अथ
पञ्चवटीं
गच्छन्नन्तरा
रघुनन्दनः ।
आससाद
महाकायं
गृध्रं
भीमपराक्रमम् ॥ १ ॥
तं
दृष्ट्वा
तौ
महाभागौ
वटस्थं
रामलक्ष्मणौ ।
मेनाते
राक्षसं
पक्षिं
ब्रुवाणौ
को
भवानिति ॥ २ ॥
स
तौ
मधुरया
वाचा
सौम्यया
प्रीणयन्निव ।
उवाच
वत्स
मां
विद्धि
वयस्यं
पितुरात्मनः ॥ ३ ॥
स
तं
पितृसखं
बुद्ध्वा
पूजयामास
राघवः ।
स
तस्य
कुलमव्यग्रमथ
पप्रच्छ
नाम
च ॥ ४ ॥
रामस्य
वचनं
श्रुत्वा
सर्वभूतसमुद्भवम् ।
आचचक्षे
द्विजस्तस्मै
कुलमात्मानमेव
च ॥ ५ ॥
पूर्वकाले
महाबाहो
ये
प्रजापतयोऽभवन् ।
तान्मे
निगदतः
सर्वानादितः
शृणु
राघव ॥ ६ ॥
कर्दमः
प्रथमस्तेषां
विश्रुतस्तदनन्तरः ।
शेषश्च
संश्रयश्चैव
बहुपुत्रश्च
वीर्यवान् ॥ ७ ॥
स्थाणुर्मरीचिरत्रिश्च
क्रुतश्चैव
महाबलः ।
पुलस्त्यश्चाङ्गिराश्चैव
प्रचेताः
पुलहस्तथा ॥ ८ ॥
दक्षो
विवस्वानपरोऽरिष्टनेमिश्च
राघव ।
कश्यपश्च
महातेजास्तेषामासीच्च
पश्चिमः ॥ ९ ॥
प्रजापतेस्तु
दक्षस्य
बभूवुरिति
विश्रुतम् ।
षष्टिर्दुहितरो
राम
यशस्विन्यो
महायशः ॥ १० ॥
अदितिं
च
दितिं
चैव
दनुमप्यथ
कालिकाम् ।
ताम्रां
क्रोधवशां
चैव
मनुं
चाप्यनलामपि ॥ ११ ॥
तास्तु
कन्यास्ततः
प्रीतः
कश्यपः
पुनरब्रवीत् ।
पुत्रांस्रैलोक्यभर्तॄन्
वै
जनयिष्यथ
मत्समान् ॥ १२ ॥
अदितिस्तन्मना
राम
दितिश्च
मनुजर्षभ ।
कालिका
च
महाबाहो
शेषास्त्वमनसोऽभवन् ॥ १३ ॥
अदित्यां
जज्ञिरे
देवास्त्रयस्त्रिंशदरिन्दम ।
आदित्या
वसवो
रुद्रा
ह्यश्विनौ
च
परन्तप ॥ १४ ॥
दितिस्त्वजनयत्पुत्रान्
दैत्यांस्तात
यशस्विनः ।
तेषामियं
वसुमती
पुरासीत्
सवनार्णवा ॥ १५ ॥
दनुस्त्वजनयत्
पुत्रमश्वग्रीवमरिन्दम ।
नरकं
कालकं
चैव
कालिकापि
व्यजायत ॥ १६ ॥
क्रौञ्चीं
भासीं
तथा
श्येनीं
धृतराष्ट्रीं
तथा
शुकीम् ।
ताम्रापि
सुषुवे
कन्याः
पञ्चैता
लोकविश्रुताः ॥ १७ ॥
उलूकान्
जनयत्
क्रौञ्ची
भासी
भासान्
व्यजायत ।
श्येनी
श्येनांश्च
गृध्रांश्च
व्यजायत
सुतेजसः ॥ १८ ॥
धृतराष्ट्री
तु
हंसांश्च
कलहंसांश्च
सर्वशः ।
चक्रवाकांश्च
भद्रं
ते
विजज्ञे
सापि
भामिनी ॥ १९ ॥
शुकी
नतां
विजज्ञे
तु
नताया
विनता
सुता ।
दश
क्रोधवशा
राम
विजज्ञे
ह्यात्मसम्भवाः ॥ २० ॥
मृगीं
च
मगमन्दां
च
हरिं
भद्रमदामपि ।
मातङ्गीमपि
शार्दूलीं
श्वोतां
च
सुरभिं
तथा ॥ २१ ॥
सर्वलक्षणसम्पन्नां
सुरसां
कद्रुकामपि ।
अपत्यं
तु
मृगाः
सर्वे
मृग्या
नरवरोत्तम ॥ २२ ॥
ऋक्षाश्च
मृगमन्दायाः
सृमराश्चमरास्तथा ।
हर्याश्च
हरयोऽपत्यं
वानराश्च
तरस्विनः ॥ २३ ॥
ततस्त्विरावतीं
नाम
जज्ञे
भद्रमदा
सुताम् ।
तस्यास्त्वैरावतः
पुत्रो
लोकनाथो
महागजः ॥ २४ ॥
मातङ्गास्त्वथ
मातङ्ग्या
अपत्यं
मनुजर्षभ ।
गोलाङ्गूलांश्च
शार्दूली
व्याघ्रांश्चाजनयत्
सुतान् ॥ २५ ॥
दिशागजांश्च
काकुत्स्थ
श्वेताप्यजनयत्
सुतान् ।
ततो
दुहितरौ
राम
सुरभिर्द्वे
व्यजायत ॥ २६ ॥
रोहिणीं
नाम
भद्रं
ते
गन्धर्वीं
च
यशस्विनीम् ।
रोहिण्यजनयद्गा
वै
गन्धर्वी
वाजिनः
सुतान् ॥ २७ ॥
सुरसाऽजनयन्नागान्
राम
कद्रूस्तु
पन्नगान् ।
ब्राह्मणान्
क्षत्त्रियान्
वैश्यान्
शूद्रांश्च
मनजर्षभ ॥ २८ ॥
सर्वान्
पुण्यफलान्
वृक्षाननलापि
व्याजायत ।
विनता
च
शुकी
पौत्री
कद्रूश्च
सुरसा
स्वसा ॥ २९ ॥
कद्रूर्नागं
सहस्रस्यं
विजज्ञे
धरणीधरम् ।
द्वौ
पुत्रौ
विनतायास्तु
गरुडोऽरुण
एव
च ॥ ३० ॥
तस्माज्जातोऽहमरुणात्
सम्पातिस्तु
ममाग्रजः ।
जटायुरिति
मां
विद्धि
श्येनीपुत्रमरिन्दम ॥ ३१ ॥
इदं
दुर्गं
हि
कान्तारं
मृगराक्षससेवितम् ।
सीतां
च
तात
रक्षिष्ये
त्वयि
याते
सलक्ष्मणे ॥ ३२ ॥
जटायुषं
तं
प्रतिपूज्य
राघवो
मुदा
पिरष्वज्य
च
सन्नतोऽभवत् ।
पितुर्हि
शुश्राव
सखित्वमात्मवान्
जटायुषा
सङ्कथितं
पुनः
पुनः ॥ ३३ ॥
स
तत्र
सीतां
परिदाय
मैथिलीं
सहैव
तेनातिबलेन
पक्षिणा ।
जगाम
तां
पञ्चवटीं
सलक्ष्मणो
रिपून्
दिधक्षन्
शलभानिवानलः ॥ ३४ ॥