अग्रतः
प्रययौ
रामः
सीता
मध्ये
सुमध्यमा ।
पृष्ठतस्तु
धनुष्पाणिर्लक्ष्मणोऽनुजगाम
ह ॥ १ ॥
तौ
पश्यमानौ
विविधान्
शैलप्रस्थान्
वनानि
च ।
नदीश्च
विविधा
रम्या
जग्मतुः
सीतया
सह ॥ २ ॥
सारसांश्चक्रवाकांश्च
नदीपुलिनचारिणः ।
सरांसि
च
सपद्मानि
युक्तानि
जलजैः
खगैः ॥ ३ ॥
यूथबद्धांश्च
पृषतान्
मदोन्मत्तान्विषाणिनः ।
महिषांश्च
वराहांश्च
नागांश्च
द्रुमवैरिणः ॥ ४ ॥
ते
गत्वा
दूरमध्वानं
लम्बमाने
दिवाकरे ।
ददृशुः
सहिता
रम्यं
तटाकं
योजनायतम् ॥ ५ ॥
पद्मपुष्करसम्बाधं
गजयूथैरलङ्कृतम् ।
सारसैर्हंसकादम्बैः
सङ्कुलं
जलचारिभिः ॥ ६ ॥
प्रसन्नसलिले
रम्ये
तस्मिन्
सरसि
शुश्रुवे ।
गीतवादित्रनिर्घोषो
न
तु
कश्चन
दृश्यते ॥ ७ ॥
ततः
कौतूहलाद्रामो
लक्ष्मणश्च
महाबलः ।
मुनिं
धर्मभृतं
नाम
प्रष्टुं
समुपचक्रमे ॥ ८ ॥
इदमत्यद्भुतं
श्रुत्वा
सर्वेषां
नो
महामुने ।
कौतूहलं
महज्जातं
किमिदं
साधु
कथ्यताम् ॥ ९ ॥
वक्तव्यं
यदि
चेद्विप्र
नातिगुह्यमपि
प्रभो ।
तेनैवमुक्तो
धर्मात्मा
राघवेण
मुनिस्तदा ॥ १० ॥
प्रभवं
सरसः
कृत्स्नमाख्यातुमुपचक्रमे ।
इदं
पञ्चाप्सरो
नाम
तटाकं
सार्वकालिकम् ॥ ११ ॥
निर्मितं
तपसा
राम
मुनिना
माण्डकर्णिना ।
स
हि
तेपे
तपस्तीव्रं
माण्डकर्णिर्महामुनिः ॥ १२ ॥
दशवर्षसहस्राणि
वायुभक्षो
जलाश्रयः ।
ततः
प्रव्यथिताः
सर्वे
देवाः
साग्निपुरो
गमाः ॥ १३ ॥
अब्रुवन्वचनं
सर्वे
परस्परसमागताः ।
अस्माकं
कस्यचित्स्थानमेष
प्रार्थयते
मुनिः ॥ १४ ॥
इति
संविग्नमनसः
सर्वे
ते
त्रिदिवौकसः ।
तत्र
कर्तुं
तपोविघ्नं
देवैः
सर्वैर्नियोजिताः ॥ १५ ॥
प्रधानाप्सरसः
पञ्च
विद्युच्चलितवर्चसः ।
अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः ॥ १६ ॥
नीतो
मदनवश्यत्वं
सुराणां
कार्यसिद्धये ।
ताश्चैवाप्सरसः
पञ्च
मुनेः
पत्नीत्वमागताः ॥ १७ ॥
तटाके
निर्मितं
तासामस्मिन्नन्तर्हितं
गृहम् ।
तथैवाप्सरसः
पञ्च
निवसन्त्यो
यथासुखम् ॥ १८ ॥
रमयन्ति
तपोयोगान्मुनिं
यौवनमास्थितम् ।
तासां
सङ्क्रीडमानानामेष
वादित्रनिस्वनः ॥ १९ ॥
श्रूयते
भूषणोन्मिश्रो
गीतशब्दो
मनोहरः ।
