तच्छ्रुत्वा
राक्षसेन्द्रस्य
वाक्यं
वाक्यविशारदः ।
प्रत्युवाच
महाप्राज्ञो
मारीचो
राक्षसेश्वरम् ॥ १ ॥
सुलभाः
पुरुषा
राजन्
सततं
प्रियवादिनः ।
अप्रियस्य
तु
पथ्यस्य
वक्ता
श्रोता
च
दुर्लभः ॥ २ ॥
न
नूनं
बुद्ध्यसे
रामं
महावीर्यं
गुणोन्नतम् ।
अयुक्तचारश्चपलो
महेन्द्रवरुणोपमम् ॥ ३ ॥
अपि
स्वस्ति
भवेत्तात
सर्वेषां
भुवि
रक्षसाम् ।
अपि
रामो
न
सङ्क्रुद्धः
कुर्याल्लोकमराक्षसम् ॥ ४ ॥
अपि
ते
जीवितान्ताय
नोत्पन्ना
जनकात्मजा ।
अपि
सीतानिमित्तं
च
न
भवेद्व्यसनं
मम ॥ ५ ॥
अपि
त्वामीश्वरं
प्राप्य
कामवृत्तं
निरङ्कुशम् ।
न
विनश्येत्
पुरी
लङ्का
त्वया
सह
सराक्षसा ॥ ६ ॥
त्वद्विधः
कामवृत्तो
हि
दुःशीलः
पापमन्त्रितः ।
आत्मानं
स्वजनं
राष्ट्रं
स
राजा
हन्ति
दुर्मतिः ॥ ७ ॥
न
च
पित्रा
परित्यक्तो
नामर्यादः
कथञ्चन ।
न
लुब्धो
न
च
दुःशीलो
न
च
क्षत्त्रिपांसनः ॥ ८ ॥
न
च
धर्मगुणैर्हीनः
कौसल्यानन्दिवर्धनः ।
न
तीक्ष्णो
न
च
भूतानां
सर्वेषामहिते
रतः ॥ ९ ॥
वञ्चितं
पितरं
दृष्ट्वा
कैकेय्या
सत्यवादिनम् ।
करिष्यामीति
धर्मात्मा
तात
प्रव्रजितो
वनम् ॥ १० ॥
कैकेय्याः
प्रियकामार्थं
पितुर्दशरथस्य
च ।
हित्वा
राज्यं
च
भोगांश्च
प्रविष्टो
दण्डकावनम् ॥ ११ ॥
न
रामः
कर्कशस्तात
नाविद्वान्नाजितेन्द्रियः ।
अनृतं
दुःश्रुतं
चैव
नैव
त्वं
वक्तुमर्हसि ॥ १२ ॥
रामो
विग्रहवान्
धर्मः
साधुः
सत्यपराक्रमः ।
राजा
सर्वस्य
लोकस्य
देवानां
मघवानिव ॥ १३ ॥
कथं
त्वं
तस्य
वैदेहीं
रक्षितां
स्वेन
तेजसा ।
इच्छसि
प्रसभं
हर्तुं
प्रभामिव
विवस्वतः ॥ १४ ॥
शरार्चिषमनाधृष्यं
चापखड्गेन्धनं
रणे ।
रामाग्निं
सहसा
दीप्तं
न
प्रवेष्टुं
त्वमर्हसि ॥ १५ ॥
धनुर्व्यादितदीप्तास्यं
शरार्चिषममर्षणम् ।
चापपाशधरं
वीरं
शत्रुसैन्यप्रहारिणम् ॥ १६ ॥
राज्यं
सुखं
च
सन्त्यज्य
जीवितं
चेष्टमात्मनः ।
नात्यासादयितुं
तात
रामान्तकमिहार्हसि ॥ १७ ॥
अप्रमेयं
हि
तत्तेजो
यस्य
सा
जनकात्मजा ।
न
त्वं
समर्थस्तां
हर्तुं
रामचापाश्रयां
वने ॥ १८ ॥
तस्य
सा
नरसिंहस्य
सिंहोरस्कस्य
भामिनी ।
प्राणेभ्योऽपि
प्रियतरा
भार्या
नित्यमनुव्रता ॥ १९ ॥
न
सा
धर्षयितुं
शक्या
मैथिल्योजस्विनः
प्रिया ।
दीप्तस्येव
हुताशस्य
शिखा
सीता
सुमध्यमा ॥ २० ॥
किमुद्यममिमं
व्यर्थं
कृत्वा
ते
राक्षसाधिप ।
दृष्टश्चेत्त्वं
रणे
तेन
तदन्तं
तव
जीवितम् ॥ २१ ॥
जीवितं
च
सुखं
चैव
राज्यं
चैव
सुदुर्लभम् ।
यदीच्छसि
चिरं
भोक्तुं
मा
कृथा
रामविप्रियम् ॥ २२ ॥
स
सर्वैः
सचिवैः
सार्द्धं
विभीषणपुरोगमैः ।
मन्त्रयित्वा
तु
धर्मिष्ठैः
कृत्वा
निश्चयमात्मनः ॥ २३ ॥
आत्मनश्च
बलं
ज्ञात्वा
राघवस्य
च
तत्त्वतः ।
हिताहितं
विनिश्चित्य
क्षमं
त्वं
कर्तुमर्हसि ॥ २४ ॥
अहं
तु
मन्ये
तव
न
क्षमं
रणे
समागमं
कोसलराजसूनुना ।
इदं
हि
भूयः
शृणु
वाक्यमुत्तमं
क्षमं
च
युक्तं
च
निशाचरेश्वर ॥ २५ ॥