एवमुक्त्वा
तु
वचनं
मारीचो
रावणं
ततः ।
गच्छावेत्यब्रवीद्दीनो
भयाद्रात्रिञ्चरप्रभोः ॥ १ ॥
दृष्टश्चाहं
पुनस्तेन
शरचापासिधारिणा ।
मद्वधोद्यतशस्त्रेण
विनष्टं
जीवितं
च
मे ॥ २ ॥
नहि
रामं
पराक्रम्य
जीवन्
प्रतिनिवर्तते ।
वर्तते
प्रतिरूपोऽसौ
यमदण्डहतस्य
ते ॥ ३ ॥
किन्नु
शक्यं
मया
कर्तुमेवं
त्वयि
दुरात्मनि ।
एष
गच्छाम्यहं
तात
स्वस्ति
तेऽस्तु
निशाचर ॥ ४ ॥
प्रहृष्टस्त्वभवत्तेन
वचनेन
स
रावणः ।
परिष्वज्य
सुसंश्लेष्यमिदं
वचनमब्रवीत् ॥ ५ ॥
एतच्छौण्डीर्ययुक्तं
ते
मच्छन्दादिव
भाषितम् ।
इदानीमसि
मारीचः
पूर्वमन्यो
निशाचरः ॥ ६ ॥
आरुह्यतामयं
शीघ्रं
रथो
रत्नविभूषितः ।
मया
सह
तथा
युक्तः
पिशाचवदनैः
खरैः ॥ ७ ॥
प्रलोभयित्वा
वैदेहीं
यथेष्टं
गन्तुमर्हसि ।
तां
शून्ये
प्रसभं
सीतामानयिष्यामि
मैथिलीम् ॥ ८ ॥
ततो
रावणमारीचौ
विमानमिव
तं
रथम् ।
आरुह्य
ययतुः
शीघ्रं
तस्मादाश्रममण्डलात् ॥ ९ ॥
तथैव
तत्र
पश्यन्तौ
पत्तनानि
वनानि
च ।
गिरींश्च
सरितः
सर्वा
राष्ट्राणि
नगराणि
च ॥ १० ॥
समेत्य
दण्डकारण्य
राघवस्याश्रमं
ततः ।
ददर्श
सहमारीचो
रावणो
राक्षसाधिपः ॥ ११ ॥
अवतीर्य
रथात्तस्मात्ततः
काञ्चनभूषणात् ।
हस्ते
गृहीत्वा
मारीचं
रावणो
वाक्यमब्रवीत् ॥ १२ ॥
एतद्रामाश्रमपदं
दृश्यते
कदली
वृतम् ।
क्रियतां
तत्सखे
शीघ्रं
यदर्थं
वयमागताः ॥ १३ ॥
स
रावणवचः
श्रुत्वा
मारीचो
राक्षसस्तदा ।
मृगो
भूत्वाऽऽश्रमद्वारि
रामस्य
विचचार
ह ॥ १४ ॥
स
तु
रूपं
समास्थाय
महदद्भुतदर्शनम् ।
मणिप्रवरशृङ्गाग्रः
सितासितमुखाकृतिः ॥ १५ ॥
रक्तपद्मोत्पलमुख
इन्द्रनीलोत्पलश्रवाः ।
किञ्चिदभ्युन्नतग्रीव
इन्द्रनीलदलाधरः ॥ १६ ॥
कुन्देन्दुवज्रसङ्काशमुदरं
चास्य
भास्वरम् ।
मधूकनिभपार्श्वश्च
पद्मकिञ्जल्कसन्निभः ॥ १७ ॥
वैडूर्यसङ्काशखुरस्तनुजङ्घः
सुसंहतः ।
इन्द्रायुधसवर्णेन
पुच्छेनोर्ध्वं
विराजता ॥ १८ ॥
क्षणेन
राक्षसो
जातो
मृगः
परमशोभनः ।
वनं
प्रज्वलयन्
रम्यं
रामाश्रमपदं
च
तत् ॥ १९ ॥
मनोहरं
दर्शनीयं
रूपं
कृत्वा
स
राक्षसः ।
प्रलोभनार्थं
वैदेह्या
नानाधातुविचित्रितम् ॥ २० ॥
विचरन्
गच्छते
तस्माच्छाद्वलानि
समन्ततः ।
रूप्यैर्बिन्दुशतैश्चित्रो
भूत्वा
स
प्रियदर्शनः ॥ २१ ॥
विटपीनां
किसलयान्
भङ्क्त्वाऽदन्
विचचार
ह ।
कदलीगृहकं
गत्वा
कर्णिकारानितस्ततः ॥ २२ ॥
समाश्रयन्मन्दगतिः
सीतासन्दर्शनं
तथा ।
राजीवचित्रपृष्ठः
स
विरराज
महागृगः ॥ २३ ॥
रामाश्रमपदाभ्याशे
विचचार
यथासुखम् ।
पुनर्गत्वा
निवृत्तश्च
विचचार
मृगोत्तमः ॥ २४ ॥
गत्वा
मुहूर्तं
त्वरया
पुनः
प्रतिनिवर्तते ।
विक्रीडंश्च
क्वचिद्भूमौ
पुनरेव
निषीदति ॥ २५ ॥
आश्रमद्वारमागम्य
मृगयूथानि
गच्छति ।
सीतादर्शनमाकाङ्क्षन्
राक्षसो
मृगतां
गतः ॥ २६ ॥
परिभ्रमति
चित्राणि
मण्डलानि
विनिष्पतन् ।
समुद्वीक्ष्य
च
तं
सर्वे
मृगा
ह्यन्ये
वनेचराः ॥ २७ ॥
उपागम्य
समाघ्राय
विद्रवन्ति
दिशो
दश ।
राक्षमः
सोऽपि
तान्वन्यान्
मृगान्
मृगवधे
रतः ॥ २८ ॥
प्रच्छादनार्थं
भावस्य
न
भक्षयति
संस्पृशन् ।
तस्मिन्नेव
ततः
काले
वैदेही
शुभलोचना ॥ २९ ॥
कुसुमापचयव्यग्रा
पादपानभ्यवर्तत ।
कर्णिकारानशोकांश्च
चूतांश्च
मदिरेक्षणा ॥ ३० ॥
कुसुमान्यपचिन्वन्ती
चचार
रुचिरानना ।
अनर्हाऽरण्यवासस्य
सा
तं
रत्नमयं
मृगम् ॥ ३१ ॥
मुक्तामणिविचित्राङ्गं
ददर्श
परमाङ्गना ।
सा
तं
रुचिरदन्तोष्ठी
रूप्यधातुतनूरुहम् ॥ ३२ ॥
विस्मयोत्फुल्लनयना
सस्नेहं
समुदैक्षत ।
स
च
तां
रामदयितां
पश्यन्
मायामयो
मृगः ॥ ३३ ॥
विचचार
पुनश्चित्रं
दीपयन्निव
तद्वनम् ।
अदृष्टपूर्वं
तं
दृष्ट्वा
नानारत्नमयं
मृगम् ॥ ३४ ॥
विस्मयं
परमं
सीता
जगाम
जनकात्मजा ॥ ३५ ॥