मारीचेन
तु
तद्वाक्यं
क्षमं
युक्तं
निशाचरः ।
उक्तो
न
प्रतिजग्राह
मर्तुकाम
इवौषधम् ॥ १ ॥
तं
पथ्यहितवक्तारं
मारीचं
राक्षसाधिपः ।
अब्रवीत्परुषं
वाक्यमयुक्तं
कालचोदितः ॥ २ ॥
यत्किलैतदयुक्तार्थं
मारीच
मयि
कथ्यते ।
वाक्यं
निष्फलमत्यर्थमुप्तं
बीजमिवोषरे ॥ ३ ॥
त्वद्वाक्यैर्न
तु
मां
शक्यं
भेत्तुं
रामस्य
संयुगे ।
पापशीलस्य
मूर्खस्य
मानुषस्य
विशेषतः ॥ ४ ॥
यस्त्यक्त्वा
सुहृदो
राज्यं
मातरं
पितरं
तथा ।
स्त्रीवाक्यं
प्राकृतं
श्रुत्वा
वनमेकपदे
गतः ॥ ५ ॥
अवश्यं
तु
मया
तस्य
संयुगे
खरघातिनः ।
प्राणैः
प्रियतरा
सीता
हर्तव्या
तव
सन्निधौ ॥ ६ ॥
एवं
मे
निश्चिता
बुद्धिर्हृदि
मारीच
वर्तते ।
न
व्यावर्तयितुं
शक्या
सेन्द्रैरपि
सुरासुरैः ॥ ७ ॥
दोषं
गुणं
वा
सम्पृष्टस्त्वमेवं
वक्तुमर्हसि ।
अपायं
वाप्युपायं
वा
कार्यस्यास्य
विनिश्चये ॥ ८ ॥
सम्पृष्टेन
तु
वक्तव्यं
सचिवेन
विपश्चिता ।
उद्यताञ्जलिना
राज्ञे
य
इच्छेद्भूतिमात्मनः ॥ ९ ॥
वाक्यमप्रतिकूलं
तु
मृदुपूर्वं
हितं
शुभम् ।
उपचारेण
युक्तं
च
वक्तव्यो
वसुधाधिपः ॥ १० ॥
सावमर्दं
तु
यद्वाक्यं
मारीच
हितमुच्यते ।
नाभिनन्दति
तद्राजा
मानार्हो
मानवर्जितम् ॥ ११ ॥
पञ्च
रूपाणि
राजानो
धारयन्त्यमितौजसः ।
अग्नेरिन्द्रस्य
सोमस्य
वरुणस्य
यमस्य
च ॥ १२ ॥
धारयन्ति
महात्मानो
राजानः
क्षणदाचर ।
तस्मात्सर्वास्ववस्थासु
मान्याः
पूज्याश्च
पार्थिवाः ॥ १३ ॥
त्वं
तु
धर्ममविज्ञाय
केवलं
मोहमास्थितः ।
अभ्यागतं
मां
दौरात्म्यात्
परुषं
वक्तुमिच्छसि ॥ १४ ॥
गुणदोषौ
न
पृच्छामि
क्षमं
चात्मनि
राक्षस ।
मयोक्तं
तव
चैतावत्सम्प्रत्यमितविक्रम ॥ १५ ॥
अस्मिंस्तु
त्वं
महाकृत्ये
साहाय्यं
कर्तुमर्हसि ।
शृणु
तत्कर्म
साहाय्ये
यत्कार्यं
वचनान्मम ॥ १६ ॥
सौवर्णस्त्वं
मृगो
भूत्वा
चित्रो
रजतबिन्दुभिः ।
आश्रमे
तस्य
रामस्य
सीतायाः
प्रमुखे
चर ॥ १७ ॥
प्रलोभयित्वा
वैदेहीं
यथेष्टं
गन्तुमर्हसि ।
त्वां
तु
माया
मृगं
दृष्ट्वा
काञ्चनं
जातविस्मया ॥ १८ ॥
आनयैनमिति
क्षिप्रं
रामं
वक्ष्यति
मैथिली ।
अपक्रान्ते
तु
काकुत्स्थे
दूरं
यात्वा
व्युदाहर ॥ १९ ॥
हा
सीते
लक्ष्मणेत्येवं
रामवाक्यानुरूपकम् ।
तच्छ्रुत्वा
रामपदवीं
सीतया
च
प्रचोदितः ॥ २० ॥
अनुगच्छति
सम्भ्रान्तः
सौमित्रिरपि
सौहृदात् ।
अपक्रान्ते
च
काकुत्स्थे
लक्ष्मणे
च
यथासुखम् ॥ २१ ॥
आनयिष्यामि
वैदेहीं
सहस्राक्षः
शचीमिव ।
एवं
कृत्वा
त्विदं
कार्यं
यथेष्टं
गच्छ
राक्षस ॥ २२ ॥
राज्यस्यार्धं
प्रयच्छामि
मारीच
तव
सुव्रत ।
गच्छ
सौम्य
शिवं
मार्गं
कार्यस्यास्य
विवृद्धये ॥ २३ ॥
अहं
त्वाऽनुगमिष्यामि
सरथो
दण्डकावनम् ।
प्राप्य
सीतामयुद्धेन
वञ्चयित्वा
तु
राघवम् ॥ २४ ॥
लङ्कां
प्रति
गमिष्यामि
कृतकार्यः
सह
त्वया ।
एतत्कार्यमवश्यं
मे
बलादपि
करिष्यसि ॥ २५ ॥
राज्ञो
हि
प्रतिकूलस्थो
न
जातु
सुखमेधते ।
आसाद्य
तं
जीवितसंशयस्ते
मृत्युर्ध्रुवो
ह्यद्य
मया
विरुद्ध्य ॥ २६ ॥
एतद्यथावत्प्रतिगृह्य
बुद्ध्या
यदत्र
पथ्यं
कुरु
तत्तथा
त्वम् ॥ २७ ॥