भित्त्वा
तु
तां
गदां
बाणै
राघवो
धर्मवत्सलः ।
स्मयमानः
खरं
वाक्यं
संरब्धमिदमब्रवीत् ॥ १ ॥
एतत्ते
बलसर्वस्वं
दर्शितं
राक्षसाधम ।
शक्तिहीनतरो
मत्तो
वृथा
त्वमवगर्जसि ॥ २ ॥
एषा
बाणविनिर्भिन्ना
गदा
भूमितलं
गता ।
अभिधानप्रगल्भस्य
तव
प्रत्यरिघातिनी ॥ ३ ॥
यत्त्वयोक्तं
विनष्टानामहमश्रुप्रमार्जनम् ।
राक्षसानां
करोमीति
मिथ्या
तदपि
ते
वचः ॥ ४ ॥
नीचस्य
क्षुद्रशीलस्य
मिथ्यावृत्तस्य
रक्षसः ।
प्राणानपहरिष्यामि
गरुत्मानमृतं
यथा ॥ ५ ॥
अद्य
ते
छिन्नकण्ठस्य
फेनबुद्बुदभूषितम् ।
विदारितस्य
मद्बाणैर्मही
पास्यति
शोणितम् ॥ ६ ॥
पांसुरूषितसर्वाङ्गः
स्रस्तन्यस्तभुजद्वयः ।
स्वप्स्यसे
गां
समालिङ्ग्य
दुर्लभां
प्रमदामिव ॥ ७ ॥
प्रवृद्धनिद्रे
शयिते
त्वयि
राशक्षसपांसने ।
भविष्यन्त्यशरण्यानां
शरण्या
दण्डका
इमे ॥ ८ ॥
जनस्थाने
हतस्थाने
तव
राक्षस
मच्छरैः ।
निर्भया
विचरिष्यन्ति
सर्वतो
मुनयो
वने ॥ ९ ॥
अद्य
विप्रसरिष्यन्ति
राक्षस्यो
हतबान्धवाः ।
बाष्पार्द्रवदना
दीना
भयादन्यभयावहाः ॥ १० ॥
अद्य
शोकरसज्ञास्ता
भविष्यन्ति
निरर्थकाः ।
अनुरूपकुलाः
पत्न्यो
यासां
त्वं
पतिरीदृशः ॥ ११ ॥
नृशंस
नीच
क्षुद्रात्मन्नित्यं
ब्राह्मणकण्टक ।
यत्कृते
शङ्कितैरर्ग्नौ
मुनिभिः
पात्यते
हविः ॥ १२ ॥
तमेवमभिसंरब्धं
ब्रुवाणं
राघवं
रणे ।
खरो
निर्भर्त्सयामास
रोषात्खरतरस्वनः ॥ १३ ॥
दृढं
खल्ववलिप्तोऽसि
भयेष्वपि
च
निर्भयः ।
वाच्यावाच्यं
ततो
हि
त्वं
मृत्युवश्यो
न
बुद्ध्यसे ॥ १४ ॥
कालपाशपरिक्षिप्ता
भवन्ति
पुरुषा
हि
ये ।
कार्याकार्यं
न
जानन्ति
ते
निरस्तषडिन्द्रियाः ॥ १५ ॥
स
ददर्श
महासालमविदूरे
निशाचरः ।
रणे
प्रहरणस्यार्थे
सर्वतो
ह्यवलोकयन् ॥ १६ ॥
स
तमुत्पाटयामास
सन्दश्य
दशनच्छदम् ।
तं
समुत्क्षिप्य
बाहुभ्यां
विनद्य
च
महाबलः ॥ १७ ॥
राममुद्दिश्य
चिक्षेप
हतस्त्वमिति
चाब्रवीत् ।
तमापतन्तं
बाणौघैश्छित्त्वा
रामः
प्रतापवान् ॥ १८ ॥
रोषमाहारयत्तीव्रं
निहन्तुं
समरे
खरम् ।
जातस्वेदस्ततो
रामो
रोषाद्रक्तान्तलोचनः ॥ १९ ॥
निर्बिभेद
सहस्रेण
बाणानां
समरे
खरम् ।
तस्य
बाणान्तराद्रक्तं
बहु
सुस्राव
फेनिलम् ॥ २० ॥
गिरेः
प्रस्रवणस्येव
