सा
तं
सम्प्रेक्ष्य
सुश्रोणी
कुसुमान्यपचिन्वती ।
हैमराजतवर्णाभ्यां
पार्श्वाभ्यामुपशोभितम् ॥ १ ॥
प्रहृष्टा
चानवद्याङ्गी
मृष्टहाटकवर्णिनी ।
भर्तारमभिचक्रन्द
लक्ष्मणं
चापि
सायुधम् ॥ २ ॥
तयाऽऽहूतौ
नरव्याघ्रौ
वैदेह्या
रामलक्ष्मणौ ।
वीक्षमाणौ
तु
तं
देशं
तदा
ददृशतुर्मृगम् ॥ ३ ॥
शङ्कमानस्तु
तं
दृष्ट्वा
लक्ष्मणो
राममब्रवीत् ।
तमेवैनमहं
मन्ये
मारीचं
राक्षसं
मृगम् ॥ ४ ॥
चरन्तो
मृगयां
हृष्टाः
पापेनोपाधिना
वने ।
अनेन
निहता
राजन्
राजानः
कामरूपिणा ॥ ५ ॥
अस्य
मायाविदो
माया
मृगरूपमिदं
कृतम् ।
भानुमत्
पुरुषव्याघ्र
गन्धर्वपुरसन्निभम् ॥ ६ ॥
मृगो
ह्येवंविधो
रत्नविचित्रो
नास्ति
राघव ।
जगत्यां
जगतीनाथ
मायैषा
हि
न
संशयः ॥ ७ ॥
एवं
ब्रुवाणं
काकुत्स्थं
प्रतिवार्य
शुचिस्मिता ।
उवाच
सीता
संहृष्टा
चर्मणा
हृतचेतना ॥ ८ ॥
आर्यपुत्राभिरामोऽसौ
मृगो
हरति
मे
मनः ।
आनयैनं
महाबाहो
क्रीडार्थं
नो
भविष्यति ॥ ९ ॥
इहाश्रमपदेऽस्माकं
बहवः
पुण्यदर्शनाः ।
मृगाश्चरन्ति
सहिताः
सृमराश्चमरास्तथा ॥ १० ॥
ऋक्षाः
पृषतसङ्घाश्च
वानराः
किन्नरास्तथा ।
विचरन्ति
महाबाहो
रूपश्रेष्ठा
मनोहराः ॥ ११ ॥
न
चास्य
सदृशो
राजन्
दृष्टूपर्वो
मृगः
पुरा ।
तेजसा
क्षमया
दीप्त्या
यथायं
मृगसत्तमः ॥ १२ ॥
नानावर्णविचित्राङ्गो
रत्नबिन्दुसमाचितः ।
द्योतयन्
वनमव्यग्रं
शोभते
शशिसन्निभः ॥ १३ ॥
अहो
रूपमहो
लक्ष्मीः
स्वरसम्पच्च
शोभना ।
मृगोऽद्भुतो
विचित्राङ्गो
हृदयं
हरतीव
मे ॥ १४ ॥
यदि
ग्रहणमभ्येति
जीवन्नेव
मृगस्तव ।
आश्चर्यभूतं
भवति
विस्मयं
जनयिष्यति ॥ १५ ॥
समाप्तवनवासानां
राज्यस्थानां
च
नः
पुनः ।
अन्तःपुरविभूषार्थो
मृग
एष
भविष्यति ॥ १६ ॥
भरतस्यार्यपुत्रस्य
श्वश्रूणां
मम
च
प्रभो ।
मृगरूपमिदं
व्यक्तं
विस्मयं
जनयिष्यति ॥ १७ ॥
जीवन्न
यदि
तेऽभ्येति
ग्रहणं
मृगसत्तमः ।
अजिनं
नरशार्दूल
रुचिरं
मे
भविष्यति ॥ १८ ॥
निहतस्यास्य
सत्त्वस्य
जाम्बूनदमयत्वचि ।
शष्पबृस्यां
विनीतायामिच्छाम्यहमुपासितुम् ॥ १९ ॥
कामवृत्तमिदं
रौद्रं
स्त्रीणामसदृशं
मतम् ।
वपुषा
त्वस्य
सत्त्वस्य
विस्मयो
जनितो
मम ॥ २० ॥
तारुणादित्यवर्णेन
नक्षत्रपथवर्चसा ।
बभूव
राघवस्यापि
मनो
विस्मयमागतम् ॥ २१ ॥
एवं
सीतावचः
श्रुत्वा
तं
दृष्ट्वा
मृगमद्भुतम् ।
लोभितस्तेन
रूपेण
सीतया
च
प्रचोदितः ॥ २२ ॥
उवाच
राघवो
हृष्टो
भ्रातरं
लक्ष्मणं
वचः ।
पश्य
लक्ष्मण
वैदेह्याः
स्पृहां
मृगगतामिमाम् ॥ २३ ॥
रूपश्रेष्ठतया
ह्येष
मृगोऽद्य
न
भषिष्यति ।
न
वने
नन्दनोद्देशे
न
चैत्ररथसंश्रये ॥ २४ ॥
कुतः
पृथिव्यां
सौमित्रे
योऽस्य
कश्चित्समो
मृगः ।
