सन्दिदेश
महाबाहुर्भीमवेगान्
दुरासदान् ।
राक्षसान्
पञ्च
साहस्रान्
समरेष्वनिवर्तिनः ॥ १ ॥
ते
शूलैः
पट्टिशै
खङ्गैः
शिलावर्षेर्द्रुमैरपि ।
शरवर्षैरविच्छिन्नं
ववृषुस्तं
समन्ततः ॥ २ ॥
स
द्रुमाणां
शिलानां
च
वर्षं
प्राणहरं
महत् ।
प्रतिजग्राह
धर्मात्मा
राघवस्तीक्ष्णसायकैः ॥ ३ ॥
प्रतिगृह्य
च
तद्वर्षं
निमीलित
इवर्षभः ।
रामः
क्रोधं
परं
भेजे
वधार्थं
सर्वरक्षसाम् ॥ ४ ॥
ततः
क्रोधसमाविष्टः
प्रदीप्त
इव
तेजसा ।
शरैरवाकिरत्सैन्यं
सर्वतः
सहदूषणम् ॥ ५ ॥
ततः
सेनापतिः
क्रुद्धो
दूषणः
शत्रुदूषणः ।
शरैरशनिकल्पैस्तं
राघवं
समवाकिरत् ॥ ६ ॥
ततो
रामः
सुसङ्क्रुद्धः
क्षुरेणास्य
महद्धनुः ।
चिच्छेद
समरे
वीरश्चतुर्भिश्चतुरो
हयान् ॥ ७ ॥
हत्वा
चाश्वन्
शरैस्तीक्ष्णैरर्धचन्द्रेण
सारथेः ।
शिरो
जहार
तद्रक्षस्रिभिर्विव्याध
वक्षसि ॥ ८ ॥
स
च्छिन्नधन्वा
विरथो
हताश्वो
हतसारथिः ।
जग्राह
गिरिशृङ्गाभं
परिघं
रोमहर्षणम् ॥ ९ ॥
वेष्टितं
काञ्चनैः
पट्टैर्देवसैन्यप्रमर्दनम् ।
आयसैः
शङ्कुभिस्तीक्ष्णैः
कीर्णं
परवसोक्षितम् ॥ १० ॥
वज्राशनिसमस्पर्शं
परगोपुरदारणम् ।
तं
महोरगसङ्काशं
प्रगृह्य
परिघं
रणे ॥ ११ ॥
दूषणोभ्यद्रवद्रांमं
क्रूरकर्मा
निशाचरः ।
तस्याभिपतमानस्य
दूषणस्य
स
राघवः ॥ १२ ॥
द्वाभ्यां
शराभ्यां
चिच्छेद
सहस्ताभरणौ
भुजौ ।
भ्रष्टस्तस्य
महाकायः
पपात
रणमूर्द्धिनि ॥ १३ ॥
परिघश्छिन्नहस्तस्य
शक्रध्वज
इवाग्रतः ।
स
कराभ्यां
विकीर्णाभ्यां
पपात
भुवि
दूषणः ॥ १४ ॥
विषाणाभ्यां
विशीर्णाभ्यां
मनस्वीव
महागजः ।
तं
दृष्ट्वा
पतितं
भूमौ
दूषणं
निहतं
रणे ॥ १५ ॥
साधुसाध्विति
काकुत्स्थं
सर्वभूतान्यपूजयन् ।
एतस्मिन्नन्तरे
क्रुद्धास्त्रयः
सेनाग्रयायिनः ॥ १६ ॥
संहत्याभ्यद्रवन्
रामं
मृत्युपाशावपाशिताः ।
महाकपालो
विपुलं
शूलमुद्यम्य
राक्षसः ॥ १७ ॥
स्थूलाक्षः
पट्टिशं
गृह्य
प्रमाथी
च
परश्वधम् ।
दृष्ट्वैवापततस्तूर्णं
राघवः
सायकैः
शितैः ॥ १८ ॥
तीक्ष्णाग्रैः
प्रतिजग्राह
सम्प्राप्तानतिथीनिव ।
