कृताभिषेको
रामस्तु
सीता
सौमित्रिरेव
च ।
तस्माद्गोदावरीतीरात्ततो
जग्मुः
स्वामाश्रमम् ॥ १ ॥
आश्रमं
तमुपागम्य
राघवः
सह
लक्ष्मणः ।
कृत्वा
पौर्वह्णिकं
कर्म
पर्णशालामुपागमत् ॥ २ ॥
उवास
सुखितस्तत्र
पूज्यमानो
महर्षिभिः ।
लक्ष्मणेन
सह
भ्रात्रा
चकार
विविधाः
कथाः ॥ ३ ॥
स
रामः
पर्णशालायामासीनः
सह
सीतया ।
विरराज
महाबाहुश्चित्रया
चन्द्रमा
इव ॥ ४ ॥
तथासीनस्य
रामस्य
कथासंसक्तचेतसः ।
तं
देशं
राक्षसी
काचिदाजगाम
यदृच्छाया ॥ ५ ॥
सा
तु
शूर्मणखा
नाम
दशग्रीवस्य
रक्षसः ।
भगिनी
राममासाद्य
ददर्श
त्रिदशोपमम् ॥ ६ ॥
सिंहोरस्कं
महाबाहुं
पद्मपत्त्रनिभेक्षणम् ।
आजानुबाहुं
दीप्तास्यमतीव
प्रियदर्शनम् ॥ ७ ॥
गजविक्रान्तगमनं
जटामण्डलधारिणम् ।
सुकुमारं
महासत्त्वं
पार्थिवव्यञ्जनान्वितम् ॥ ८ ॥
राममिन्दीवरश्यामं
कन्दर्पसदृशप्रभम् ।
बभूवेन्द्रोपमं
दृष्टवा
राक्षसी
काममोहिता ॥ ९ ॥
सुमुखं
दुर्मुखी
रामं
वृत्तमध्यं
महोदरी ।
विशालाक्षं
विरूपाक्षी
सुकेशं
ताम्रमूर्धजा ॥ १० ॥
प्रीतिरूपं
विरूपा
सा
सुस्वरं
भैरवस्वरा ।
तरुणं
दारुणा
वृद्धा
दक्षिणं
वामभाषिणी ॥ ११ ॥
न्यायवृत्तं
सुदुर्वृत्ता
प्रियमप्रियदर्शना ।
शरीरजसमाविष्टा
राक्षसी
वाक्यमब्रवीत् ॥ १२ ॥
आगतस्त्वमिमं
देशं
कथं
राक्षससेवितम् ।
किमागमनकृत्यं
ते
तत्त्वमाख्यातुमर्हसि ॥ १३ ॥
एवमुक्तस्तु
राक्षस्या
शूर्पनख्या
परन्तपः ।
ऋजुबुद्धितया
सर्वमाख्यातुमुपचक्रमे ॥ १४ ॥
अनृतं
नहि
रामस्य
कदाचिदपि
सम्मतम् ।
विशेषेणाश्रमस्थस्य
समीपे
स्त्रीजनस्य
च ॥ १५ ॥
आसीद्दशरथो
नाम
राजा
त्रिदशविक्रमः ।
तस्याहमग्रजः
पुत्रो
रामो
नाम
जनैःश्रुतः ॥ १६ ॥
भ्राताऽयं
लक्ष्मणो
नाम
यमीयान्
मामनुव्रतः ।
इयं
भार्या
च
वैदेही
मम
सीतेति
विश्रुता ॥ १७ ॥
नियोगात्तु
नरेन्द्रस्य
पितुर्मातुश्च
यन्त्रितः ।
घर्मार्थं
धर्मकाङ्क्षी
च
वनं
वस्तुमिहागतः ॥ १८ ॥
त्वां
तु
वेदितुमिच्छामि
कथ्यतां
काऽसि
कस्य
वा ।
नहि
तावन्मनोज्ञाङ्गी
राक्षसी
प्रतिभासि
मे ॥ १९ ॥
इह
वा
किन्निमित्तं
त्वमागता
ब्रूहि
तत्त्वतः ।
साऽब्रवीद्वचनं
श्रुत्वा
राक्षसी
मदनार्दिता ॥ २० ॥
श्रूयतां
राम
वक्ष्यामि
तत्त्वार्थं
वचनं
मम ।
अहं
शूर्पणखा
नाम
राक्षसी
कामरूपिणी ॥ २१ ॥
अरण्यं
विचरामीदमेका
सर्वभयङ्करा ।
रावणो
नाम
मे
भ्राता
बलीयान्
राक्षसेश्वरः ॥ २२ ॥
वीरो
विश्रवसः
पुत्रो
यदि
ते
श्रोत्रमागतः ।
प्रवृद्धनिद्रश्च
सदा
कुम्भकर्णो
महाबलः ॥ २३ ॥
विभीषणस्तु
धर्मात्मा
न
तु
राक्षसचेष्टितः ।
तानहं
समतिक्रान्ता
राम
त्वापूर्वदर्शनात् ॥ २४ ॥
समुपेतास्मि
भावेन
भर्तारं
पुरुषोत्तमम् ।
अहं
प्रभावमम्पन्ना
स्वच्छन्दबलगामिनी ॥ २५ ॥
चिराय
भव
मे
भर्ता
सीतया
किं
करिष्यसि ।
विकृता
च
विरूपा
च
न
चेयं
सदृशी
तव ॥ २६ ॥
अहमेवानुरूपा
ते
भार्यारूपेण
पश्य
माम् ।
इमां
विरूपामसतीं
करालां
निर्णतोदरीम् ॥ २७ ॥
अनेन
ते
सह
भ्रात्रा
भक्षयिष्यामि
मानुषीम् ।
ततः
पर्वतशृङ्गाणि
वनानि
विविधानि
च ॥ २८ ॥
पश्यन्
सह
मया
कान्त
दण्डकान्
विचरिष्यसि ।
इत्येवमुक्तः
काकुत्स्थः
प्रहस्य
मदिरेक्षणाम् ॥ २९ ॥
इदं
वचनमारेभे
वक्तुं
वाक्यविशारदः ॥ ३० ॥