ततः
शूर्पणखा
घोरा
राघवाश्रममागता ।
रक्षसामाचचक्षे
तौ
भ्रातरौ
सह
सीतया ॥ १ ॥
ते
रामं
पर्णशालायामुपविष्टं
महाबलम् ।
ददृशुः
सीतया
सार्धं
वैदेह्या
लक्ष्मणेन
च ॥ २ ॥
तान्
दृष्ट्वा
राघवः
श्रीमानागतां
तां
च
राक्षसीम् ।
अब्रवीद्
भ्रातरं
रामो
लक्ष्मणं
दीप्ततेजसम् ॥ ३ ॥
मुहुर्तं
भव
सौमित्रे
सीतायाः
प्रत्यनन्तरः ।
इमानस्या
वधिष्यामि
पदवीमागतानिह ॥ ४ ॥
वाक्यमेतत्ततः
श्रुत्व
रामस्य
विदितात्मनः ।
तथेति
लक्ष्मणो
वाक्यं
रामस्य
प्रत्यपूजयत् ॥ ५ ॥
राघवोऽपि
महञ्चापं
चामीकरविभूषितम् ।
चकार
सज्यं
धर्मात्मा
तानि
रक्षांसि
चाब्रवीत् ॥ ६ ॥
पुत्रौ
दशरथस्यावां
भ्रातरौ
रामलक्ष्मणौ ।
प्रविष्टौ
सीतया
सार्धं
दुश्चरं
दण्डकावनम् ॥ ७ ॥
फलमूलाशनौ
दान्तौ
तापसौ
धर्मचारिणौ ।
वसन्तौ
दण्डकारण्ये
किमर्थमुपहिंसथ ॥ ८ ॥
युष्मान्
पापात्मकान्
हन्तुं
विप्रकारान्
महाहवे ।
ऋषीणां
तु
नियोगेन
प्राप्तोऽहं
सशरायुधः ॥ ९ ॥
तिष्ठतैवात्र
सन्तुष्टा
नोपावर्तितुमर्हथ ।
यदि
प्राणैरिहार्थो
वा
निवर्तध्वं
निशाचराः ॥ १० ॥
तस्य
तद्वचनं
श्रुत्वा
राक्षसास्ते
चतुर्दश ।
ऊचुर्वाचं
सुसङ्क्रुद्धा
ब्रह्मघ्नाः
शूलपाणयः ॥ ११ ॥
क्रोधमुत्पाद्य
नो
भर्तुः
खरस्य
सुमहात्मनः ।
त्वमेव
हास्यसे
प्राणानद्यास्माभिर्हतो
युधि ॥ १२ ॥
का
हि
ते
शक्तिरेकस्य
बहूनां
रणमूर्धनि ।
अस्माकमग्रतः
स्थातुं
किं
पुनर्योद्धुमाहव ॥ १३ ॥
एहि
बाहुप्रयुक्तैर्नः
परिघैः
शूलपट्टिशैः ।
प्राणांस्त्यक्षङसि
वीर्यं
च
धनुश्च
करपीडितम् ॥ १४ ॥
तानि
शूलानि
काकुत्स्थः
समस्तानि
चतुर्दश ।
तावद्भिरेव
चिच्छेद
शरैः
काञ्चनभूषणैः ॥ १५ ॥
ततः
पश्चान्महातेजा
नाराचान्
सूर्यसन्निभान् ।
जग्राह
परमक्रुद्धश्चतुर्दश
शिलाशितान् ॥ १६ ॥
गृहीत्वा
धनुरायम्य
लक्ष्यानुद्दिश्य
राक्षसान् ।
मुमोच
राघवो
बाणान्
वज्रानिव
शतक्रतुः ॥ १७ ॥
ते
भित्त्वा
रक्षसां
वेगाद्वक्षांसि
रुधिराप्लुताः ।
विनिष्पेतुस्तदा
भूमौ
न्यमज्जन्ताशनिस्वनाः ॥ १८ ॥
ते
भिन्नहृदया
भूमौ
छिन्नमूला
इव
द्रुमाः ।
निपेतुः
शोणितार्द्राङ्गा
विकृता
विगतासवः ॥ १९ ॥
तान्
दृष्ट्वा
पतितान्
भूमौ
राक्षसी
क्रोधमूर्च्छिता ।
परित्रस्ता
पुनस्तत्र
व्यसृजद्भैरवस्वनान् ॥ २० ॥
पपात
पुनरेवार्ता
सनिर्यासेव
सल्लकी ।
निपातितान्
दृश्य
रणे
तु
राक्षसान्
प्रधाविता
शूर्पणखा
पुनस्ततः ॥ २१ ॥
वधं
च
तेषां
निखिलेन
रक्षसां
शशंस
सर्वं
भगीनी
खरस्य
सा ॥ २२ ॥