तोयधारावरिस्रवः ।
विह्वलः
स
कृतो
बाणैः
खरो
रामेण
संयुगे ॥ २१ ॥
मत्तो
रुधिरगन्धेन
तमेवाभ्यद्रवद्द्रुतम् ।
तमापतन्तं
संरब्धं
कृतास्त्रो
रुधिराप्लुतम् ॥ २२ ॥
अपासर्पत्
प्रतिपदं
किञ्चित्त्वरितविक्रमः ।
ततः
पावकसङ्काशं
वधाय
समरे
शरम् ॥ २३ ॥
खरस्य
रामो
जग्राह
ब्रह्मदण्डमिवापरम् ।
स
तं
दत्तं
मघवता
सुरराजेन
धीमता ॥ २४ ॥
सन्दधे
चापि
धर्मात्मा
मुमोच
च
खरं
प्रति ।
स
विमुक्तो
महाबाणो
निर्घातसमनिस्वनः ॥ २५ ॥
रामेण
धनुरायम्य
खरस्योरसि
चापतत् ।
स
पपात
खऱो
भूमौ
दह्यमानः
शराग्निना ॥ २६ ॥
रुद्रेणेव
विनिर्दग्धः
श्वेतारण्ये
यथान्तकः ।
स
वृत्र
इव
वज्रेण
फेनेन
नमुचिर्यथा ॥ २७ ॥
बलो
वेन्द्राशनिहतो
निपपात
हतः
खरः ।
ततो
राजर्षयः
सर्वे
सङ्गताः
परमर्षयः ॥ २८ ॥
सभाज्य
मुदिता
राममिदं
वचनमब्रुवन् ।
एतदर्थं
महातेजा
महेन्द्रः
पाकशासनः ॥ २९ ॥
शरभङ्गाश्रमं
पुण्यमाजगाम
पुरन्दरः ।
आनीतस्त्वमिमं
देशमुपायेन
महर्षिभिः ॥ ३० ॥
एषां
वधार्थं
क्रूराणां
रक्षसां
पापकर्मणाम् ।
तदिदं
नः
कृतं
कार्यं
त्वया
दशरथात्मज ॥ ३१ ॥
सुखं
धर्मं
चरिष्यन्ति
दण्डकेषु
महर्षयः ।
दुन्दुभींश्चाभिनिघ्नन्तः
पुष्पवर्षं
समन्ततः ॥ ३२ ॥
रामस्योपरि
संहृष्टा
ववृषुर्विस्मितास्तदा ।
अर्धाधिकमुहूर्तेन
रामेण
निशितैः
शरैः ॥ ३३ ॥
चतुर्दशसहस्राणिरक्षसां
भीमकर्मणाम् ।
खरदूषणमुख्यानां
निहतानि
महाहवे ॥ ३४ ॥
अहो
बत
महत्
कर्म
रामस्य
विदितात्मनः ।
अहो
वीर्यमहो
दाक्ष्यं
विष्णोरिव
हि
दृश्यते ॥ ३५ ॥
इत्येवमुक्त्वा
ते
सर्वे
ययुर्देवा
यथागतम् ।
एतस्मिन्नन्तरे
वीरो
लक्ष्मणः
सह
सीतया ॥ ३६ ॥
गिरिदुर्गाद्विनिष्क्रम्य
संविवेशाश्रमं
सुखी ।
ततो
रामस्तु
विजयीपूज्यमानो
महर्षिभिः ॥ ३७ ॥
प्रविवेशाश्रमं
वीरो
लक्ष्मणेनाभिपूजितः ।
तं
दृष्ट्वा
शत्रुहन्तारं
महर्षीणां
सुखावहम् ॥ ३८ ॥
बभूव
हृष्टा
वैदेही
भर्तारं
परिषस्वजे ।
मुदा
परमया
युक्ता
दृष्ट्वा
रक्षोगणान्
हतान् ॥ ३९ ॥
रामं
चैवाव्यथं
दृष्ट्वा
तुतोष
जनकात्मजा ।
ततस्तु
तं
राक्षससङ्घमर्दनं
सभाज्यमानं
मुदितैर्महर्षिभिः ॥ ४० ॥
पुनः
परिष्वज्य
शशिप्रभानना
बभूव
हृष्टा
जनकात्मजा
तदा ॥ ४१ ॥