ततः
पञ्चवटीं
गत्वा
नानाव्यालमृगायुताम् ।
उवाच
भ्रातरं
रामः
सौमित्रिं
दीप्ततेजसम् ॥ १ ॥
आगताः
स्म
यथोद्दिष्टममुं
देशं
महर्षिणा ।
अयं
पञ्चवटीदेशः
सौम्य
पुष्पितपादपः ॥ २ ॥
सर्वतश्चार्यतां
दृष्टिः
कानने
निपुणो
ह्यसि ।
आश्रमः
कतरस्मिन्नो
देशे
भवति
सम्मतः ॥ ३ ॥
रमते
यत्र
वैदेही
त्वमहं
चैव
लक्ष्मण ।
तादृशो
दृश्यातां
देशः
सन्निकृष्टजलाशयः ॥ ४ ॥
वनरामण्यकं
यत्र
स्थलरामण्यकं
तथा ।
सन्निकृष्टं
च
यत्र
स्यात्
समित्पुष्पकुशोदकम् ॥ ५ ॥
एवमुक्तस्तु
रामेण
लक्ष्मणः
संयताञ्जलिः ।
सीतासमक्षं
काकुत्स्थमिदं
वचनमब्रवीत् ॥ ६ ॥
परवानस्मि
काकुस्थ
त्वयि
वर्षशतं
स्थिते ।
स्वयं
तु
रुचिरे
देशे
क्रियातामिति
मां
वद ॥ ७ ॥
सुप्रीतस्तेन
वाक्येन
लक्ष्मणस्य
महात्मनः ।
विमृशन्
रोचयामास
देशं
सर्वगुणान्वितम् ॥ ८ ॥
स
तं
रुचिरमाक्रम्य
देशमाश्रमकर्मणि ।
हस्तौ
गृहीत्वा
हस्तेन
रामः
सौमित्रिमब्रवीत् ॥ ९ ॥
अयं
देशः
समः
श्रीमान्
पुष्पितैस्तरुभिर्वृतः ।
इहाश्रमपदं
सौम्य
यथावत्कर्तुमर्हसि ॥ १० ॥
इयमादित्यसङ्काशैः
पद्मैः
सुरभिगन्धिभिः ।
अदूरे
दृश्यते
रम्या
पद्मिनी
पद्मशोभिता ॥ ११ ॥
इयं
गोदावरी
रम्या
पुष्पितैस्तरुभिर्वृता ।
हंसकारण्डवाकीर्णा
चक्रवाकोपशोभिता ॥ १२ ॥
नातिदूरेण
चासन्ने
मृगयूथनिपीडिताः ।
मयूरनादिता
रम्याः
प्रांशवो
बहुकन्दराः ॥ १३ ॥
दृश्यन्ते
गिरयः
सौम्य
फुल्लैस्तरुभिरावृताः ।
सौवर्णै
राजतैस्ताम्रैर्देशे
देशे
च
धातुभिः ॥ १४ ॥
गवाक्षिता
इवाभान्ति
गजाः
परमभक्तिभिः ।
सालैस्तालैस्तमालैश्च
खर्जूरपनसाम्रकैः ॥ १५ ॥
निवारैस्तिमिशैश्चैव
पुन्नागैश्चोपशोभिताः ।
चूतैरशोकैस्तिलकैश्चम्पकैः
केतकैरपि ॥ १६ ॥
पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः ।
चन्दनैः
स्पन्दनैर्नीपैः
पर्णासैर्लिकुचैरपि ॥ १७ ॥
धवाश्वकर्णखदिरैः
शमीकिंशुकपाटलैः ।
इदं
पुण्यमिदं
मेध्यमिदं
बहुमृगद्विजम् ॥ १८ ॥
इह
वत्स्यामि
सौमित्रे
सार्धमेतेन
पक्षिणा ।
एवमुक्तस्तु
रामेण
लक्ष्मणः
परवीरहा ॥ १९ ॥
अचिरेणाश्रमं
भ्रातुश्चकार
सुमहाबलः ।
पर्णशालां
सुविपुलां
तत्र
सङ्खातमृत्तिकाम् ॥ २० ॥
सुस्तम्भां
मस्करैर्दीर्घैः
कृतवंशां
सुशोभनाम् ।
शमीशाखाभिरास्तीर्य
दृढपाशावपाशिताम् ॥ २१ ॥
कुशकाशशरैः
पर्णैः
सुपरिच्छादितां
तथा ।
समीकृततलां
रम्यां
चकार
लघुविक्रमः ॥ २२ ॥
निवासं
राघवस्यार्थे
प्रेक्षणीयमनुत्तमम् ।
स
गत्वा
लक्ष्मणः
श्रीमान्
नदीं
गोदावरीं
तदा ॥ २३ ॥
स्नात्वा
पद्मानि
चादाय
सफलः
पुनरागतः ।
ततः
पुष्पबलिं
कृत्वा
शान्तिं
च
स
यथाविधि ॥ २४ ॥
दर्शयामास
रामाय
तदाश्रमपदं
कृतम् ।
स
तं
दृष्ट्वा
कृतं
सौम्यमाश्रमं
सह
सीतया ॥ २५ ॥
राघवः
पर्णशालायां
हर्षमाहारयद्भृशम् ।
सुसंहृष्टः
परिष्वज्य
बाहुभ्यां
लक्ष्मणं
तदा ॥ २६ ॥
अतिस्निग्धं
च
गाढं
च
वचनं
चेदमब्रवीत् ।
प्रीतोऽस्मि
ते
महत्कर्म
त्वया
कृतमिदं
प्रभो ॥ २७ ॥
प्रदेयो
यन्निमित्तं
ते
परिष्वङ्गो
मया
कृतः ।
भावज्ञेन
कृतज्ञेन
धर्मज्ञेन
च
लक्ष्मण ॥ २८ ॥
त्वाया
पुत्रेण
धर्मात्मा
न
संवृत्तः
पिता
मम ।
एवं
लक्ष्मणमुक्त्वा
तु
राघवो
लक्ष्मिवर्धनः ॥ २९ ॥
तस्मिन्
देशे
बहुफले
न्यवसत्
सुसुखं
वशी ।
कञ्चित्
कालं
स
धर्मात्मा
सीतया
लक्ष्मणेन
च ॥ ३० ॥
अन्वास्यमानो
न्यवसत्
स्वर्गलोके
यथामरः ॥ ३१ ॥