महाकपालस्य
शिरश्चिच्छेद
परमेषुभिः ॥ १९ ॥
असङ्ख्येयैस्तु
बाणौघैः
प्रममाथ
प्रमाथिनम् ।
स
पपात
हतो
भूमौ
विटपीव
महाद्रुमः ॥ २० ॥
स्थूलाक्षस्याक्षिणी
तीक्ष्णैः
पूरयामास
सायकैः ।
दूषणस्यानुगान्
पञ्चसाहस्रान्
कुपितः
क्षणात् ॥ २१ ॥
बाणौघैः
पञ्चसाहस्रैरनयद्यमसादनम् ।
दूषणं
निहतं
दृष्ट्वा
तस्य
चैव
पदानुगान् ॥ २२ ॥
व्यदिदेश
खरः
क्रुद्धः
सेनाध्यक्षान्
महाबलान् ।
अयं
विनिहतः
सङ्ख्ये
दूषणः
सपदानुगः ॥ २३ ॥
महत्या
सेनया
सार्धं
युध्वा
रामं
कुमानुषम् ।
शस्त्रैर्नानाविधाकारैर्हनध्वं
सर्वराक्षसाः ॥ २४ ॥
एवमुक्त्वा
खरः
क्रुद्धो
राममेवाभिदुद्रुवे ।
श्येनगामी
पृथुग्रीवो
यज्ञशत्रुर्विहङ्गमः ॥ २५ ॥
दुर्जयः
करवीराक्षः
परुषः
कालकार्मुकः ।
मेघमाली
महामाली
सर्पास्यो
रुधिराशनः ॥ २६ ॥
द्वादशैते
महावीर्या
बलाध्यक्षाः
ससैनिकाः ।
राममेवाभ्यवर्तन्त
विसृजन्तः
शरोत्तमान् ॥ २७ ॥
ततः
पावक
सङ्काशैर्हेमवज्रविभूषितैः ।
जघान
शेषं
तेजस्वी
तस्य
सैन्यस्य
सायकैः ॥ २८ ॥
ते
रुक्मपुङ्खा
विशिखाः
सधूमा
इव
पावकाः ।
निजध्नुस्तानि
रक्षांसि
वज्रा
इव
महाद्रुमान् ॥ २९ ॥
रक्षसां
तु
शतं
रामः
शतेनैकेन
कर्णिना ।
सहस्रं
च
सहस्रेण
जघान
रणमूर्धनि ॥ ३० ॥
तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः ।
निपेतुः
शोणितादिग्धा
धरण्यां
रजनीचराः ॥ ३१ ॥
तैर्मुक्तकेशैः
समरे
पतितैः
शोणितोक्षितैः ।
आस्तीर्णा
वसुधा
कृत्स्ना
महावेदिः
कुशैरिव ॥ ३२ ॥
क्षणेन
तु
महाघोरं
वनं
निहतराक्षसम् ।
बभूव
निरयप्रख्यं
मांसशोणितकर्दमम् ॥ ३३ ॥
चतुर्दशसहस्राणि
रक्षसां
भीमकर्मणाम् ।
हतान्येकेन
रामेण
मानुषेण
पदातिना ॥ ३४ ॥
तस्य
सैन्यस्य
सर्वस्य
खरः
शेषो
महारथः ।
राक्षसस्त्रिशिराश्चैव
रामश्च
रिपुसूदनः ॥ ३५ ॥
शेषा
हता
महासत्त्वा
राक्षसा
रणमूर्धनि ।
घोरा
दुर्विषहाः
सर्वे
लक्ष्मणस्याग्रजेन
ते ॥ ३६ ॥
ततस्तु
तद्भीमबलं
महाहवे
समीक्ष्य
रामेण
हतं
बलीयसा ।
रथेन
रामं
महता
खरस्तदा
समाससादेन्द्र
इवोद्यताशनिः ॥ ३७ ॥