एवमाधर्षितः
शूरः
शूर्पणख्या
खरस्तदा ।
उवाच
रक्षसां
मध्ये
खरः
खरतरं
वचः ॥ १ ॥
तवावमानप्रभवः
क्रोधोऽयमतुलो
मम ।
न
श्क्यते
धारयितुं
लवणाम्भ
इवोत्थितम् ॥ २ ॥
न
रामं
गणये
वीर्यान्मानुषं
क्षीणजीवितम् ।
आत्मदुश्चरितैः
प्राणान्
हतो
योऽद्य
विमोक्ष्यति ॥ ३ ॥
बाष्पः
संह्रियतामेष
सम्भ्रमश्च
विमुच्यताम् ।
अहं
रामं
सह
भ्रात्रा
नयामि
यमसादनम् ॥ ४ ॥
परश्वधहतस्याद्य
मन्दप्राणस्य
संयुगे ।
रामस्य
रुधिरं
रक्तमुष्णं
पास्यसि
राक्षसि ॥ ५ ॥
सा
प्रहृष्टा
वचः
श्रुत्वा
खरस्य
वदनच्च्युतम् ।
प्रशशंस
पुनर्मौर्ख्याद्
भ्रातरं
रक्षसां
वरम् ॥ ६ ॥
तया
परुषितः
पूर्वं
पुनरेव
प्रशंसितः ।
अब्रवीद्दूषणं
नाम
खऱः
सेनापतिं
तदा ॥ ७ ॥
चतुर्दश
सहस्राणि
मम
चित्तानुवर्तिनाम् ।
रक्षसां
भीमवेगानां
समरेष्वनिवर्तिनाम् ॥ ८ ॥
नीलजीमूतवर्णानां
घोराणां
क्रूरकर्मणाम् ।
लोकहिंसाविहाराणां
बलिनामुग्रतेजसाम् ॥ ९ ॥
तेषां
शार्दूलदर्पाणां
महास्यानां
महौजसाम् ।
सर्वोद्योगमुदीर्णानां
रक्षसां
सौम्य
कारय ॥ १० ॥
उपस्थापय
मे
क्षिप्रं
रथं
सौम्य
धनूंषि
च ।
शरांश्चित्रांश्च
खङ्गांश्च
शक्तीश्च
विविधाः
शिताः ॥ ११ ॥
अग्रे
निर्यातुमिच्छामि
पौलस्त्यानां
महात्मनाम् ।
वधार्थं
दुर्विनीतस्य
रामस्य
रणकोविदः ॥ १२ ॥
इति
तस्य
ब्रुवाणस्य
सूर्यवर्णं
महारथम् ।
सदश्वैः
शबलैर्युक्तमाचचक्षेऽथ
दूषणः ॥ १३ ॥
तं
मेरुशिखराकारं
तप्तकाञ्चनभूषणम् ।
हेमचक्रमसम्बाधं
वैडूर्यमयकूबरम् ॥ १४ ॥
मत्स्यैः
पुष्पैर्द्रुमैः
शैलैश्चन्द्रसूर्यैश्च
काञ्चनैः ।
मङ्गलैः
पक्षिसङ्घैश्च
ताराभिरभिसंवृतम् ॥ १५ ॥
ध्व़जनिस्त्रिंशसम्पन्नं
किङ्किणीकविराजितम् ।
सदश्वयुक्तं
सोमर्षादारुरोह
खरो
रथम् ॥ १६ ॥
निशाम्य
तु
रथस्थं
तं
राक्षसा
भीमविक्रमाः ।
तस्थुः
सम्परिवार्यैनं
दूषणं
च
महाबलम् ॥ १७ ॥
खरस्तु
तान्
महेष्वासान्
घोरवर्मायुधध्वजान् ।
निर्यातेत्यब्रमीद्धृष्टो
रथस्थः
सर्वराक्षसान् ॥ १८ ॥
ततस्तद्राक्षसं
सैन्यं
घोरवर्मायुधध्वजम् ।
निर्जगाम
जनस्थानान्महानादं
महाजवम् ॥ १९ ॥
मुद्गरैः
पट्टिशैः
शूलैः
सुतीक्ष्णैश्च
परश्वधैः ।
खङ्गैश्चक्रैश्च
हस्तस्थैर्भ्राजमानैश्च
तोमरैः ॥ २० ॥
शक्तिभिः
परिघैर्घोरैरतिमात्रैश्च
कार्मुकैः ।
गदासिमुसलैर्वज्रैर्घृहीतैर्भीमदर्शनैः ॥ २१ ॥
राक्षसानां
सुघोराणां
सहस्राणि
चतुर्दश ।
निर्यातानि
जनस्थानात्
खरचित्तानुवर्त्तिनाम् ॥ २२ ॥
तांस्त्वभिद्रवतो
दृष्ट्वा
राक्षसान्
भीमविक्रमान् ।
खरस्यापि
रथः
किञ्चिज्जगाम
तदनन्तरम् ॥ २३ ॥
ततस्तान्
शबलानश्वांस्तप्तकञ्चनबूषितान् ।
खरस्य
मतिमाज्ञाय
सारथिः
समचोदयत् ॥ २४ ॥
स
चोदितो
रथः
शीघ्रं
खरस्य
रिपुघातिनः ।
शब्देनापूरयामास
दिशश्च
प्रदिशस्तदा ॥ २५ ॥
प्रवृद्धमन्युस्तु
खरः
खरस्वनो
रिपोर्वधार्थं
त्वरितो
यथान्तकः ।
अचूचुदत्सारथिमुन्नदन्
घनं
महाबलो
मेघ
इवाश्म
वर्षवान् ॥ २६ ॥