वाक्यमेतत्तु
वैदेह्या
व्याहृतं
भर्तृभक्तया ।
श्रुत्वा
धर्मे
स्थितो
रामः
प्रत्युवाचाथ
मैथिलीम् ॥ १ ॥
हितमुक्तं
त्वया
देवि
स्निग्धया
सदृशं
वचः ।
कुलं
व्यपदिशन्त्या
च
धर्मज्ञे
जनकात्मजे ॥ २ ॥
किन्तु
वक्ष्याम्यहं
देवि
त्वयैवोक्तमिदं
वचः ।
क्षत्त्रियैर्धार्यते
चापो
नार्तशब्दो
भवेदिति ॥ ३ ॥
मां
सीते
स्वयमागम्य
शरण्याः
शरणं
गताः ।
ते
चार्ता
दण्डकारण्ये
मुनयः
संशितव्रताः ॥ ४ ॥
वसन्तो
धर्मनिरता
वने
मूलफलाशनाः ।
न
लभन्ते
सुखं
भीता
राक्षसैः
क्रूरकर्मभिः ॥ ५ ॥
काले
काले
च
निरता
नियमैर्विविधैर्वने ।
भक्ष्यन्ते
राक्षसैर्भीमैर्नरमांसोपजीविभिः ॥ ६ ॥
ते
भक्ष्यमाणा
मुनयो
दण्डकारण्यवासिनः ।
अस्मानभ्यवपद्येति
मामूचुर्द्विजसत्तमाः ॥ ७ ॥
मया
तु
वचनं
श्रुत्वा
तेषामेवं
मुखाच्च्युतम् ।
कृत्वा
चरणशुश्रूषां
वाक्यमेतदुदाहृतम् ॥ ८ ॥
यदीदृशैरहं
विप्रैरुपस्थेयैरुपस्थितः ।
किं
करोमीति
च
मया
व्याहृतं
द्विजसन्निधौ ॥ ९ ॥
सर्वैरेतैः
समागम्य
वागियं
समुदाहृता ।
राक्षसैर्दण्डकारण्ये
बहुभिः
कामरूपिभिः ॥ १० ॥
अर्दिताः
स्म
दृढं
राम
भवान्नस्तत्र
रक्षतु ।
होमकालेषु
सम्प्राप्ताः
पूर्वकालेषु
चानघ ॥ ११ ॥
धर्षयन्ति
सुदुर्धर्षा
राक्षसाः
पिशिताशनाः ।
राक्षसैर्धर्षितानां
च
तापसानां
तपस्विनाम् ॥ १२ ॥
गतिं
मृगयमाणानां
भवान्नः
परमा
गतिः ।
कामं
तपः
प्रभावेन
शक्ता
हन्तुं
निशाचरान् ॥ १३ ॥
चिरार्जितं
तु
नेच्छामस्तपः
खण्डयितुं
वयम् ।
बहुविघ्नं
तपो
नित्यं
दुश्चरं
चैव
राघव ॥ १४ ॥
तेन
शापं
न
मुञ्चामो
भक्ष्यमाणाश्च
राक्षसैः ।
तदर्द्यमानान्
रक्षोभिर्दण्डकारण्यवासिभिः ॥ १५ ॥
रक्ष
नस्त्वं
सह
भ्रात्रा
त्वन्नाथा
हि
वयं
वने ।
मया
चैतद्वचः
श्रुत्वा
कार्त्स्न्त्यन
परिपालनम् ॥ १६ ॥
ऋषीणां
दण्डकारण्ये
संश्रुतं
जनकात्मजे ।
संश्रुत्य
च
न
शक्ष्यामि
जीवमानः
प्रतिश्रवम् ॥ १७ ॥
मुनीनामन्यथा
कर्तुं
सत्यमिष्टं
हि
मे
सदा ।
अप्यहं
जीवितं
जह्यां
त्वां
वा
सीते
सलक्ष्मणाम् ॥ १८ ॥
न
तु
प्रतिज्ञां
संश्रुत्य
ब्राह्मणेभ्यो
विशेषतः ।
तदवश्यं
मया
कार्यमृषीणां
परिपालनम् ॥ १९ ॥
अनुक्तेनापि
वैदेहि
प्रतिज्ञाय
तु
किं
पुनः ।
मम
स्नेहाच्च
सौहार्दादिदमुक्तं
त्वयाऽनधे ॥ २० ॥
परितुष्टोऽस्म्यिहं
सीते
न
ह्यनिष्टोऽनुशिष्यते ।
सदृशं
चानुरूपं
च
कुलस्य
तव
चात्मनः ॥ २१ ॥
सधर्मचारिणी
मे
त्वं
प्राणेभ्योऽपि
गरीयसी ।
इत्येवमुक्त्वा
वचनं
महात्मा
सीतां
प्रियां
मैथिलराजपुत्रीम् ॥ २२ ॥
रामो
धनुष्मान्
सह
लक्ष्मणेन
जगाम
रम्याणि
तपोवनानि ॥ २३ ॥