एवमस्मि
तदा
मुक्तः
कथञ्चित्तेन
संयुगे ।
इदानीमपि
यद्वृतं
तच्छृणुष्व
निरुत्तरम् ॥ १ ॥
राक्षसाभ्यामहं
द्वाभ्यामनिर्विण्णस्तथा
कृतः ।
सहितो
मृगरूपाभ्यां
प्रविष्टो
दण्डकावनम् ॥ २ ॥
दीप्तजिह्वो
महाकायस्तीक्ष्णदंष्ट्रो
महाबलः ।
व्यचरं
दण्डकारण्यं
मांसभक्षो
महामृगः ॥ ३ ॥
अग्निहोत्रेषु
तीर्थेषु
चैत्यवृक्षेषु
रावण ।
अत्यन्तघोरो
व्यचरं
तापसान्
सम्प्रधर्षयन् ॥ ४ ॥
निहत्य
दण्डकारण्ये
तापसान्
धर्मचारिणः ।
रुधिराणि
पिबंस्तेषां
तथा
मांसानि
भक्षयन् ॥ ५ ॥
ऋषिमांसाशनः
क्रूरस्त्रासयन्
वनगोचरान् ।
तथा
रुधिरमत्तोहं
विचरन्
धर्मदूषकः ॥ ६ ॥
आसादयं
तदा
रामं
तापसं
धर्मचारिणम् ।
वैदेहीं
च
महाभागां
लक्ष्मणं
च
महारथम् ॥ ७ ॥
तापसं
नियताहारं
सर्वभूतहिते
रतम् ।
सोऽहं
वनगतं
रामं
परिभूय
महाबलम् ॥ ८ ॥
तापसोऽयमिति
ज्ञात्वा
पूर्ववैरमनुस्मरन् ।
अभ्यधावं
हि
सङ्क्रुद्धस्तीक्ष्णशृङ्गो
मृगाकृतिः ॥ ९ ॥
तेन
मुक्तास्त्रयो
बाणाः
शिताः
शत्रुनिबर्हणाः ।
विकृष्य
बलवच्चापं
सुपर्णानिलनिस्वनाः ॥ १० ॥
ते
बाणा
वज्रसङ्काशाः
सुमुक्ता
रक्तभोजनाः ।
आजुग्मुः
सहिताः
सर्वे
त्रयः
सन्नतपर्वणः ॥ ११ ॥
पराक्रमज्ञो
रामस्य
शरो
दृष्टभयः
पुरा ।
समुद्भ्रान्तस्ततो
मुक्तस्तावुभौ
राक्षसौ
हतौ ॥ १२ ॥
शरेण
मुक्तो
रामस्य
कथञ्चित्प्राप्य
जीवितम् ।
इह
प्रव्राजितो
युक्तस्तापसोऽहं
समाहितः ॥ १३ ॥
वृक्षे
वृक्षे
च
पश्यामि
चीरकृष्णाजिनाम्बरम् ।
गृहीतधनुषं
रामं
पाशहस्तमिवान्तकम् ॥ १४ ॥
अपि
रामसहस्राणि
भूतः
पश्यामि
रावण ।
रामभूतमिदं
सर्वमरण्यं
प्रतिभाति
मे ॥ १५ ॥
राममेव
हि
पश्यामि
रहिते
राक्षसाधिप ।
दृष्ट्वा
स्वप्नगतं
राममुद्भ्रमामि
विचेतनः ॥ १६ ॥
रकारादीनि
नामानि
रामत्रस्तस्य
रावण ।
रत्नानि
च
रथाश्चैव
त्रासं
सञ्जनयन्ति
मे ॥ १७ ॥
अहं
तस्य
प्रभावज्ञो
न
युद्धं
तेन
ते
क्षमम् ।
बलिं
वा
नमुचिं
वापि
हन्याद्धि
रघुनन्दनः ॥ १८ ॥
रणे
रामेण
युद्ध्यस्व
क्षमां
वा
कुरु
राक्षस ।
न
ते
रामकथा
कार्या
यदि
मां
द्रष्टुमिच्छसि ॥ १९ ॥
बहवः
साधवो
लोके
युक्ता
धर्ममनुष्ठिताः ।
परेषामपराधेन
विनष्टाः
सपरिच्छदाः ॥ २० ॥
सोऽहं
तवापराधेन
विनश्येयं
निशाचर ।
कुरु
यत्ते
क्षमं
तत्त्वमहं
त्वा
नानुयामि
ह ॥ २१ ॥
रामश्च
हि
महातेजा
महासत्त्वो
महाबलः ।
अपि
राक्षसलोकस्य
न
भवेदन्तकोऽपि
सः ॥ २२ ॥
यदि
शूर्पणखाहेतोर्जनस्थानगतः
खरः ।
अतिवृत्तो
हतः
पूर्वं
रामेणाक्लिष्टकर्मणा ॥ २३ ॥
अत्र
ब्रूबि
यथातत्त्वं
को
रामस्य
व्यतिक्रमः ।
इदं
वचो
बन्धुहितार्थिना
मया
यथोच्यमानं
यदि
नाभिपत्स्यसे ॥ २४ ॥
सबान्धवस्त्यक्ष्यसि
जीवितं
रणे
हतोऽद्य
रामेण
शरैरजिह्मगैः ॥ २५ ॥