खरं
तु
विरथं
रामो
गदापाणिमवस्थितम् ।
मृदुपूर्वं
महातेजाः
परुषं
वाक्यमब्रवीत् ॥ १ ॥
गजाश्वरथसम्बाधे
बले
महति
तिष्ठता ।
कृतं
सुदारुणं
कर्म
सर्वलोकजुगुप्सितम् ॥ २ ॥
उद्वेजनीयो
भूतानां
नृशंसः
पापकर्मकृत् ।
त्रयाणामपि
लोकानामीश्वरोऽपि
न
तिष्ठति ॥ ३ ॥
कर्म
लोकविरुद्धं
तु
कुर्वाणं
क्षणदाचर ।
तीक्ष्णं
सर्वजनो
हन्ति
सर्पं
दुष्टमिवागतम् ॥ ४ ॥
लोभात्
पापानि
कुर्वाणः
कामाद्वा
यो
न
बुध्यते ।
भ्रष्टः
पश्यति
तस्यान्तं
ब्राह्मणी
करकादिव ॥ ५ ॥
वसतो
दण्डकारण्ये
तापसान्
धर्मचारिणः ।
किन्नु
हत्वा
महाभागान्
फलं
प्राप्स्यसि
राक्षस ॥ ६ ॥
न
चिरं
पापकर्माणः
क्रूरा
लोकजुगुप्सिताः ।
ऐश्वर्यं
प्राप्य
तिष्ठन्ति
शीर्णमूला
इव
द्रुमाः ॥ ७ ॥
अवश्यं
लभते
जन्तुः
फलं
पापस्य
कर्मणः ।
घोरं
पर्यागते
काले
द्रुमाः
पुष्पमिवार्तवम् ॥ ८ ॥
नचिरात्
प्राप्यते
लोके
पापानां
कर्मणां
फलम् ।
सविषाणामिवान्नानां
भुक्तानां
क्षणदाचर ॥ ९ ॥
पापमाचरतां
घोरं
लोकस्याप्रियमिच्छताम् ।
अहमासादितो
राज्ञा
प्राणान्
हन्तु
निशाचर ॥ १० ॥
अद्य
हि
त्वां
मया
मुक्ताः
शराः
काञ्चनभूषणाः ।
विदार्य
निपतिष्यन्ति
वल्मीकमिव
पन्नगाः ॥ ११ ॥
ये
त्वया
दण्डकारण्ये
भक्षिता
धर्मचारिणः ।
तानद्य
निहतः
सङ्ख्ये
ससैन्योऽनुगमिष्यसि ॥ १२ ॥
अद्य
त्वां
पतितं
बाणैः
पश्यन्तु
परमर्षयः ।
निरयस्थं
विमानस्था
ये
त्वया
हिंसिताः
पुरा ॥ १३ ॥
प्रहर
त्वं
यथाकामं
कुरु
यत्नं
कुलाधम ।
अद्य
ते
पातयिष्यामि
शिरस्तालफलं
यथा ॥ १४ ॥
एवमुक्तस्तु
रामेण
क्रुद्धः
संरक्तलोचनः ।
प्रत्युवाच
खरो
रामं
प्रहसन्
क्रोधमूर्च्छितः ॥ १५ ॥
प्राकृतान्
राक्षसान्
हत्वा
युद्धे
दशरथात्मज ।
आत्मना
कथमात्मानमप्रशस्यं
प्रशंससि ॥ १६ ॥
विक्रान्ता
बलवन्तो
वा
ये
भवन्ति
नरर्षभाः ।
कथयन्ति
न
ते
किञ्चित्तेजसा
स्वेन
गर्विताः ॥ १७ ॥
प्राकृतास्त्वकृतात्मानो
लोके
क्षत्त्रियपांसनाः ।
निरर्थकं
विकत्थन्ते
यथा
राम
विकत्थसे ॥ १८ ॥
कुलं
व्यपदिशन्
वीरः
समरे
कोऽभिधास्यति ।
मृत्युकाले
हि
सम्प्राप्ते
स्वयमप्रस्तवे
स्तवम् ॥ १९ ॥
सर्वथैव
लघुत्वं
ते
कत्थनेन
विदर्शितम् ।
सुवर्णप्रतिरूपेण
तप्तेनेव
कुशाग्निना ॥ २० ॥
न
तु
मामिह
तिष्ठन्तं
पश्यसि
त्वं
गदाधरम् ।
धराधरमिवाकम्प्यं
पर्वतं
धातुभिश्चितम् ॥ २१ ॥
पर्याप्तोऽहं
गदापाणिर्हन्तुं
प्राणान्
रणे
तव ।
त्रयाणामपि
लोकानां
पाशहस्त
इवान्तकः ॥ २२ ॥
कामं
बह्वपि
वक्तव्यं
त्वयि
वक्ष्यामि
न
त्वहम् ।
अस्तं
गच्छेद्धि
सविता
युद्धविघ्नस्ततो
भवेत् ॥ २३ ॥
चतुर्दश
सहस्त्राणि
राक्षसानां
हतानि
ते ।
त्वद्विनाशात्
करोम्येष
तेषामश्रुप्रमार्जनम् ॥ २४ ॥
इत्युक्त्वा
परमक्रुद्धस्तां
गदां
परमाङ्गदः ।
खरश्चिक्षेप
रामाय
प्रदीप्तामशनिं
यथा ॥ २५ ॥
खरबाहुप्रमुक्ता
सा
प्रदीप्ता
महती
गदा ।
भस्म
वृक्षांश्च
गुल्मांश्च
कृत्वागात्तत्समीपतः ॥ २६ ॥
तामापतन्तीं
ज्वलितां
मृत्युपाशोपमां
गदाम् ।
अन्तरिक्षगतां
रामश्चिच्छेद
बहुधा
शरैः ॥ २७ ॥
सा
विकीर्णा
शरैर्भग्ना
पपात
धरणीतले ।
गदा
मन्त्रौषधबलैर्व्यालीव
विनिपातिता ॥ २८ ॥