
तूणी
चापौ
चादाय
सस्वनौ ।
निष्क्रान्तावाश्रमाद्गन्तुमुभौ
तौ
रामलक्ष्मणौ ॥ १९ ॥
श्रीमन्तौ
रूपसम्पन्नौ
दीप्यमानौ
स्वतेजसा ।
प्रस्थितौ
धृतचापौ
तौ
सीतया
सह
राघवौ ॥ २० ॥