तस्मिन्
याते
जनस्थानादशिवं
शोणितोदकम् ।
अभ्यवर्षन्महामेघस्तुमुलो
गर्दभारुणः ॥ १ ॥
निपेतुस्तुरगास्तस्य
रथयुक्ता
महाजवाः ।
समे
पुष्पचिते
देशे
राजमार्गे
यदृच्छया ॥ २ ॥
श्यामं
रुधिरपर्यन्तं
बभूव
परिवेषणम् ।
अलातचक्रप्रतिमं
परिगृह्य
दिवाकरम् ॥ ३ ॥
ततो
ध्वजमुपागम्य
हेमदण्डं
समुच्छ्रितम् ।
समाक्रम्य
महाकायस्तस्थौ
गृध्रः
सुदारुणः ॥ ४ ॥
जनस्थानसमीपे
तु
समागम्य
खरस्वनाः ।
विस्वरान्विविधांश्चक्रुर्मांसादा
मृगपक्षिणः ॥ ५ ॥
व्याजह्रुश्च
प्रदीप्तायां
दिशि
वै
भैरवस्वनम् ।
अशिवं
यातुधानानां
शिवा
घोरा
महास्वनाः ॥ ६ ॥
प्रभिन्नगिरि
सङ्काशास्तोयशोणितधारिणः ।
आकाशं
तदनाकाशं
चक्रुर्मीमा
बलाहकाः ॥ ७ ॥
बभूव
तिमिरं
घोरमुद्धतं
रोमहर्षणम् ।
दिशो
वा
विदिशो
वापि
न
च
व्यक्तं
चकाशिरे ॥ ८ ॥
खरस्याभिमुखा
नेदुस्तदा
घोरमृगाः
खगाः ।
कङ्कगोमायुगृध्राश्च
चुक्रुशुर्भयशंसिनः ॥ ९ ॥
नित्याशुभकरा
युद्धे
शिवा
घोरनिदर्शनाः ।
नेदुर्बलस्याभिमुखं
ज्वालोद्गारिभिराननैः ॥ १० ॥
कबन्धः
परिघाभासो
दृश्यते
भास्करान्तिके ।
जग्राह
सूर्यं
स्वर्भानुरपर्वणि
महाग्रहः ॥ ११ ॥
प्रवाति
मारुतः
शीघ्रं
निष्प्रभोऽभूद्दिवाकरः ।
उत्पेतुश्च
विना
रात्रिं
ताराः
खद्योतसप्रभाः ॥ १२ ॥
संलीनमीनविहगा
नलिन्यः
शुष्कपङ्कजाः ।
तस्मिन्
क्षणे
बभूवुश्च
विना
पुष्पफलैर्द्रुमाः ॥ १३ ॥
उद्धूतश्च
विना
वातं
रेणुर्जलधरारुणः ।
वीचीकूचिति
वाश्यन्त्यो
बभूवुस्तत्र
शारिकाः ॥ १४ ॥
उल्काश्चापि
सनिर्घाता
निपेतुर्घोरदर्शनाः ।
प्रचचाल
मही
सर्वा
सशैलवनकानना ॥ १५ ॥
खरस्य
च
रथस्थस्य
नर्दमानस्य
धीमतः ।
प्राकम्पत
भुजः
सव्यः
स्वरश्चास्यावसज्जत ॥ १६ ॥
सास्रा
समपद्यते
दृष्टिः
पश्यमानस्य
सर्वतः ।
ललाटेः
च
रुजा
जाता
न
च
मोहान्न्यवर्तत ॥ १७ ॥
तान्
समीक्ष्य
महोत्पातानुत्थितान्
रोमहर्षणान् ।
अब्रवीद्राक्षसान्
सर्वान्
प्रहसन्
स
खरस्तदा ॥ १८ ॥
महोत्पातानिमान्
सर्वानुत्थितान्
घोरदर्शनान् ।
न
चिन्तयाम्यहं
वीर्याद्बलवान्
दुर्बलानिव ॥ १९ ॥
तारा
अपि
शरैस्थीक्ष्णैः
पातयामि
नभःस्थलात् ।
मृत्युं
मरणधर्मेण
सङ्क्रुद्धो
योजयाम्यहम् ॥ २० ॥
राघवं
तं
बलोत्सिक्तं
भ्रातरं
चास्य
लक्ष्मणम् ।
अहत्वा
सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे ॥ २१ ॥
सकामा
भगिनी
मेऽस्तु
पीत्वा
तु
रुधिरं
तयोः ।
यन्निमित्तस्तु
रामस्य
लक्ष्मणस्य
विपर्ययः ॥ २२ ॥
न
क्वचित्प्राप्तपूर्वो
मे
संयुगेषु
पराजयः ।
युष्माकमेतत्प्रत्यक्षं
नानृतं
कथयाम्यहम् ॥ २३ ॥
देवराजमपि
क्रुद्धो
मत्तैरावतयायिनम् ।
वज्रहस्तं
रणे
हन्यां
किं
पुनस्तौ
कुमानुषौ ॥ २४ ॥
सा
तस्य
गर्जितं
श्रुत्वा
राक्षसस्य
महाचमूः ।
प्रहर्षमतुलं
लेभे
मृत्युपाशावपाशिता ॥ २५ ॥
समीयुश्च
महात्मानो
युद्धदर्शनकाङ्क्षिणः ।
ऋषयो
देवगन्धर्वाः
सिद्धाश्च
सह
चारणैः ॥ २६ ॥
समेत्य
चोचुः
सहितास्तेऽन्योन्यं
पुम्यकर्मणः ।
स्वस्ति
गोब्राह्मणेभ्योऽस्तु
लोकानां
येऽभिसङ्गताः ॥ २७ ॥
जयतां
राघवः
सङ्ख्ये
पौलस्त्यान्
रजनीचरान् ।
चक्रहस्तो
यथा
युद्धे
सर्वानसुरपुङ्गवान् ॥ २८ ॥
एतच्चन्यच्च
बहुशो
ब्रुवाणाः
परमर्षयः ।
जातकौतूहलास्तत्र
विमानस्थाश्च
देवताः ॥ २९ ॥
ददृशुर्वाहिनीं
तेषां
राक्षसानां
गतायुषाम् ।
रथेन
तु
खरो
वेगादुग्रसैन्यो
विनिस्सृतः ॥ ३० ॥
तं
दृष्ट्वा
राक्षसं
भूयो
राक्षसाश्च
विनिस्सृताः ।
श्येनगामी
पृथुग्रीवो
यज्ञशत्रुर्विहङ्गमः ॥ ३१ ॥
दुर्जयः
करवीराक्षः
परुषः
कालकार्मुकः ।
मेघमाली
महामाली
सर्पास्यो
रुधिराशनः ॥ ३२ ॥
द्वादशैते
महावीर्याः
प्रतस्थुरभितः
खरम् ।
महाकपालः
स्थूलाक्षः
प्रमाथी
त्रिशिरास्तथा ॥ ३३ ॥
चत्वार
एते
सेनान्यो
दूषणं
पृष्ठतो
ययुः ।
सा
भीमवेगा
समराभिकामा
महाबला
राक्षसवीरसेना ॥ ३४ ॥
तौ
राजपुत्रौ
सहसाभ्युपेता
माला
ग्रहाणामिव
चन्द्रसूर्यौ ॥ ३५ ॥