वसतस्तस्य
तु
सुखं
राघवस्य
महात्मनः ।
शरद्व्यपाये
हेमन्त
ऋतुरिष्टः
प्रवर्तते ॥ १ ॥
स
कदाचित्प्रभातायां
शर्वर्यां
रघुनन्दनः ।
प्रययावभिषेकार्थं
रम्यां
गोदावरीं
नदीम् ॥ २ ॥
प्रह्वः
कलशहस्तस्तं
सीतया
सह
वीर्यवान् ।
पृष्ठतोऽनुव्रजन्
भ्राता
सौमित्रिरिदमब्रवीत् ॥ ३ ॥
अयं
स
कालः
सम्प्राप्तः
प्रियो
यस्ते
प्रियंवद ।
अलङ्कृत
इवाभाति
येन
संवत्सरः
शुभः ॥ ४ ॥
नीहारपरुषो
लोकः
पृथिवी
सस्यशालिनी ।
जलान्यनुपभोग्यानि
सुभगो
हव्यवाहनः ॥ ५ ॥
नवाग्रयणपूजाभिरभ्यर्च्य
पितृदेवताः ।
कृताग्रयणकाः
काले
सन्तो
विगतकल्मषाः ॥ ६ ॥
प्राज्यकामा
जनपदाः
सम्पन्नतरगोरसाः ।
विचरन्ति
महीपाला
यात्रास्था
विजिगीषवः ॥ ७ ॥
सेवमाने
दृढं
सूर्ये
दिशमन्तकसेविताम् ।
विहीनतिलकेव
स्त्री
नोत्तरा
दिक्र
प्रकाशते ॥ ८ ॥
प्रकृत्या
हिमकोशाढ्यो
दूरसूर्यश्च
साम्प्रतम् ।
यथार्थनामा
सुव्यक्तं
हिमवान्
हिमवान्
गिरिः ॥ ९ ॥
अत्यन्तसुखसञ्चारा
मध्याह्ने
स्पर्शतः
सुखाः ।
दिवसाः
सुभगादित्याश्छायासलिलदुर्भगाः ॥ १० ॥
मृदुसूर्याः
सनीहाराः
पटुशीताः
समारूताः ।
शून्यारण्या
हिमध्वस्ता
दिवसा
भान्ति
साम्प्रतम् ॥ ११ ॥
निवृत्ताकाशशयनाः
पुष्यनीता
हिमारूणाः ।
शीता
वृद्धतरायामास्त्रियामा
यान्ति
साम्प्रतम् ॥ १२ ॥
रविसङ्क्रान्तसौभाग्यस्तुषारारुणमण्डलः ।
निःश्वासान्ध
इवादर्शश्चन्द्रमा
न
प्रकाशते ॥ १३ ॥
ज्योत्स्नी
तुषारमलिना
पौर्णमास्यां
न
राजते ।
सीतेव
चातपश्यामा
लक्ष्यते
न
तु
शोभते ॥ १४ ॥
प्रकृत्या
शीतलस्पर्शो
हिमविद्धश्च
साम्प्रतम् ।
प्रवाति
पश्चिमो
वायुः
काले
द्विगुणशीतलः ॥ १५ ॥
बाष्पच्छन्नान्यरण्यानि
यवगोधूमवन्ति
च ।
शोभन्तेऽभ्युदिते
सूर्ये
नदद्भिः
क्रौञ्चसारसैः ॥ १६ ॥
खर्जूरपुष्पाकृतिभिः
शिरोभिः
पूर्णतण्डुलैः ।
शोभन्ते
किञ्चिदानम्राः
शालयः
कनकप्रभाः ॥ १७ ॥
मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः ।
दूरमभ्युदितः
सूर्यः
शशाङ्क
इव
लक्ष्यते ॥ १८ ॥
अग्राह्यवीर्यः
पूर्वाह्णे
मध्यह्ने
स्पर्शतः
सुखः ।
संरक्तः
किञ्चिदापाण्डुरातपः
शोभते
क्षितौ ॥ १९ ॥
अवश्यायनिपातेन
किञ्चित्प्रक्लिन्नशाद्वला ।
वनानां
शोभते
भूमिर्निविष्टतरुणातपा ॥ २० ॥
स्पृशंस्तु
विपुलं
शीतमुदकं
द्विरदः
सुखम् ।
अत्यन्ततृषितो
वन्यः
प्रतिसंहरते
करम् ॥ २१ ॥
एते
हि
समुपासीना
विहगा
जलचारिणः ।
