तथा
तु
तं
समादिश्य
भ्रातरं
रघुनन्दनः ।
बबन्धासिं
महातेजा
जाम्बूनदमयत्सरुम् ॥ १ ॥
ततस्त्र्यवनतं
चापमादायात्मविभूषणम् ।
आबध्य
च
कलापौ
द्वौ
जगामोदग्रविक्रमः ॥ २ ॥
बभूवान्तर्हितस्त्रासात्पुनः
सन्दर्शनेऽभवत् ।
बद्धासिर्धनुरादाय
प्रदुद्राव
यतो
मृगः ॥ ३ ॥
तं
स्म
पश्यति
रूपेण
द्योतमानमिवाग्रतः ।
अवेक्ष्यावेक्ष्य
धावन्तं
धनुष्पाणिं
महावने ॥ ४ ॥
अतिवृत्तमिषोः
पाताल्लोभयानं
कदाचन ।
शङ्कितं
तु
समुद्भ्रान्तमुत्पतन्तमिवाम्बरे ॥ ५ ॥
दृश्यमानमदृश्यं
च
वनोद्देशेषु
केषुचित् ।
छिन्नाभ्रौरिव
संवीतं
शारदं
चन्द्रमण्डलम् ॥ ६ ॥
मुहर्तादेव
ददृशे
मुहुर्दूरात्प्रकाशते ।
दर्शनादर्शनादेवं
सोऽपाकर्षत
राघवम् ॥ ७ ॥
सुदूरमाश्रमस्यास्य
मारीचो
मृगतां
गतः ।
आसीत्क्रुद्धस्तु
काकुत्स्थो
विवशस्तेन
मोहितः ॥ ८ ॥
अथावतस्थे
सम्भ्रान्तश्छायामाश्रित्य
शाद्वले ।
स
तमुन्मादयामास
मृगरूपो
निशाचरः ॥ ९ ॥
मृगैः
परिवृतो
वन्यैरदूरात्
प्रत्यदृश्यत ।
ग्रहीतुकामं
दृष्ट्वैनं
पुनरेवाभ्यधावत ॥ १० ॥
तत्क्षणादेव
सन्त्रासात्पुनरन्तर्हितोऽभावत् ।
दृष्ट्वा
रामो
महातेजास्तं
हन्तुं
कृतनिश्चयः ॥ ११ ॥
भूयस्तु
शऱमुद्धृत्य
कुपितस्तत्र
राघवः ।
सूर्यरश्मिप्रतीकाशं
ज्वलन्तमरिमर्दनः ॥ १२ ॥
सन्धाय
सुदृढे
चापे
विकृष्य
बलवद्बली ।
तमेव
मृगमुद्दिश्य
श्वसन्तमिव
पन्नगम् ॥ १३ ॥
मुमोच
ज्वलितं
दीप्तमस्त्रं
बह्मविनिर्मितम् ।
शरीरं
मृगरूपस्य
विनिर्भिद्य
शरोत्तमः ॥ १४ ॥
मारीचस्यैव
हृदयं
बिभेदाशनिसन्निभः ।
तालमात्रमथोत्प्लुत्य
न्यपतत्स
शरातुरः ॥ १५ ॥
विनदन्
भैरवं
नादं
धरण्यामल्पजीवितः ।
स्मृत्वा
तद्वचनं
रक्षो
दध्यौ
केन
तु
लक्ष्मणम् ॥ १६ ॥
इह
प्रस्थापयेत्सीता
शून्ये
तां
रावणो
हरेत् ।
स
प्राप्तकालमाज्ञाय
चकार
च
ततः
स्वरम् ॥ १७ ॥
सदृशं
राघवस्यैव
हा
सीते
लक्ष्मणेति
च ।
तेन
मर्मणि
निर्विद्धः
शरेणानुपमेन
च ॥ १८ ॥
मृगरूपं
तु
तत्त्यक्त्वा
राक्षसं
रूपमात्मनः ।
चक्रे
स
सुमहाकायो
मारीचो
जीवितं
त्यजन् ॥ १९ ॥
ततो
विचित्रकेयूरः
सर्वाभरणभूषितः ।
हेममाली
महादंष्ट्रो
राक्षसोऽभूच्छराहतः ॥ २० ॥
रामो
रुधिरसिक्ताङ्गं
वेष्टमानं
महीतले ।
जगाम
मनसा
सीतां
लक्ष्मणस्य
वचः
स्मरन् ॥ २१ ॥
मारीचस्यैव
मायैषा
पूर्वोक्तं
लक्ष्णेन
तु ।
तत्तथा
ह्यभवच्चाद्य
मारीचोऽयं
मया
हतः ॥ २२ ॥
हा
सीते
लक्ष्मणेत्येवमाक्रुश्य
च
महास्वनम् ।
ममार
राक्षसः
सोऽयं
श्रुत्वा
सीता
कथं
भवेत् ॥ २३ ॥
लक्ष्मणश्च
महाबाहुः
कामवस्थां
गमिष्यति ।
इति
सञ्चिन्त्य
धर्मात्मा
रामो
हृष्टतनूरुहः ॥ २४ ॥
तत्र
रामं
भयं
तीव्रमाविवेश
विषादजम् ।
निहत्य
पृषतं
चान्यं
मांसमादाय
राघवः ॥ २५ ॥
त्वरमाणो
जनस्थानं
ससाराभिमुखस्तदा ॥ २६ ॥