खरं
तु
रामाभिमुखं
प्रयान्तं
वाहिनीपतिः ।
राक्षसस्त्रिशिरा
नाम
सन्निपत्येदमब्रवीत् ॥ १ ॥
मां
नियोजय
विक्रान्त
सन्निवर्तस्व
साहसात् ।
पश्य
रामं
महाबाहुं
संयुगे
विनिपातितम् ॥ २ ॥
प्रतिजानामि
ते
सत्यमायुधं
चाहमालभे ।
यथा
रामं
वधिष्यामि
वधार्हं
सर्वरक्षसाम् ॥ ३ ॥
अहं
वास्य
रणे
मृत्युरेष
वा
समरे
मम ।
विनिवृत्य
रणोत्साहान्मुहूर्तं
प्राश्निको
भव ॥ ४ ॥
प्रहृष्टे
वा
हते
रामे
जनस्थानं
प्रयास्यसि ।
मयि
वा
निहते
रामं
संयुगायोपयास्यसि ॥ ५ ॥
खरस्त्रिशिरसा
तेन
मृत्युलोभात्प्रसादितः ।
गच्छ
युद्ध्येत्यनुज्ञातो
राघवाभिमुखो
ययौ ॥ ६ ॥
त्रिशिराश्च
रथेनैव
वाजियुक्तेन
भास्वता ।
अभ्यद्रवद्रणे
रामं
त्रिशृङ्ग
इव
पवर्तः ॥ ७ ॥
शरधारासमूहान्
स
महामेघ
इवोत्सृजन् ।
व्यसृजत्सदृशं
नादं
जलार्द्रस्य
तु
दुन्दुभेः ॥ ८ ॥
आगच्छन्तं
त्रिशिरसं
राक्षसं
प्रेक्ष्य
राघवः ।
धनुषा
प्रतिजग्राह
विधून्वन्
सायकान्
शितान् ॥ ९ ॥
स
सम्प्रहारस्तुमुलो
रामत्रिशिरसोर्महान् ।
बभूवातीव
बलिनोः
सिंहकुञ्जरयोरिव ॥ १० ॥
ततस्त्रिशिरसा
बाणैर्ललाटे
ताडितस्त्रिभिः ।
अमर्षी
कुपुतो
रामः
संरब्धमिदमब्रवीत् ॥ ११ ॥
अहो
विक्रमशूरस्य
राक्षसस्येदृशं
बलम् ।
पुष्पैरिव
शरैर्यस्य
ललाटेऽस्मि
परिक्षतः ॥ १२ ॥
एवमुक्त्वा
तु
संरब्धः
शरानाशीविषोपमान् ।
त्रिशिरोवक्षसि
क्रुद्धो
निजघान
चतुर्दश ॥ १३ ॥
चतुर्भिस्तुरगानस्य
शरैः
सन्नतपर्वभिः ।
न्यपातयत
तेजस्वी
चतुरस्तस्य
वाजिनः ॥ १४ ॥
अष्टभिः
सायकैः
सूतं
रथोपस्थे
न्यपातयत् ।
रामश्चिच्छेद
बाणेन
ध्वजं
चास्य
समुच्छ्रितम् ॥ १५ ॥
ततो
हतरथात्तस्मादुत्पतन्तं
निशाचरम् ।
बिभेद
रामस्तं
बाणैर्हृदये
सोऽभवज्जडः ॥ १६ ॥
सायकैश्चाप्रमेयात्मा
सामर्षस्तस्य
रक्षसः ।
शिरांस्यपातयद्रामो
वेगवद्भिस्त्रिभिः
शितैः ॥ १७ ॥
स
भूमौ
रुधिरोद्गारी
रामबाणाभिपीडितः ।
न्यपतत्
पतितैः
पूर्वं
स्वशिरोभिर्निशाचरः ॥ १८ ॥
हतशेषास्ततो
भग्ना
राक्षसाः
खरसंश्रयाः ।
द्रवन्ति
स्म
न
तिष्ठन्ति
व्याघ्रत्रस्ता
मृगा
इव ॥ १९ ॥
तान्
खरो
द्रवतो
दृष्ट्वा
निवर्त्य
रुषितः
स्वयम् ।
राममेवाभिदुद्राव
राहुश्चन्द्रमसं
यथा ॥ २० ॥