ततः
शूर्पणखावाक्यं
तच्छ्रुत्वा
रोमहर्षणम् ।
सचिवानभ्यनुज्ञाय
कार्यं
बुध्वा
जगाम
सः ॥ १ ॥
तत्कार्यमनुगम्याथ
यथावदुपलभ्य
च ।
दोषाणां
च
गुणानां
च
सम्प्रधार्य
बलाबलम् ॥ २ ॥
इतिकर्तव्यमित्येव
कृत्वा
निश्चयमात्मनः ।
स्थिरबुद्धिस्ततो
रम्यां
यानशालां
जगाम
ह ॥ ३ ॥
यानशालां
ततो
गत्वा
प्रच्छन्नो
राक्षसाधिपः ।
सूतं
सञ्चोदयामास
रथः
संयोज्यतामिति ॥ ४ ॥
एवमुक्तः
क्षणेनैव
सारथिर्लघुविक्रमः ।
रथं
संयोजयामास
तस्याभिमतमुत्तमम् ॥ ५ ॥
काञ्चनं
रथमास्थाय
कामगं
रत्नभूषितम् ।
पिशाचवदनैर्युक्तं
खरैः
काञ्चनभूषणैः ॥ ६ ॥
मेघप्रतिमनादेन
स
तेन
धनदामुजः ।
राक्षसाधिपतिः
श्रीमान्
ययौ
नदनदीपतिम् ॥ ७ ॥
स
श्वेतवालव्यजनः
श्वेतच्छत्त्रो
दशाननः ।
स्निग्धवैडूर्यसङ्काशस्तप्तकाञ्चनकुण्डलः ॥ ८ ॥
विंशद्भुजो
दशग्रीवो
दर्शनीयपरिच्छदः ।
त्रिदशारिर्मुनीन्द्रघ्नो
दशशीर्ष
इवाद्रिराट् ॥ ९ ॥
कामगं
रथमास्थाय
शुशुभे
राक्षसेश्वरः ।
विद्युन्मण्डलवान्
मेघः
सबलाक
इवाम्बरे ॥ १० ॥
सशैलं
सागरानूपं
वीर्यवानवलोकयन् ।
नानापुष्पफलैर्वृक्षैरनुकीर्णं
सहस्रशः ॥ ११ ॥
शीतमङ्गलतोयाभिः
पद्मिनीभिः
समन्ततः ।
विशालैराश्रमपदैर्वेदिमद्भिः
समावृतम् ॥ १२ ॥
कदल्याढकिसम्बाधं
नालिकेरोपशोभितम् ।
सालैस्तालैस्तमालैश्च
पुष्पितैस्तरुभिर्वृतम् ॥ १३ ॥
नागैः
सुपर्णैर्गन्धर्वैः
किन्नरैश्च
सहस्रशः ।
अजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः ॥ १४ ॥
अत्यन्तनियताहारैः
शोभितं
परमर्षिभिः ।
जितकामैश्च
सिद्धैश्च
चारणैरुपशोभितम् ॥ १५ ॥
दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् ।
क्रीडारतिविधिज्ञाभिरप्सरोभिः
सहस्रशः ॥ १६ ॥
सेवितं
देवपत्नीभिः
श्रीमतीभिः
श्रिया
वृतम् ।
देवदानवसङ्घैश्च
चरितं
त्वमृताशिभिः ॥ १७ ॥
हंसक्रौञ्चप्लवाकीर्णं
सारसैः
सम्प्रणादितम् ।
वैडूर्यप्रस्तरं
रम्यं
स्निग्धं
सागरतेजसा ॥ १८ ॥
पाण्डराणि
विशालानि
दिव्यमाल्ययुतानि
च ।
तूर्यगीताभिजुष्टानि
विमानानि
समन्ततः ॥ १९ ॥
तपसा
जितलोकानां
कामगान्यभिसम्पतन् ।
गन्धर्वाप्सरसश्चैव
ददर्श
धनदानुजः ॥ २० ॥
निर्यासरसमूलानां
चन्दनानां
सहस्रशः ।
वनानि
पश्यन्