आश्चर्यमिति
तस्यैतद्ववचनं
भावितात्मनः ॥ २० ॥
राघवः
प्रतिजग्राह
सह
भ्रात्रा
महायशाः ।
एवं
कथयमानस्य
ददर्शाश्रममण्डलम् ॥ २१ ॥
कुशचीरपरिक्षिप्तं
ब्राह्म्या
लक्ष्म्या
समावृतम् ।
प्रविश्य
सह
वैदेह्या
लक्ष्मणेन
च
राघवः ॥ २२ ॥
उवास
मिनिभिः
सर्वैः
पूज्यमानो
महायशाः ।
तथा
तस्मिन्
स
काकुत्स्थः
श्रीमत्याश्रममण्डले ॥ २३ ॥
उषित्वा
तु
सुखं
तत्र
पूज्यमानो
महर्षिभिः ।
जगाम
चाश्रमांस्तेषां
पर्यायेण
तपस्विनाम् ॥ २४ ॥
येषामुषितवान्
पूर्वं
सकाशे
स
महास्त्रवित् ।
क्वचित्
परिदशान्
मासानेकं
संवत्सरं
क्वचित् ॥ २५ ॥
क्वचिच्च
चतुरो
मासान्
पञ्च
षट्
चापरान्
क्वचित् ।
अपरत्राधिकं
मासादप्यर्धमधिकं
क्वचित् ॥ २६ ॥
त्रीन्
मासानष्टमासांश्च
राघवो
न्यवसत्
सुखम् ।
तथा
संवसतस्तस्य
मुनीनामाश्रमेषु
वै ॥ २७ ॥
रमतश्चानुकूल्येन
ययुः
संवसरा
दश ।
परिवृत्त्य
च
धर्मज्ञो
राघवः
सह
सीतया ॥ २८ ॥
सुतीक्ष्णस्याश्रमं
श्रीमान्
पुनरेवाजगाम
ह ।
स
तमाश्रममासाद्य
मुनिभिः
प्रतिपूजितः ॥ २९ ॥
तत्रापि
न्यवसद्रामः
किञ्चित्कालमरिन्दमः ।
अथाश्रमस्थो
विनयात्
कदाचित्तं
महामुनिम् ॥ ३० ॥
उपसीनः
स
काकुत्स्थः
सुतीक्ष्णमिदमब्रवीत् ।
अस्मिन्नरण्ये
भगवन्नगस्त्यो
मुनि
सत्तमः ॥ ३१ ॥
वसतीति
मया
नित्यं
कथाः
कथयतां
श्रुतम् ।
नतु
जानामि
तं
देशं
वनस्यास्य
महत्तया ॥ ३२ ॥
कुत्राश्रममिदं
पुण्यं
महर्षेस्तस्य
धीमतः ।
प्रसादात्तत्रभवतः
सानुजः
सह
सीतया ॥ ३३ ॥
अगस्त्यमभिगच्छेयमभिवादयितुं
मुनिम् ।
मनोरथो
महानेष
हृदि
मे
परिवर्तते ॥ ३४ ॥
यदहं
तं
मुनिवरं
शुश्रूषेयमपि
स्वयम् ।
इति
रामस्य
स
मुनिः
श्रुत्वा
धर्मात्मनो
वचः ॥ ३५ ॥
सुतीक्ष्णः
प्रत्युवाचेदं
प्रीतो
दशरथात्मजम् ।
अहमप्येतदेव
त्वां
वक्तुकामः
सलक्ष्मणम् ॥ ३६ ॥
अगस्त्यमभिगच्छेति
सीतया
सह
राघव ।
दिष्ट्या
त्विदानीमर्थेऽस्मिन्
स्वयमेव
ब्रवीषि
माम् ॥ ३७ ॥
अहमाख्यामि
ते
वत्स
यत्रागस्त्यो
महामुनिः ।
योजनान्याश्रमादस्मात्तथा
चत्वारि
वै
ततः ॥ ३८ ॥
दक्षिणेन
महाञ्छ्रीमानगस्त्यभ्रातुराश्रमः ।
स्थलीप्राये
