ततः
शूर्पणखा
दीना
रावणं
लोकरावणम् ।
आमात्यमध्ये
सङ्क्रुद्धा
परुषं
वाक्यमब्रवीत् ॥ १ ॥
प्रमत्तः
कामभोगेषु
स्वैरवृतो
निरङ्कुशः ।
समुत्पन्नं
भयं
घोरं
बोद्धव्यं
नावबुद्ध्यसे ॥ २ ॥
सक्तं
ग्राम्येषु
भोगेषु
कामवृत्तं
महीपतिम् ।
लुब्धं
न
बहुमन्यन्ते
श्मशानाग्निमिव
प्रजाः ॥ ३ ॥
स्वयं
कार्याणि
यः
काले
नानुतिष्ठति
पार्थिवः ।
स
तु
वै
सह
राज्येन
तैश्च
कार्यैर्विनश्यति ॥ ४ ॥
अयुक्तचारं
दुर्दर्शमस्वाधीनं
नराधिपम् ।
वर्जयन्ति
नरा
दूरान्नदीपङ्कमिव
द्विपाः ॥ ५ ॥
ये
न
रक्षन्ति
विषयमस्वाधीना
नराधिपाः ।
ते
न
वृद्ध्या
प्रकाशन्ते
गिरयः
सागरे
यथा ॥ ६ ॥
आत्मवद्भिर्विगृह्य
त्वं
देवगन्धर्वदानवैः ।
अयुक्तचारश्चपलः
कथं
राजा
भविष्यसि ॥ ७ ॥
त्वं
तु
बालस्वभावश्च
बुद्धिहीनश्च
राक्षस ।
ज्ञातव्यं
तु
न
जानीषे
कथं
रजा
भविष्यसि ॥ ८ ॥
येषां
चारश्च
कोशश्च
नयश्च
जयतां
वर ।
अस्वाधीना
नरेन्द्राणां
प्राकृतैस्ते
जनैः
समाः ॥ ९ ॥
यस्मात्
पश्यन्ति
दूरस्थान्
सर्वानर्थान्नराधिपाः ।
चारेण
तस्मादुच्यन्ते
राजानो
दीर्घचक्षुषः ॥ १० ॥
अयुक्तचारं
मन्ये
त्वां
प्राकृतैः
सचिवैर्वृतम् ।
स्वजनं
तु
जनस्थानं
हतं
यो
नावबिद्ध्यसे ॥ ११ ॥
चतुर्दश
सहस्राणि
रक्षसां
क्रूरकर्मणाम् ।
हतान्येकेन
रामेण
खरश्च
सहदूषणः ॥ १२ ॥
ऋषीणामभयं
दत्तं
कृतक्षेमाश्च
दण्डकाः ।
धर्षितं
च
जनस्थानं
रामेणाक्लिष्टकर्मणा ॥ १३ ॥
त्वं
तु
लुब्धः
प्रमत्तश्च
पराधीनश्च
रावण ।
विषये
स्वे
समुत्पन्नं
भयं
यो
नावबुद्ध्यसे ॥ १४ ॥
तीक्ष्णमल्पप्रदातारं
प्रमत्तं
गर्वितं
शठम् ।
व्यसने
सर्वभूतानि
नाभिधावन्ति
पार्थिवम् ॥ १५ ॥
अतिमानिनमग्राह्यमात्मसम्भावितं
नरम् ।
क्रोधिनं
व्यसने
हन्ति
स्वजनोऽपि
महीपतिम् ॥ १६ ॥
नानुतिष्ठति
कार्याणि
भयेषु
न
बिभेति
च ।
क्षिप्रं
राज्याच्च्युतो
दीनस्तृणैस्तुल्यो
भविष्यति ॥ १७ ॥
शुष्कैः
काष्ठैर्भवेत्
कार्यं
लोष्ठैरपि
च
पांसुभिः ।
न
तु
स्थानात्
परिभ्रष्टैः
कार्यं
स्याद्वसुधाधिपैः ॥ १८ ॥
उपभुक्तं
यथा
वासस्स्रजो
वा
मृदिता
यथा ।
एवं
राज्यात्
परिभ्रष्टः
समर्थोऽपि
निरर्थकः ॥ १९ ॥
अप्रमत्तश्च
यो
राजा
सर्वज्ञो
विजितेन्द्रियः ।
कृतज्ञो
धर्मशीलश्च
स
राजा
तिष्ठते
चिरम् ॥ २० ॥
नयनाभ्यां
प्रसुप्तोपि
जागर्ति
नयचक्षुषा ।
व्यक्तक्रोधप्रसादश्च
स
राजा
पूज्यते
जनैः ॥ २१ ॥
त्वं
तु
रावण
दुर्बुद्धिर्गुणैरेतैर्विवर्जितः ।
यस्य
तेऽविदितश्चारै
रक्षसां
समुहान्
वधः ॥ २२ ॥
परावमन्ता
विषयेषु
सङ्गतो
नदेशकालप्रविभागतत्त्ववित् ।
अयुक्तबुद्धिर्गुणदोषनिश्चये
विपन्नराज्यो
न
चिराद्विपत्स्यसे ॥ २३ ॥
इति
स्वदोषान्
परिकीर्तितांस्तया
समीक्ष्य
बुद्ध्या
क्षणदाचरेश्वरः ।
धनेन
दर्पेण
बलेन
चान्वितो
विचिन्तयामास
चिरं
स
रावणः ॥ २४ ॥