रावणेन
तु
वैदेही
तथा
पृष्टा
जिहीर्षता ।
परिव्राजकलिङ्गेन
शशंसात्मानमङ्गना ॥ १ ॥
ब्राह्मणश्चातिथिश्चायमनुक्तो
हि
शपेत
माम् ।
इति
ध्यात्वा
मुहूर्तं
तु
सीता
वचनमब्रवीत् ॥ २ ॥
दुहिता
जनकस्याहं
मैथिलस्य
महात्मनः ।
सीता
नाम्नाऽस्मि
भद्रं
ते
रामभार्या
द्विजोत्तम ॥ ३ ॥
उषित्वा
द्वादश
समा
इक्ष्वाकूणां
निवेशने ।
भूञ्जाना
मानुषान्
भोगान्
सर्वकामसमृद्धिनी ॥ ४ ॥
ततस्त्रयोदशे
वर्षे
राजाऽमन्त्रयत
प्रभुः ।
अभिषेचयितुं
रामं
समेतो
राजमन्त्रिभिः ॥ ५ ॥
तस्मिन्
सम्भ्रियमाणे
तु
राघवस्याभिषेचने ।
कैकेयी
नाम
भर्तारमार्या
सा
याचते
वरम् ॥ ६ ॥
मम
प्रव्राजनं
भर्तुर्भरतस्याभिषेचनम् ।
द्वावयाचत
भर्तारं
सत्यसन्धं
नृपोत्तमम् ॥ ७ ॥
नाद्य
भोक्ष्ये
न
च
स्वप्स्ये
न
पास्ये
च
कथञ्चन ।
एष
मे
जीवितस्यान्तो
रामो
यद्यभिषिच्यते ॥ ८ ॥
इति
ब्रुवाणां
कैकेयीं
श्वशुरो
मे
स
मानदः ।
अयाचतार्थैरन्वर्थैर्न
च
याच़्ञां
चकार
सा ॥ ९ ॥
मम
भर्ता
महातेजा
वयसा
प़ञ्चविंशकः ।
अष्टादश
हि
वर्षाणि
मम
जन्मनि
गण्यते ॥ १० ॥
रामेति
प्रथितो
लोके
गुणवान्
सत्यवान्
शुचिः ।
विशालाक्षो
महाबाहुः
सर्वभूतहिते
रतः ॥ ११ ॥
कामार्तस्तु
महातेजाः
पिता
दशरथः
स्वयम् ।
कैकेय्याः
प्रियकामार्थं
तं
रामं
नाभ्यषेचयत् ॥ १२ ॥
अभिषेकाय
तु
पितुः
समीपं
राममागतम् ।
कैकेयी
मम
भर्तारमित्युवाच
धृतं
वचः ॥ १३ ॥
तव
पित्रा
समाज्ञप्तं
ममेदं
शृणु
राघव ।
भरताय
प्रदातव्यमिदं
राज्यमकण्टकम् ॥ १४ ॥
त्वया
हि
खलु
वस्तव्यं
नव
वर्षाणि
प़ञ्च
च ।
वने
प्रव्रज
काकुत्स्थ
पितरं
मोचयानृतात् ॥ १५ ॥
तथेत्युक्त्वा
च
तां
रामः
कैकेयीमकुतोभयः ।
चकार
तद्वचस्तस्या
मम
भर्ता
दृढव्रतः ॥ १६ ॥
दद्यान्न
प्रतिगृह्णीयात्
सत्यं
ब्रूयान्न
चानृतम् ।
एतद्ब्राह्मण
रामस्य
ध्रुवं
व्रतमनुत्तमम् ॥ १७ ॥
तस्य
भ्राता
तु
द्वैमात्रो
लक्ष्मणो
नाम
वीर्यवान् ।
रामस्य
पुरुषव्याघ्रः
सहायः
समरेऽरिहा ॥ १८ ॥
स
भ्राता
लक्ष्मणो
नाम
धर्मचारी
दृढव्रतः ।
अन्वगच्छद्धनुष्पाणिः
प्रव्रजन्तं
मया
सह ॥ १९ ॥
जटी
तापसरूपेण
मया
सह
सहानुजः ।
प्रविष्टो
दण्डकारण्यं
धर्मनित्यो
जितेन्द्रियः ॥ २० ॥
ते
वयं
प्रच्युता
राज्यात्कैकेय्यास्तु
कृते
त्रयः ।
विचराम
द्विजश्रेष्ठ
वनं
गम्भीरमोजसा ॥ २१ ॥
समाश्वस
मुहुर्तं
तु
शक्यं
वस्तुमिह
त्वया ।
आगमिष्यति
मे
