ततः
शूर्पणखां
रामः
कामपाशावपाशिताम् ।
स्वच्छया
श्लक्ष्णया
वाचा
स्मितपूर्वमथाब्रवीत् ॥ १ ॥
कृतदारोऽस्मि
भवति
भार्येयं
दयिता
मम ।
त्वद्विधानां
तु
नारीणां
सुदुःखा
ससपत्नता ॥ २ ॥
अनुजस्त्वेष
मे
भ्राता
शीलवान्
प्रियदर्शनः ।
श्रीमानाकृतदारश्च
लक्ष्मणो
नाम
वीर्यवान् ॥ ३ ॥
अपूर्वी
भार्यया
चार्थी
तरुणः
प्रियदर्शनः ।
अनुरूपश्च
तेभर्ता
रूपस्यास्य
भविष्यति ॥ ४ ॥
एनं
भज
विशालाक्षि
भर्तारं
भ्रातरं
मम ।
असपत्ना
वरारोहे
मेरुमर्कप्रभा
यथा ॥ ५ ॥
इति
रामेण
सा
प्रोक्ता
राक्षसी
काममोहिता ।
विसृज्य
रामं
सहसा
ततो
लक्ष्मणमब्रवीत् ॥ ६ ॥
अस्य
रूपस्य
ते
युक्ता
भार्याहं
वरवर्णिनी ।
मया
सह
सुखं
सर्वान्
दण्डकान्
विचरिष्यसि ॥ ७ ॥
एवमुक्तस्तु
सौमित्री
राक्षस्या
वाक्यकोविदः ।
ततः
शूर्पनखीं
स्मित्वा
लक्ष्मणो
युक्तमब्रवीत् ॥ ८ ॥
कथं
दासस्य
मे
दासी
भार्या
भवितुमिच्छसि ।
सोऽहमार्येण
परवान्
भ्रात्राकमलवर्णिनि ॥ ९ ॥
समृद्धार्थस्य
सिद्धार्थामुदितामलवर्णिनी ।
आर्यस्य
त्वं
विशालाक्षि
भार्या
भव
यवीयसी ॥ १० ॥
एनां
विरूपामसतीं
करालां
निर्णतोदरीम् ।
भार्यां
वृद्धां
परित्यज्य
त्वामेवैष
भजिष्यति ॥ ११ ॥
को
हि
रूपमिदं
श्रेष्ठं
सन्त्यज्य
वरवर्णिनि ।
मानुषीषु
वरारोहे
कुर्याद्भावं
विचक्षणः ॥ १२ ॥
इति
सा
लक्ष्मणेनोक्ता
कराला
निर्णतोदरी ।
मन्यते
तद्वचस्तथ्यं
परिहासाविचक्षणा ॥ १३ ॥
सा
रामं
पर्णशालायामुपविष्टं
परन्तपम् ।
सीतया
सह
दुर्धर्षमब्रवीत्
काममोहिता ॥ १४ ॥
एनां
विरूपामसतीं
करालां
निर्णतोदरीम् ।
वृद्धां
भार्यामवष्टभ्य
मां
न
त्वं
बहुमन्यसे ॥ १५ ॥
अद्येमां
भक्षयिष्यामि
पश्यतस्तव
मानुषीम् ।
त्वया
सह
चरिष्यामि
निस्सपत्ना
यथासुखम् ॥ १६ ॥
इत्युक्त्वा
मृगशावाक्षीमलातसदृशेक्षणा ।
अभ्यधावत्
सुसङ्क्रुद्धा
महोल्का
रोहिणीमिव ॥ १७ ॥
तां
मृत्युपाशप्रतिमामापतन्तीं
महाबलः ।
निगृह्य
रामः
कुपितस्ततो
लक्ष्मणमब्रवीत् ॥ १८ ॥
क्रूरैरनार्यैः
सौमित्रे
परिहासः
कथञ्चन ।
न
कार्यः
पश्य
वैदेहीं
कथञ्चित्
सौम्य
जीवतीम् ॥ १९ ॥
इमां
विरूपामसतीमतिमत्तां
महोदरीम् ।
राक्षसीं
पुरुषव्याघ्र
विरूपयितुमर्हसि ॥ २० ॥
इत्युक्तो
लक्ष्मणस्तस्याः
क्रुद्धो
रामस्य
पार्श्वतः ।
उद्धत्य
खङ्गं
चिच्छेद
कर्णनासं
महाबलः ॥ २१ ॥
निकृत्तकर्णनासा
तु
विस्वरं
सा
विनद्य
च ।
यथागतं
प्रदुद्राव
घोरा
शूर्पणखा
वनम् ॥ २२ ॥
सा
विरूपा
महाघोरा
राक्षसी
शोणितोक्षिता ।
ननाद
विविधान्नादान्
यथा
प्रावृषि
तोयदः ॥ २३ ॥
सा
विक्षरन्ती
रुधिरं
बहुधा
घोरदर्शना ।
प्रगृह्य
बाहू
गर्जन्ती
प्रविवेश
महावनम् ॥ २४ ॥
ततस्तु
सा
राक्षससङ्घसंवृतं
खरं
जनस्थानगतं
विरूपिता ।
उपेत्य
तं
भ्रातरमुग्रदर्शनं
पपात
भूमौ
गगनाद्यथाऽशनिः ॥ २५ ॥
ततः
सभार्यं
भयमोहमूर्च्छिता
सलक्ष्मणं
राघवमागतं
वनम् ।
विरूपणं
चात्मनि
शोणितोक्षिता
शशंस
सर्वं
भगिनी
खरस्य
सा ॥ २६ ॥