मारीच
श्रूयतां
तात
वचनं
मम
भाषतः ।
आर्तोऽस्मि
मम
चार्तस्य
भावन्
हि
परमा
गतिः ॥ १ ॥
जानीषे
त्वं
जनस्थाने
यथा
भ्राता
खरो
मम ।
दूषणश्च
महाबाहुः
स्वसा
शूर्पणखा
च
मे ॥ २ ॥
त्रिशिराश्च
महातेजा
राक्षसः
पिशिताशनः ।
अन्ये
च
बहवः
शूरा
लब्धलक्षा
निशाचराः ॥ ३ ॥
वसन्ति
मन्नियोगेन
नित्यवासं
च
राक्षसाः ।
बाधमाना
माहरण्ये
मुनीन्
वै
धर्मचारिणः ॥ ४ ॥
चतुर्दश
सहस्राणि
रक्षसां
भीमकर्मणाम् ।
शूराणां
लब्धलक्षाणां
खरचित्तानुवर्तिनाम् ॥ ५ ॥
सङ्गताः
परमायत्ता
रामेण
सह
संयुगे ।
नानाप्रहरणोपेताः
खरप्रमुखराक्षसाः ॥ ६ ॥
तेन
सञ्जातरोषेण
रामेण
रणमूर्द्धनि ।
अनुक्त्वा
परुषं
किञ्चिच्छरैर्व्यापारितं
धनुः ॥ ७ ॥
चतुर्दश
सहस्राणि
रक्षसामुग्रतेजसाम् ।
निहतानि
शरैस्तीक्ष्णैर्मानुषेण
पदातिना ॥ ८ ॥
खरश्च
निहतः
सङ्ख्ये
दूषणश्च
निपातितः ।
हतश्च
त्रिशिराश्चापि
निर्भया
दण्डकाः
कृताः ॥ ९ ॥
पित्रा
निरस्तः
क्रुद्धेन
सभार्यः
क्षीणजीवितः ।
स
हन्ता
तस्य
सैन्यस्य
रामः
क्षत्त्रियपांसनः ॥ १० ॥
दुःशीलः
कर्कशस्तीक्ष्णो
मूर्खो
लुब्धोऽजितेन्द्रियः ।
त्यक्तधर्मो
ह्यधर्मात्मा
भूतानामहिते
रतः ॥ ११ ॥
येन
वैरं
विनारण्ये
सत्त्वमाश्रित्य
केवलम् ।
कर्णनासापहरणाद्भगिनी
मे
विरुरिता ॥ १२ ॥
तस्य
भार्यां
जनस्थानात्
सीतां
सुरसुतोपमाम् ।
आनयिष्यामि
विक्रम्य
सहायस्तत्र
मे
भव ॥ १३ ॥
त्वया
ह्यहं
सहायेन
पार्श्वस्थेन
महाबल ।
भ्रातृभिश्च
सुरान्
युद्धे
समग्रान्नाभिचिन्तये ॥ १४ ॥
तत्सहायो
भव
त्वं
मे
समर्थो
ह्यसि
राक्षम ।
वीर्ये
युद्धे
च
दर्पे
च
न
ह्यस्ति
सदृशस्तव ॥ १५ ॥
उपायज्ञो
महान्
शूरः
सर्वमायाविशारदः ।
एतदर्थमहं
प्राप्तस्त्वत्समीपं
निशाचर ॥ १६ ॥
शृणु
तत्
कर्म
साहाय्ये
यत्कार्यं
वचनान्मम ।
सौवर्णस्त्वं
मृगो
भूत्वा
चित्रो
रजतबिन्दुभिः ॥ १७ ॥
आश्रमे
तस्य
रामस्य
सीतायाः
प्रमुखे
चर ।
त्वां
तु
निस्संशयं
सीता
दृष्ट्वा
तु
मृगरूपिणम् ॥ १८ ॥
गृह्यतामिति
भर्तारं
लक्ष्मणं
चाभिधास्यति ।
ततस्तयोरपाये
तु
शून्ये
सीतां
यथासुखम् ॥ १९ ॥
निराबाधो
हरिष्यामि
राहुश्चन्द्रप्रभामिव ।
ततः
पश्चात्सुखं
रामे
भार्याहरणकर्शिते ॥ २० ॥
विश्रब्धः
प्रहरिष्यामि
कृतार्थेनान्तरात्मना ।
तस्य
रामकथां
श्रुत्वा
मारीचस्य
महात्मनः ॥ २१ ॥
शष्कं
समभवद्वक्त्रं
परित्रस्तो
बभूव
सः ।
ओष्ठौ
परिलिहन्
शुष्कौ
नेत्रैरनिमिषैरिव ॥ २२ ॥
मृतभूत
इवार्तस्तु
रावणं
समुदैक्षत ।
स
रावणं
त्रस्तविषण्णचेता
महावने
रामपराक्रमज्ञः ॥ २३ ॥
कृताञ्जलिस्तत्त्वमुवाच
वाक्यं
हितं
च
तस्मै
हितमात्मनश्च ॥ २४ ॥