आश्रमं
प्रतियाते
तु
खरे
खरपराक्रमे ।
तानेवोत्पातिकान्
रामः
सह
भ्रात्रा
ददर्श
ह ॥ १ ॥
तानुत्पातान्
महाघोरानुत्थितान्
रोमहर्षणान् ।
प्रजानामहितान्
दृष्ट्वा
वाक्यं
लक्ष्मणमब्रवीत् ॥ २ ॥
इमान्
पश्य
महाबाहो
सर्वभूतापहारिणः ।
समुत्थितान्
महोत्पातान्
संहर्तुं
सर्वराक्षसान् ॥ ३ ॥
अमी
रुधिरधारास्तु
विसृजन्तः
खरस्वनान् ।
व्योम्निमेघा
विवर्तन्ते
परुषा
गर्दभारुणाः ॥ ४ ॥
सधूमाश्च
शराः
सर्वे
मम
युद्धाभिनन्दिनः ।
रुक्मपृष्ठानि
चापानि
विवेष्टन्ते
च
लक्ष्मण ॥ ५ ॥
यादृशा
इह
कूजन्ति
पक्षिणो
वनचारिणः ।
अग्रतो
नो
भयं
प्राप्तं
संशयो
जीवितस्य
च ॥ ६ ॥
अयमाख्यानि
मे
बाहुः
स्फुरमाणो
मुहुर्मुहुः ।
सन्निकर्षे
तु
नः
शूर
जयं
शत्रोः
पराजयम् ॥ ७ ॥
सप्रभं
च
प्रसन्नं
च
तव
वक्त्रं
हि
लक्ष्यते ।
उद्यतानां
हि
युद्धार्थं
येषां
भवति
लक्ष्मण ॥ ८ ॥
निष्प्रभं
वदनं
तेषां
भवत्यायुः
परिक्षयः ।
रक्षसां
नर्दतां
घोरः
श्रूयते
च
महाध्वनिः ॥ ९ ॥
आहतानां
च
भेरीणां
राक्षसैः
क्रूरकर्मभिः ।
आनागतविधानं
तु
कर्तव्यं
शुभमिच्छता ॥ १० ॥
आपदं
शङ्कमानेन
पुरुषेण
विपश्चिता ।
तस्माद्गृहीत्वा
वैदेहीं
शरपाणिर्धनुर्धरः ॥ ११ ॥
गुहामाश्रय
शैलस्य
दुर्गां
पादपसङ्कुलाम् ।
प्रतिकूलितुमिच्छामि
नहि
वाक्यमिदं
त्वया ॥ १२ ॥
शापितो
मम
पादाभ्यां
गम्यतां
वत्स
मा
चिरम् ।
त्वं
हि
शूरश्च
बलवान्
हन्यां
ह्येतान्न
संशयः ॥ १३ ॥
स्वयं
तु
हन्तुमिच्छामि
सर्वानेव
निशाचरान् ।
एवमुक्तस्तु
रामेण
लक्ष्मणः
सह
सीतया ॥ १४ ॥
शरानादाय
चापं
च
गुहां
दुर्गां
समाश्रयत् ।
तस्मिन्
प्रविष्टे
तु
गुहां
लक्ष्मणे
सह
सीतया ॥ १५ ॥
हन्त
निर्युक्तमित्युक्त्वा
रामः
कवचमाविशत् ।
स
तेनाग्निनिकाशेन
कवचेन
विभूषितः ॥ १६ ॥
बभूव
रामस्तिमिरे
विधूमोऽग्निरिवोत्थितः ।
स
चापमुद्यम्य
महच्छरानादाय
वीर्यवान् ॥ १७ ॥
बभूवावस्थितस्तत्रज्यास्वनैः
पूरयन्
दिशः ।
ततो
देवाः
सगन्धर्वाः
सिद्धाश्च
सह
चारणैः ॥ १८ ॥
समेयुश्च
महात्मानो
युद्धदर्शनकाङ्क्षिणः ।
ऋषयश्च
महात्मानो