सौम्यानि
घ्राणतृप्तिकराणि
च ॥ २१ ॥
अगरूणां
च
मुख्यानां
वनान्युपवनानि
च ।
तक्कोलानां
च
जात्यनां
फलानां
च
सुगन्धिनाम् ॥ २२ ॥
पुष्पणि
च
तमालस्य
गुल्मानि
मरिचस्य
च ।
मुक्तानां
च
समूहानि
शुष्यमाणानि
तीरतः ॥ २३ ॥
शङ्खानां
प्रस्तरं
चैव
प्रवालनिचयं
तथा ।
काञ्चनानि
च
शैलानि
राजतानि
च
सर्वशः ॥ २४ ॥
प्रस्रवाणि
मनोज्ञानि
प्रसन्नानि
ह्रदानि
च ।
धनधान्योपपन्नानि
स्त्रीरत्नैः
शोभितानि
च ॥ २५ ॥
तं
समं
सर्वतः
स्निग्धं
मृदुसंस्पर्शमारुतम् ।
अनूपं
सिन्धुराजस्य
ददर्श
त्रिदिवोपमम् ॥ २६ ॥
तत्रापश्यत्स
मेघाभं
न्यग्रोधमृषिभिर्वृतम् ।
समन्ताद्यस्य
ताः
शाखाः
शतयोजनमायताः ॥ २७ ॥
यस्य
हस्तिनमादाय
महाकायं
च
कच्छपम् ।
भक्षार्थं
गरुडः
शाखामाजगाम
महाबलः ॥ २८ ॥
तस्य
तां
सहसा
शाखां
भारेण
पतगोत्तमः ।
सुपर्णः
पर्णबहुलां
बभञ्ज
च
महाबलः ॥ २९ ॥
तत्र
वैखानसा
माषा
वालखिल्या
मरीचिपाः ।
अजा
बभूवुर्धूम्राश्च
सङ्गताः
परमर्षयः ॥ ३० ॥
तेषां
दयार्थं
गरुडस्तां
शाखां
शतयोजनाम् ।
जगामादाय
वेगेन
तौ
चौभौ
गजकच्छपौ ॥ ३१ ॥
एकपादेन
धर्मात्मा
भक्षयित्वा
तदामिषम् ।
निषादविषयं
हत्वा
शाखया
पतगोत्तमः ॥ ३२ ॥
प्रहर्षमतुलं
लेभे
मोक्षयित्वा
महामुनीन् ।
स
तेनैव
प्रहर्षेण
द्विगुणीकृतविक्रमः ॥ ३३ ॥
अमृतानयनार्थं
वै
चकार
मतिमान्
मतिम् ।
अयोजालानि
निर्मथ्य
भित्त्वा
रत्नमयं
गृहम् ॥ ३४ ॥
महेन्द्रभवनाद्गुप्तमाजहारामृतं
ततः ।
तं
महर्षिगणैर्जुष्टं
सुपर्णकृतलक्षणम् ॥ ३५ ॥
नाम्ना
सुभद्रं
न्यग्रोधं
ददर्श
धनदानुजः ।
तं
तु
गत्वा
परं
पारं
समुद्रस्य
नदीपतेः ॥ ३६ ॥
ददर्शाश्रममेकान्ते
रम्ये
पुण्ये
वनान्तरे ।
तत्र
कृष्णाजिनधरं
जटावल्कलधारिणम् ॥ ३७ ॥
ददर्श
नियताहारं
मारीचं
नाम
राक्षसम् ।
स
रावणः
समागम्य
विधिवत्तेन
रक्षसा ॥ ३८ ॥
मारीचेनार्चितो
राजा
सर्वकामैरमानुषैः ।
तं
स्वयं
पूजयित्वा
तु
भोजनेनोदकेन
च ॥ ३९ ॥
अर्थोपहितया
वाचा
मारीचो
वाक्यमब्रवीत् ।
कच्चित्
सुकुशलं
राजन्
लङ्कायां
राक्षसेश्वर ॥ ४० ॥
केनार्थेन
पुनस्त्वं
वै
तूर्णमेवमिहागतः ।
एवमुक्तो
महातेजा
मारीचेन
स
रावणः ॥ ४१ ॥
तं
तु
पश्चादिदं
वाक्यमब्रवीद्वाक्यकोविदः ॥ ४२ ॥