ततः
शूर्पणखां
क्रुद्धां
ब्रुवन्तीं
परुषं
वचः ।
अमात्यमध्ये
सङ्क्रुद्धः
परिपप्रच्छ
रावणः ॥ १ ॥
कश्च
रामः
कथंवीर्यः
किंरूपः
किम्पराक्रमः ।
किमर्थं
दण्डकारण्यं
प्रविष्टः
स
दुरासदम् ॥ २ ॥
आयुधं
किञ्च
रामस्य
निहता
येन
राक्षसाः ।
खरश्च
निहतः
सङ्ख्ये
दूषणस्त्रिशिरास्तथा ॥ ३ ॥
इत्युक्ता
राक्षसेन्द्रेण
राक्षसी
क्रोधमूर्च्छिता ।
ततो
रामं
यथातत्त्वमाख्यातुमुपचक्रमे ॥ ४ ॥
दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः ।
कन्दर्पसमरूपश्च
रामो
दशरथात्मजः ॥ ५ ॥
शक्रचापनिभं
चापं
विकृष्य
कनकाङ्गदम् ।
दीप्तान्
क्षिपति
नाराचान्
सर्पानिव
महाविषान् ॥ ६ ॥
नाददानं
शरान्
घोरान्न
मुञ्चन्तं
शिलीमुखान् ।
न
कार्मुकं
विकर्षन्तं
रामं
पश्यामि
संयुगे ॥ ७ ॥
हन्यमानं
तु
तत्सैन्यं
पश्यामि
शरवृष्टिभिः ।
इन्द्रेणोवोत्तमं
सस्यमाहतं
त्वश्मवृष्टिभिः ॥ ८ ॥
रक्षसां
भीमरूपाणां
सहस्राणि
चतुर्दश ।
निहतानि
शरैस्तीक्ष्णैस्तेनैकेन
पदातिना ॥ ९ ॥
अर्धाधिकमुहूर्तेन
खरश्च
सहदूषणः ।
ऋषीणामभयं
दत्तं
कृतक्षेमाश्च
दण्डकाः ॥ १० ॥
एका
कथञ्चिन्मुक्ताहं
परिभूय
महात्मना ।
स्त्रीवधं
शङ्कमानेन
रामेण
विदितात्मना ॥ ११ ॥
भ्राता
चास्य
महातेजा
गुणतस्तुल्यविक्रमः ।
अनुरक्तश्च
भक्तश्च
लक्ष्मणो
नाम
वीर्यवान् ॥ १२ ॥
अमर्षी
दुर्जयो
जेता
विक्रान्तो
बुद्धिमान्
बली ।
रामस्य
दक्षिणो
बाहुर्नित्यं
प्राणो
बहिश्चरः ॥ १३ ॥
राम्सय
तु
विशालाक्षी
पूर्णेन्दुसदृशानना ।
धर्मपत्नी
प्रिया
भर्तुर्नित्यं
प्रियहिते
रता ॥ १४ ॥
सा
सुकेशी
सुनासोरुः
सुरूपा
च
यशस्विनी ।
देवतेव
वनस्यास्य
राजते
श्रीरिवापरा ॥ १५ ॥
तप्तकाञ्चनवर्णाभा
रक्ततुङ्गनखी
शुभा ।
सीता
नाम
वरारोहा
वैदेही
तनुमध्यमा ॥ १६ ॥
नैव
दैवी
न
गन्धर्वी
न
यक्षी
न
च
किन्नरी ।
नैवंरूपा
मया
नारी
दृष्टपूर्वा
महीतले ॥ १७ ॥
यस्य
सीता
भवेद्भार्या
यं
च
हृष्टा
परिष्वजेत् ।
अतिजीवेत्
स
सर्वेषु
लोकेष्वपि
पुरन्दरात् ॥ १८ ॥
सा
सुशीला
वपुःश्लाध्या
रूपेणाप्रतिमा
भुवि ।
तवानुरूपा
भार्या
स्यात्त्वं
च
तस्यास्तथा
पतिः ॥ १९ ॥
भार्यार्थे
च
तवानेतुमुद्यताहं
वराननाम् ।
विरूपिताऽस्मि
क्रूरेण
लक्ष्मणेन
महाभुज ॥ २० ॥
तां
तु
दृष्ट्वाद्य
वैदेहीं
पूर्णचन्द्रनिभाननाम् ।
मन्मथस्य
शराणां
वै
त्वं
विधेयो
भविष्यसि ॥ २१ ॥
यदि
तस्यामभिप्रायो
भार्यार्थे
तव
जायते ।
शीघ्रमुद्ध्रियतां
पादो
जयार्थमिह
दक्षिणः ॥ २२ ॥
कुरु
प्रियं
तथा
तेषां
रक्षसां
राक्षसेश्वर ।
वधात्तस्य
नृशंसस्य
रामस्याश्रमवासिनः ॥ २३ ॥
तं
शरैर्निशितैर्हत्वा
लक्ष्मणं
च
महारथम् ।
हतनाथां
सुखं
सीतां
यथावदुपभोक्ष्यसि ॥ २४ ॥
रोचते
यदि
ते
वाक्यं
ममैतद्राक्षसेश्वर ।
क्रियतां
निर्विशङ्केन
वचनं
मम
रावण ॥ २५ ॥
विज्ञायेहात्मशक्तिं
च
ह्रियतामबला
बलात् ।
सीता
सर्वानवद्याङ्गी
भार्यार्थे
राक्षसेश्वर ॥ २६ ॥
निशम्य
रामेण
शरैरजिह्मगैर्हतान्
जनस्थानगतान्निशाचरान् ।
खरं
च
बुध्वा
निहतं
च
दूषणं
त्वमत्र
कृत्यं
प्रतिपत्तुमर्हसि ॥ २७ ॥