प्रतिलोमानुलोमाश्च
रुचिरा
रोमराजयः ॥ २५ ॥
शोभन्ते
मृगमाश्रित्य
चित्राः
कनकबिन्दुभिः ।
पश्यास्य
जृम्भमाणस्य
दीप्तामग्निशिखोपमाम् ॥ २६ ॥
जिह्वां
मुखान्निःसरन्तीं
मेघादिव
शतह्रदाम् ।
मसारगल्लर्कमुखः
शङ्खमुक्तानिभोदरः ॥ २७ ॥
कस्य
नामाभिरूपोऽसौ
न
मनो
लोभयेन्मृगः ।
नानारत्नमयं
दिव्यं
न
मनो
विस्मयं
व्रजेत् ॥ २८ ॥
मांसहेतोरपि
मृगान्
विहारार्थं
च
धन्विनः ।
घ्नन्ति
लक्ष्मण
राजानो
मृगयायां
महावने ॥ २९ ॥
धनानि
व्यवसायेन
विचीयन्ते
महावने ।
धातवो
विविधाश्चापि
मणिरत्नसुवर्णिनः ॥ ३० ॥
तत्सारमखिलं
नॄणां
धनं
निचयवर्धनम् ।
मनसा
चिन्तितं
सर्वं
यथा
शुक्रस्य
लक्ष्मण ॥ ३१ ॥
अर्थी
येनार्थकृत्येन
संव्रजत्यविचारयन् ।
तमर्थमर्थशास्त्रज्ञाः
प्राहुरर्थ्याश्च
लक्ष्मण ॥ ३२ ॥
एतस्य
मृगरत्नस्य
परार्ध्ये
काञ्चनत्वचि ।
उपवेक्ष्यति
वैदेही
मया
सह
सुमध्यमा ॥ ३३ ॥
न
कादली
न
प्रियकी
न
प्रवेणी
न
चाविकी ।
भवेदेतस्य
सदृशी
स्पर्शनेनेति
मे
मतिः ॥ ३४ ॥
एष
चैव
मृगः
श्रीमान्
यश्च
दिव्यो
नभश्चरः ।
उभावेतै
मृगौ
दिव्यौ
तारामृगमहीमृगौ ॥ ३५ ॥
यदि
वाऽयं
तथा
यन्मां
भवेद्वदसि
लक्ष्मण ।
मायैषा
राक्षसस्येति
कर्तव्योऽस्य
वधो
मया ॥ ३६ ॥
एतेन
हि
नृशंसेन
मारीचेनाकृतात्मना ।
वने
विचरता
पूर्वं
हिंसिता
मुनिपुङ्गवाः ॥ ३७ ॥
उत्थाय
बहवो
येन
मृगयायां
जनाधिपाः ।
निहताः
परमेष्वासास्तस्माद्वध्यस्त्वयं
मृगः ॥ ३८ ॥
पुरस्तादिह
वातापिः
परिभूय
तपस्विनः ।
उदरस्थो
द्विजान्
हन्ति
स्वगर्भोऽश्वतरीमिव ॥ ३९ ॥
स
कदाचिच्चिराल्लोभादाससाद
महामुनिम् ।
अगस्त्यं
तेजसा
युक्तं
भक्षस्तस्य
बभूव
ह ॥ ४० ॥
समुत्थाने
च
तद्रूपं
कर्तुकामं
समीक्ष्य
तम् ।
उत्स्मयित्वा
तु
भगवान्
वातापिमिदमब्रवीत् ॥ ४१ ॥
त्वयाऽविगण्य
वातापे
परिभूताः
स्वतेजसा ।
जीवलोके
द्विजश्रेष्ठास्तस्मादसि
जरां
गतः ॥ ४२ ॥
मद्विधं
योऽतिमन्येत
धर्मनित्यं
जितेन्द्रियम् ।
भवेद्धतोऽयं
वातापिरगस्त्येनेव
मां
गतः ॥ ४३ ॥
इह
त्वं
भव
सन्नद्धो
यन्त्रितो
रक्ष
मैथिलीम् ।
अस्यामायत्तमस्माकं
यत्कृत्यं
रघुनन्दन ॥ ४४ ॥
अहमेनं
वधिष्यामि
ग्रहीष्याम्यपि
वा
मृगम् ।
यावद्गच्छामि
सौमित्रे
मृगमानयितुं
द्रुतम् ॥ ४५ ॥
पश्य
लक्ष्मण
वैदेहीं
मृगत्वचिगतस्पृहाम् ।
त्वचा
प्रधानया
ह्येष
मृगोऽद्य
न
भविष्यति ॥ ४६ ॥
अप्रमत्तेन
ते
भाव्यमाश्रमस्थेन
सीतया ।
यावत्पृषतमेकेन
सायकेन
निहन्म्यहम् ॥ ४७ ॥
हत्वैतच्चर्म
चादाय
शीघ्रमेष्यामि
लक्ष्मण ।
प्रदक्षिणेनातिबलेन
पक्षिणा
जटायुषा
बुद्धिमता
च
लक्ष्मण ॥ ४८ ॥
भवाप्रमत्तः
परिगृह्य
मैथीलीं
प्रतिक्षणं
सर्वत
एव
शङ्कितः ॥ ४९ ॥