आज्ञप्तोऽराजवद्वाक्यं
प्रतिकूलं
निशाचरः ।
अब्रवीत्
परुषं
वाक्यं
मरीचो
राक्षसाधिपम् ॥ १ ॥
केनायमुपदिष्टस्ते
विनाशः
पापकर्मणा ।
सपुत्रस्य
सराष्ट्रस्य
सामात्यस्य
निशाचर ॥ २ ॥
कस्त्वया
सुखिना
राजन्नाभिनन्दति
पापकृत् ।
केनेदमुपदिष्टं
ते
मुत्युद्वारमुपायतः ॥ ३ ॥
शत्रवस्तव
सुव्यक्तं
हीनवीर्या
निशाचराः ।
इच्छन्ति
त्वां
विनश्यन्तमुपरुद्धं
बलीयसा ॥ ४ ॥
केनेदमुपदिष्टं
ते
क्षुद्रेणाहितवादिना ।
यस्त्वामिच्छति
नश्यन्तं
स्वकृतेन
निशाचर ॥ ५ ॥
वध्याः
खलु
न
हन्यन्ते
सचिवास्तव
रावण ।
ये
त्वामुत्पथमारुढं
न
निगृङ्णन्ति
सर्वशः ॥ ६ ॥
अमात्यैः
कामवृत्तो
हि
राजा
कापथमाश्रितः ।
निग्राह्यः
सर्वथा
सद्भिर्न
निग्राह्यो
निगृह्यसे ॥ ७ ॥
धर्ममर्थं
च
कामं
च
यशश्च
जयतां
वर ।
स्वामिप्रसादात्
सचिवाः
प्राप्नुवन्ति
निशाचर ॥ ८ ॥
विपर्यये
तु
तत्सर्वं
व्यर्थं
भवति
रावण ।
व्यसनं
स्वामिवैगुण्यात्
प्राप्नुवन्तीतरे
जनाः ॥ ९ ॥
राजमूलो
हि
धर्मश्च
जयश्च
जयतां
वर ।
तस्मात्सर्वास्ववस्थासु
रक्षितव्या
नराधिपाः ॥ १० ॥
राज्यं
पालयितुं
शक्यं
न
तीक्ष्णेन
निशाचर ।
न
चापि
प्रतिकूलेन
नाविनीतेन
राक्षस ॥ ११ ॥
ये
तीक्ष्णमन्त्राः
सचिवा
भज्यन्ते
सह
तेन
वै ।
विषमे
तुरगाः
शीघ्रा
मन्दसारथयो
यथा ॥ १२ ॥
बहवः
साधवो
लोके
युक्ता
धर्ममनुष्ठिताः ।
परेषामपराधेन
विनष्टाः
सपरिच्छदाः ॥ १३ ॥
स्वामिना
प्रतिकूलेन
प्रजास्तीक्ष्णेन
रावण ।
रक्ष्यमाणा
न
वर्धन्ते
मेषा
गोमायुना
यथा ॥ १४ ॥
अवश्यं
विनशिष्यन्ति
सर्वे
रावण
राक्षसाः ।
येषां
त्वं
कर्कशो
राजा
दुर्बुद्धिरजितेन्द्रियः ॥ १५ ॥
तदिदं
काकतालीयं
घोरमासादितं
मया ।
अत्रैव
शोचनीयस्त्वं
ससैन्यो
विनशिष्यसि ॥ १६ ॥
मां
निहत्य
तु
रामश्च
नचिरात्त्वां
वधिष्यति ।
अनेन
कृतकृत्योऽस्मि
म्रिये
यदरिणा
हतः ॥ १७ ॥
दर्शनादेव
रामस्य
हतं
मामुपधारय ।
आत्मानं
च
हतं
विद्धि
हृत्वा
सीतां
सबान्धवम् ॥ १८ ॥
आनयिष्यसि
चेत्
सीतामाश्रमात्
सहितो
मया ।
नैव
त्वमसि
नाहं
च
नैव
लङ्का
न
राक्षसाः ॥ १९ ॥
निवार्यमाणस्तु
मया
हितैषिणा
न
मृष्यसे
वाक्यमिदं
निशाचर ।
परेतकल्पा
हि
गतायुषो
नरा
हितं
न
गृह्णन्ति
सुहृद्भिरीरितम् ॥ २० ॥