निहतं
दूषणं
दृष्ट्वा
रणे
त्रिशिरसा
सह ।
खरस्याप्यभवत्
त्रासो
दृष्ट्वा
रामस्य
विक्रमम् ॥ १ ॥
स
दृष्ट्वा
राक्षसं
सैन्यमविषह्यं
महाबलः ।
हतमेकेन
रामेण
त्रिशिरोदूषणावपि ॥ २ ॥
तद्बलं
हतभूयिष्ठं
विमनाः
प्रेक्ष्य
राक्षसः ।
आससाद
खरो
रामं
नमुचिर्वासवं
यथा ॥ ३ ॥
विकृष्य
बलवच्चापं
नाराचान्
रक्तभोजनान् ।
खरश्चिक्षेप
रामाय
क्रुद्धानाशीविषानिव ॥ ४ ॥
ज्यां
विधून्वन्
सुबहुशः
शिक्षयास्त्राणि
दर्शयन् ।
चकार
समरे
मार्गान्
शरै
रथगतः
खरः ॥ ५ ॥
स
सर्वाश्च
दिशो
बाणैः
प्रदिशश्च
महारथः ।
पूरयामास
तं
दृष्ट्वा
रामोऽपि
सुमहद्धनुः ॥ ६ ॥
स
सायकैर्दुर्विषहैः
सस्फुलिङ्गैरिवाग्निभिः ।
नभश्चकाराविवरं
पर्जन्य
इव
वृष्टिभिः ॥ ७ ॥
तद्बभूव
शितैर्बाणैः
खररामविसर्जितैः ।
पर्याकाशमनाकाशं
सर्वतः
शरसङ्कुलम् ॥ ८ ॥
शरजालावृतः
सूर्यो
न
तदा
स्म
प्रकाशते ।
अन्योन्यवधसंरम्भादुभयोः
सम्प्रयुद्ध्यतोः ॥ ९ ॥
ततो
नालीकनाराचैस्तीक्ष्णाग्रैश्च
विकर्णिभिः ।
आजघान
खरो
रामं
तौत्रैरिव
महाद्विपम् ॥ १० ॥
तं
रथस्थं
धनुष्पाणिं
राक्षसं
पर्यवस्थितम् ।
ददृशुः
सर्वभूतानि
पाशहस्तमिवान्तकम् ॥ ११ ॥
हन्तारं
सर्वसैन्यस्य
पौरुषे
पर्यवस्थितम् ।
परिश्रान्तं
महासत्त्वं
मेने
रामं
खरस्तदा ॥ १२ ॥
तं
सिंहमिव
विक्रान्तं
सिंहविक्रान्तगामिनम् ।
दृष्टवा
नोद्विजते
रामः
सिंहः
क्षुद्रमृगं
यथा ॥ १३ ॥
ततः
सूर्यनिकाशेन
रथेन
महता
खरः ।
आससाद
रणे
रामं
पतङ्ग
इव
पावकम् ॥ १४ ॥
ततोऽस्य
सशरं
चापं
मुष्टिदेशे
महात्मनः ।
खरश्चिच्छेद
रामस्य
दर्शयन्
पाणिलाघवम् ॥ १५ ॥
स
पुनस्त्वपरान्
सप्त
शरानादाय
वर्मणि ।
निजघान
खरः
क्रुद्धः
शक्राशनिसमप्रभान् ॥ १६ ॥
ततस्तत्प्रहतं
बाणैः
खरमुक्तैः
सुपर्वभिः ।
पपात
कवचं
भूमौ
रामस्यादित्यवर्चसः ॥ १७ ॥
ततः
शरसहस्रेण
राममप्रितमौजसम् ।
अर्दयित्वा
महानादं
ननाद
समरे
खरः ॥ १८ ॥
स
शरैरर्पितः
क्रुद्धः
सर्वगात्रेषु
राघवः ।
रराज
समरे
रामो
विधूमोऽग्निरिव
ज्वलन् ॥ १९ ॥
ततो
गम्भीरनिर्ह्रादं
रामः
शत्रुनिबर्हणः ।
चकारान्ताय
स
रिपोः
सज्यमन्यन्महद्धनुः ॥ २० ॥
सुमहद्वैष्णवं
यत्तदतिसृष्टं
महर्षिणा ।
वरं
तद्धनुरुद्यम्य
खरं
समभिधावत ॥ २१ ॥
ततः
कनकपुङ्खैस्तु
शरैः
सन्नतपर्वभिः ।
बिभेद
रामः
सङ्क्रुद्धः
खरस्य
समरे
ध्वजम् ॥ २२ ॥
स
दर्शनीयो
बहुधा
विकीर्णः
काञ्चनध्वजः ।
जगाम
धरणीं
सूर्यो
देवतानामिवाज्ञया ॥ २३ ॥
तं
चतुर्भिः
खरः
क्रद्धो
रामं
गात्रेषु
मार्गणैः ।
विव्याध
युधि
मर्मज्ञो
मातङ्गमिव
तोमरैः ॥ २४ ॥
स
रामो
बहुभिर्बाणैः
खरकार्मुकनिस्सृतैः ।
विद्धो
रुधिरसिक्ताङ्गो
बभूव
रुषितो
भृशम् ॥ २५ ॥
स
धनुर्धन्विनां
श्रेष्ठः
प्रगृह्य
परमाहवे ।
मुमोच
परमेष्वासः
षट्
शरानभिलक्षितान् ॥ २६ ॥
शिरस्येकेन
बाणेन
द्वाभ्यां
बाह्वोरथार्दयत् ।
त्रिभिश्चन्द्रार्धवक्त्रैश्च
वक्ष्यस्यभिजघान
ह ॥ २७ ॥
ततः
पश्चान्महातेजा
नाराचान्
भास्करोपमान् ।
जिघांसू
राक्षसं
क्रुद्धस्त्रयोदश
समाददे ॥ २८ ॥
ततोऽस्य
युगमेकेन
चतुर्भिश्चतुरो
हयान् ।
षष्ठेन
तु
शिरः
सङ्ख्ये
खरस्य
रथसारथेः ॥ २९ ॥
त्रिभिस्त्रिवेणुं
बलवान्
द्वाभ्यामक्षं
महाबलः ।
द्वादशेन
तु
बाणेन
खरस्य
सशरं
धनुः ॥ ३० ॥
छित्त्वा
वज्रनिकाशेन
राघवः
प्रहसन्निव ।
त्रयोदशेनेन्द्रसमो
बिभेद
समरे
खरम् ॥ ३१ ॥
प्रभग्नधन्वा
विरथो
हताश्वो
हतसारथिः ।
गदापाणिरवप्लुत्य
तस्थौ
भूमौ
खरस्तदा ॥ ३२ ॥
तत्कर्म
रामस्य
महारथस्य
समेत्य
देवाश्च
महर्षयश्च ।
अपूजयन्
प्राञ्जलयः
प्रहृष्टास्तदा
विमानाग्रगताः
समेताः ॥ ३३ ॥