वनोद्देशे
पिप्पलीवनशोभिते ॥ ३९ ॥
बहुपुष्पफले
रम्ये
नानाशकुनिनादिते ।
पद्मिन्यो
विविधास्तत्र
प्रसन्नसलिलाः
शिवाः ॥ ४० ॥
हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ।
तत्रैकां
रजनीं
व्युष्य
प्रभाते
राम
गम्यताम् ॥ ४१ ॥
दक्षिणां
दिशमास्थाय
वनषण्डस्य
पार्श्वतः ।
तत्रागस्त्याश्रमपदं
गत्वा
योजनमन्तरम् ॥ ४२ ॥
रमणीये
वनोद्देशे
बहुपादपसंवृते ।
रंस्यते
तत्र
वैदेही
लक्ष्मणश्च
सह
त्वया ॥ ४३ ॥
स
हि
रम्यो
वनोद्देशो
बहुपादपसङ्कुलः ।
यदि
बुद्धिः
कृता
द्रष्टुमगस्त्यं
तं
महामुनिम् ॥ ४४ ॥
अद्यैव
गमने
बुद्धिं
रोचयस्व
महायशः ।
इति
रामो
मुनेः
श्रुत्वा
सह
भ्रात्राभिवाद्य
च ॥ ४५ ॥
प्रतस्थेऽगस्त्यमुद्दिश्य
सानुजः
सीतया
सह ।
पश्यन्
वनानि
रम्याणि
पर्वतांश्चाभ्रसन्निभान् ॥ ४६ ॥
सरांसि
सरितश्चैव
पथि
मार्गवशानुगाः ।
सुतीक्ष्णेनोपदिष्टेन
गत्वा
तेन
पथा
सुखम् ॥ ४७ ॥
इदं
परमसंहृष्टो
वाक्यं
लक्ष्मणमब्रवीत् ।
एतदेवाश्रमपदं
नीनं
तस्य
महात्मनः ॥ ४८ ॥
अगस्त्यस्य
मुनेर्भ्रातुर्द्दश्यते
पुण्यकर्मणः ।
यथा
हीमे
वनस्यास्य
ज्ञाताः
पथि
सहस्रशः ॥ ४९ ॥
सन्नताः
फलभारेण
पुष्पभारेण
च
द्रुमाः ।
पिप्पलीनां
च
पक्वानां
वनादस्मादुपागतः ॥ ५० ॥
गन्धोऽयं
पवनोत्क्षिप्तः
सहसा
कटुकोदयः ।
तत्र
तत्र
च
दृश्यन्ते
सङ्क्षिप्ताः
काष्ठसञ्चयाः ॥ ५१ ॥
लूनाश्च
पथि
दृश्न्यते
दर्भा
वैडूर्यवर्चसः ।
एतच्च
वनमध्यस्थं
कृष्णाभ्रशिखरोपमम् ॥ ५२ ॥
पावकस्याश्रमस्थस्य
धूमाग्रं
सम्प्रदृश्यते ।
विविक्तेषु
च
तीरेषु
कृतस्नाना
द्विजातयः ॥ ५३ ॥
पुष्पोपहारं
कुर्वन्ति
कुसुमैः
स्वयमार्जितैः ।
तत्सुतीक्ष्णस्य
वचनं
यथा
सौम्य
मया
श्रुतम् ॥ ५४ ॥
अगस्त्यस्याश्रमो
भ्रातुर्नूनमेष
भविष्यति ।
निगृह्य
तरसा
मृत्युं
लोकानां
हितकाम्यया ॥ ५५ ॥
यस्य
भ्रात्रा
कृतेयं
दिक्छरण्या
पुण्यकर्मणा ।
इहैकदा
किल
क्रूरो
वातापिरपि
चेल्वलः ॥ ५६ ॥
भ्रातरौ
सहितावास्तां
ब्राह्मणघ्नौ
महासुरौ ।
धारयन्
ब्राह्मणं
रूपमिल्वलः
संस्कृतं
वदन् ॥ ५७ ॥
आमन्त्रयति
विप्रान्
स्म
श्राद्धमुद्दिश्य