लोके
ब्रह्मर्षिसत्तमाः ॥ १९ ॥
समेत्य
चोचुः
सहिता
अन्योन्यं
पुण्यकर्मणः ।
स्वस्ति
गोब्राह्मणेभ्योऽस्तु
लोकानां
येऽभिसङ्गताः ॥ २० ॥
जयतां
राघवो
युद्धे
पौलस्त्यान्
रजनीचरान् ।
चक्रहस्तो
यथा
युद्धे
सर्वानसुरपुङ्गवान् ॥ २१ ॥
एवमुक्त्वा
पुनः
प्रोचुरालोक्य
च
परस्परम् ।
चतुर्दश
सहस्त्राणि
रक्षसां
भीमकर्मणाम् ॥ २२ ॥
एकश्च
रामो
धर्मात्मा
कथं
युद्धं
भविष्यति ।
इति
राजर्षयः
सिद्धाः
सगणाश्च
द्विजर्षभाः ॥ २३ ॥
जातकौतूहलास्तस्थुर्विमानस्थाश्च
देवताः ।
आविष्टं
तेजसा
रामं
सङ्ग्रामशिरसि
स्थितम् ॥ २४ ॥
दृष्ट्वा
सर्वाणि
भूतानि
भयाद्विव्यथिरे
तदा ।
रूपमप्रतिमं
तस्य
रामस्याक्लिष्टकर्मणः ॥ २५ ॥
बभूव
रूपं
क्रुद्धस्य
रुद्रस्येव
पिनाकिनः ।
ततो
गम्भीरनिर्ह्रादं
घोरवर्मायुधध्वजम् ॥ २६ ॥
अनीकं
यातुधानानां
समन्तात्प्रत्यदृश्यत ।
सिंहनादं
विसृजतामन्योन्यमभिगर्जताम् ॥ २७ ॥
चापानि
विस्फारयतां
जृम्भतां
चाप्यभीक्ष्णशः ।
विप्रघुष्टस्वनानां
च
दुन्दुभींश्चापि
निघ्नताम् ॥ २८ ॥
तेषां
सुतुमुलः
शब्दः
पूरयामास
तद्वनम् ।
तेन
शब्देन
वित्रस्ताः
श्वापदा
वनचारिणः ॥ २९ ॥
दुद्रुवुर्यत्र
निःशब्दं
पृष्ठतो
न
व्यलोकयन् ।
तत्त्वनीकं
महावेगं
रामं
समुपसर्पत ॥ ३० ॥
धृतनानाप्रहरणं
गम्भीरं
सागरोपमम् ।
रामोऽपि
चारयन्
चक्षुः
सर्वतो
रणपण्डितः ॥ ३१ ॥
ददर्श
खरसैन्यं
तद्युद्धाभिमुखमुत्थितम् ।
वितत्य
च
धनुर्भीमं
तूण्योश्चोद्धृत्य
सायकान् ॥ ३२ ॥
क्रोधमाहारयत्तीव्रं
वधार्थं
सर्वरक्षसाम् ।
दुष्प्रेक्षः
सोभवत्
क्रुद्धो
युगान्ताग्निरिव
ज्वलन् ॥ ३३ ॥
तं
दृष्ट्वा
तेजसाविष्टं
प्राद्रवन्वनदेवताः ।
तस्य
क्रुद्धस्य
रूपं
तु
रामस्य
ददृशे
तदा ॥ ३४ ॥
दक्षस्येव
क्रतुं
हन्तुमुद्यतस्य
पिनाकिनः ।
आविष्टं
तेजसा
रामं
सङ्ग्रामशिरसि
स्थितम् ॥ ३५ ॥
दृष्ट्वा
सर्वाणि
भूतानि
भयार्तानि
प्रदुद्रुवुः ।
तत्कार्मुकैराभरणैर्ध्वजैश्च
तैर्वर्मभिश्चाग्निसमानवर्णैः ॥ ३६ ॥
बभूव
सैन्यं
पिशिताशनानां
सूर्योदये
नीलमिवाभ्रवृन्दम् ॥ ३७ ॥