न
विगाहन्ति
सलिलमप्रगल्भा
इवाहवम् ॥ २२ ॥
अवश्यायतमोनद्धा
नीहारतमसावृताः ।
प्रसुप्ता
इव
लक्ष्यन्ते
विपुष्पा
वनराजयः ॥ २३ ॥
बाष्पसञ्छन्नसलिला
रुतविज्ञेयसारसाः ।
हिमार्द्रवालुकैस्तीरैः
सरितो
भान्ति
साम्प्रतम् ॥ २४ ॥
तुषारपतनाच्चैव
मृदुत्वाद्भास्करस्य
च ।
शैत्यादगाग्रस्थमपि
प्रायेण
रसवज्जलम् ॥ २५ ॥
जराजर्झरितैः
पद्मैः
शूर्णकेसरकर्णिकैः ।
नालशेषैर्हिमध्वस्तैर्न
भान्ति
कमलाकराः ॥ २६ ॥
अस्मिंस्तु
पुरुषव्याघ्रः
काले
दुःखसमन्वितः ।
तपश्चरति
धर्मात्मा
त्वद्भक्त्या
भरतः
पुरे ॥ २७ ॥
त्यक्त्वा
राज्यं
च
मानं
च
भोगांश्च
विविधान्
बहून् ।
तपस्वी
नियताहारः
शेते
शीते
महीतले ॥ २८ ॥
सोऽपि
वेलामिमां
नूनमभिषेकार्थमुद्यतः ।
वृतः
प्रकृतिभिर्नित्यं
प्रयाति
सरयूनदीम् ॥ २९ ॥
अत्यन्तसुखसंवृद्धः
सुकुमारः
सुखोचितः ।
कथं
न्वपररात्रेषु
सरयूमवगाहते ॥ ३० ॥
पद्मपत्त्रेक्षणो
वीरः
शयामो
निरुदरो
महान् ।
धर्मज्ञः
सत्यवादी
च
ह्रीनिषेधो
जितेन्द्रियः ॥ ३१ ॥
प्रियाभिभाषी
मधुरो
दीर्घबाहुररिन्दमः ।
सन्त्यज्य
विविधान्
भोगानार्यं
सर्वात्मना
श्रितः ॥ ३२ ॥
जितः
स्वर्गस्तव
भ्रात्रा
भरतेन
महात्मना ।
वनस्थमपि
तापस्ये
यस्त्वामनुविधीयते ॥ ३३ ॥
न
पित्र्यमनुवर्तन्ते
मातृकं
द्विपदा
इति ।
ख्यातो
लोकप्रवादोऽयं
भरतेनान्यथा
कृतः ॥ ३४ ॥
भर्ता
दशरथो
यस्याः
साधुश्च
भरतः
सुतः ।
कथं
नु
साम्बा
कैकेयी
तादृशी
क्रूरशीलिनी ॥ ३५ ॥
इत्येवं
लक्ष्मणे
वाक्यं
स्नेहाद्
ब्रुवति
धार्मिके ।
परिवादं
जनन्यास्तमसहन्
राघवोऽब्रवीत् ॥ ३६ ॥
न
तेऽम्बा
मध्यमा
तात
गर्हितव्या
कथञ्चन ।
तामेवेक्ष्वाकुनाथस्य
भरतस्य
कथां
कुरु ॥ ३७ ॥
निश्चितापि
हि
मे
बुद्धिर्वनवासे
दृढब्रता ।
भरतस्नेहसन्तप्ता
बालिशीक्रियते
पुनः ॥ ३८ ॥
संस्मराम्यस्य
वाक्यानि
प्रियाणि
मधुराणि
च ।
हृद्यान्यमृतकल्पानि
मनः
प्रह्लादनानि
च ॥ ३९ ॥
कदान्वहं
समेष्यामि
भरतेन
महात्मना ।
शत्रुघ्नेन
च
वीरेण
त्वाया
च
रघुनन्दन ॥ ४० ॥
इत्येवं
विलपंस्तत्र
प्राप्य
गोदावरीं
नदीम् ।
चक्रेऽभिषेकं
काकुत्स्थः
सानुजः
सह
सीतया ॥ ४१ ॥
तर्पयित्वाथ
सलिलैस्ते
पितॄन्
दैवतानि
च ।
स्तुवन्ति
स्मोदितं
सूर्यं
देवताश्च
समाहिताः ॥ ४२ ॥
कृताभिषेकः
स
रराज
रामः
सीताद्वितीयः
सह
लक्ष्मणेन ।
कृताभिषेको
गिरिराजपुत्र्या
रुद्रः
सनन्दी
भगवानिवेशः ॥ ४३ ॥