निर्घृणः ।
भ्रातरं
संस्कृतं
कृत्वा
ततस्तं
मेषरूपिणम् ॥ ५८ ॥
तान्
द्विजान्
भोजयामास
श्राद्धदृष्टेन
कर्मणा ।
ततो
भुक्तवतां
तेषां
विप्राणामिल्वलोऽब्रवीत् ॥ ५९ ॥
वातापे
निष्क्रमस्वेति
स्वरेण
महता
वदन् ।
ततो
भ्रातुर्वचः
श्रुत्वा
वातापिर्मेषवन्नदन् ॥ ६० ॥
भित्त्वा
भित्त्वा
शरीराणि
ब्राह्मणानां
विनिष्पतत् ।
ब्रह्मणानां
सहस्राणि
तैरेवं
कामरूपिभिः ॥ ६१ ॥
विनाशितानि
संहत्य
नित्यशः
पिशिताशनैः ।
अगस्त्येन
तदा
देवैः
प्रार्थितेन
महर्षिणा ॥ ६२ ॥
अनुभूय
किल
श्राद्धे
भक्षितः
स
महासुरः ।
ततः
सम्पन्नमित्युक्त्वा
दत्त्वा
हस्तोदकं
ततः ॥ ६३ ॥
भ्रातरं
निष्क्रमस्वेति
चेल्वलः
सोऽभ्यभाषत ।
स
तं
तथा
भाषमाणं
भ्रातरं
विप्रघातिनम् ॥ ६४ ॥
अब्रवीत्
प्रहसन्
धीमानगस्त्यो
मुनिसत्तमः ।
कुतो
निष्क्रमितुं
शक्तिर्मया
जीर्णस्य
रक्षसः ॥ ६५ ॥
भ्रातुस्ते
मेषरूपस्य
गतस्य
यमसादनम् ।
अथ
तस्य
वचः
श्रुत्वा
भ्रातुर्निधनसंश्रयम् ॥ ६६ ॥
प्रधर्षयितुमारेभे
मुनिं
क्रोधान्निशाचरः ।
सोऽभिद्रवन्मुनिश्रेष्ठं
मुनिना
दीप्ततेजसा ॥ ६७ ॥
चक्षुषानलकल्पेन
निर्दग्धो
निधनं
गतः ।
तस्यायमाश्रमो
भ्रातुस्तटाकवनशोभितः ॥ ६८ ॥
विप्रानुकम्पया
येन
कर्मेदं
दुष्करं
कृतम् ।
एवं
कथयमानस्य
तस्य
सौमित्रिणा
सह ॥ ६९ ॥
रमस्यास्तं
गतः
सूर्यः
सन्ध्याकालोऽभ्यवर्तत ।
उपास्य
पश्चिमां
सन्ध्यां
सह
भ्रात्रा
यथाविधि ॥ ७० ॥
प्रविवेशाश्रमपदं
तमृषिं
सोऽभ्यवादयत् ।
सम्यक्
प्रतिगृहीतश्च
मुनिना
तेन
राघवः ॥ ७१ ॥
न्यवसत्तां
निशामेकां
प्राश्य
मूलफलानि
च ।
तस्यां
रात्र्यां
व्यतीतायां
विमले
सूर्यमण्डले ॥ ७२ ॥
भ्रातरं
तमगस्त्यस्य
ह्यामन्त्रयत
राघवः ।
अभिवादये
त्वां
भगवन्
सुखमध्युषितो
निशाम् ॥ ७३ ॥
आमन्त्रये
त्वां
गच्छामि
गुरुं
ते
द्रष्टुमग्रजम् ।
गम्यतामिति
तेनोक्तो
जगाम
रघुनन्दनः ॥ ७४ ॥
यथोद्दिष्टेन
मार्गेण
वनं
तच्चावलोकयन् ।
निवारान्
पनसांस्तालांस्तिमिशान्वञ्जुलान्
धवान् ॥ ७५ ॥
चिरिबिल्वान्
मधूकांश्च
बिल्वानपि
च
तिन्दुकान् ।
पुष्पितान्
पुष्पिताग्राभिर्लताभिरनुवेष्टितान् ॥ ७६ ॥
ददर्श
रामः
शतशस्तत्र
कान्तारपादपान् ।
हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान् ॥ ७७ ॥
मत्तैः
शकुनिसङ्घैश्च
शतशश्च
प्रणादितान् ।
ततोऽब्रवीत्समीपस्थं
रामो
राजीवलोचनः ॥ ७८ ॥
पृष्ठतोऽनुगतं
वीरं
लक्ष्मणं
लक्ष्मिवर्धनम् ।
स्निग्धपत्त्रा
यथा
वृक्षा
यथा
क्षान्ता
मृगद्विजाः ॥ ७९ ॥
आश्रमो
नातिदूरस्थो
महर्षेर्भावितात्मनः ।
अगस्त्य
इति
विख्यातो
लोके
स्वेनैव
कर्मणा ॥ ८० ॥
आश्रमो
दृश्यते
तस्य
परिश्रान्तश्रमापहः ।
प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः ॥ ८१ ॥
प्रशान्तमृगयूथश्च
नानाशकुनिनादितः ।
तस्येदमाश्रमपदं
प्रभावाद्यस्य
राक्षसैः ॥ ८२ ॥
दिगियं
दक्षिणा
त्रासाद्दृश्यते
नोपभुज्यते ।
यदाप्रभृति
चाक्रान्ता
दिगियं
पुण्यकर्मणा ॥ ८३ ॥
तदाप्रभृति
निर्वैराः
प्रशान्ता
रजनीचराः ।
नाम्ना
चेयं
भगवतो
दक्षिणा
दिक्
प्रदक्षिणा ॥ ८४ ॥
प्रथिता
त्रिषु
लोकेषु
दुर्धर्षा
क्रूरकर्मभिः ।
मार्गं
निरोद्धुं
निरतो
भास्करस्याचलोत्तमः ॥ ८५ ॥
निदेशं
पालयन्
यस्य
विन्ध्यः
शैलो
न
वर्द्धते ।
अयं
दीर्घायुषस्तस्य
लोके
विश्रुतकर्मणः ॥ ८६ ॥
अगस्त्यस्याश्रमः
श्रीमान्
विनीतजनसेवितः ।
एष
लोकार्चितः
साधुर्हिते
नित्यरतः
सताम् ॥ ८७ ॥
अस्मानभिगतानेष
श्रेयसा
योजयिष्यति ।
आराधयिष्याम्यत्राहमगस्त्यं
तं
महामुनिम् ॥ ८८ ॥
शेषं
च
वनवासस्य
सौम्य
वत्स्याम्यहं
प्रभो ।
अत्र
देवाः
सगन्धर्वाः
सिद्धाश्च
परमर्षयः ॥ ८९ ॥
अगस्त्यं
नियताहारं
सततं
पुर्यपासते ।
नात्र
जीवेन्मृषावादी
क्रूरो
वा
यदि
वा
शठः ॥ ९० ॥
नृशंसः
कामवृत्तो
वा
मुनिरेष
तथाविधः ।
अत्र
देवाश्च
यक्षाश्च
नागाश्च
पतगैः
सह ॥ ९१ ॥
वसन्ति
नियताहारा
धर्ममाराधयिष्णवः ।
अत्र
सिद्धा
महात्मानो
विमानैः
सूर्यसन्निभैः ॥ ९२ ॥
त्यक्तदेहा
नवैर्देहैः
स्वर्याता
परमर्षयः ।
यक्षत्वममरत्वं
च
राज्यानि
विविधानि
च ॥ ९३ ॥
अत्र
देवाः
प्रयच्छन्ति
भूतैराराधिताः
शुभैः ।
आगताः
स्माश्रमपदं
सौमित्रे
प्रविशाग्रतः ॥ ९४ ॥
निवेदयेह
मां
प्राप्तमृषये
सीतया
सह ॥ ९५ ॥