भर्ता
वन्यमादाय
पुष्कलम् ॥ २२ ॥
स
त्वं
नाम
च
गोत्रं
च
कुलं
चाचक्ष्व
तत्त्वतः ।
एकश्च
दण्डकारण्ये
किमर्थं
चरसि
द्विज ॥ २३ ॥
एवं
ब्रुवन्त्यां
सीतायां
रामपत्न्यां
महाबलः ।
प्रत्युवाचोत्तरं
तीव्रं
रावणो
राक्षसाधिपः ॥ २४ ॥
येन
वित्रासिता
लोकाः
सदेवासुरपन्नागाः ।
अहं
तु
रावणो
नाम
सीते
रक्षोगणेश्वरः ॥ २५ ॥
त्वां
तु
काञ्चनवर्णाभां
दृष्ट्वा
कौशेयवासिनीम् ।
रतिं
स्वकेषु
दारेषु
नाधिगच्छाम्यनिन्दिते ॥ २६ ॥
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ।
सर्वासामेव
भद्रं
ते
ममाग्रमहिषी
भव ॥ २७ ॥
लङ्का
नाम
समुद्रस्य
मध्ये
मम
महापुरी ।
सागरेण
परिक्षप्ता
निविष्टा
नगमूर्द्धनि ॥ २८ ॥
तत्र
सीते
मया
सार्धं
वनेषु
विहरिष्यसि ।
न
चास्यारण्यवास्य
स्पृहयिष्यसि
भामिनि ॥ २९ ॥
प़ञ्च
दास्यः
सहस्त्राणि
सर्वाभरणभूषिताः ।
सीते
परिचरिष्यन्ति
भार्या
भवसि
मे
यदि ॥ ३० ॥
रावणेनैवमुक्ता
तु
कुपिता
जनकात्मजा ।
प्रत्युवाचानवद्याङ्गी
तमनादृत्य
राक्षसम् ॥ ३१ ॥
महागिरिमिवाकम्प्यं
महेन्द्रसदृशं
पतिम् ।
महोदधिमिवाक्षोभ्यमहं
राममनुव्रता ॥ ३२ ॥
सर्वलक्षणसम्पन्नं
न्यग्रोधपरिमण्डलम् ।
सत्यसन्धं
महाभागमहं
राममनुव्रता ॥ ३३ ॥
महाबाहुं
महोरस्कं
सिंहविक्रान्तगामिनम् ।
नृसिंहं
सिंहसङ्काशमहं
राममनुव्रता ॥ ३४ ॥
पूर्णचन्द्राननं
रामं
राजवत्सं
जितेन्द्रियम् ।
पृथुकीर्तिं
महात्मानमहं
राममनुव्रता ॥ ३५ ॥
त्वं
पुनर्जम्बुकः
सिंहीं
मामिच्छसि
सुदुर्लभाम् ।
नाहं
शक्या
त्वया
स्प्रष्टुमादित्यस्य
प्रभा
यथा ॥ ३६ ॥
पादपान्
काञ्चनान्
नूनं
बहून्
पश्यसि
मन्दभाक् ।
राघवस्य
प्रियां
भार्यां
यस्त्वमिच्छसि
रावण ॥ ३७ ॥
क्षुधितस्य
च
सिंहस्य
मृगशत्रोस्तरस्विनः ।
आशीविषस्य
वदनाद्दंष्ट्रामादातुमिच्छसि ॥ ३८ ॥
मन्दरं
पर्वतश्रेष्ठं
पाणिनाहर्तुमिच्छसि ।
कालकूटं
विषं
पीत्वा
स्वस्तिमान्
गन्तुमिच्छसि ॥ ३९ ॥
अक्षि
सूच्या
प्रमृजसि
जिह्वया
लेक्षि
च
क्षुरम् ।
राघवस्य
प्रियां
भार्यां
योऽधिगन्तुं
त्वमिच्छसि ॥ ४० ॥
अवसज्य
शिलां
कण्ठे
समुद्रं
तर्तुमिच्छसि ।
सूर्याचन्द्रमसौ
चोभौ
पाणिभ्यां
हर्तुमिच्छसि ॥ ४१ ॥
यो
रामस्य
प्रियां
भार्यां
प्रधर्षयितुमिच्छसि ।
अग्निं
प्रज्वलितं
दृष्ट्वा
वस्त्रेणाहर्तुमिच्छसि ॥ ४२ ॥
कल्याणवृत्तां
रामस्य
यो
भार्यां
हर्तुमिच्छसि ।
अयोमुखानां
शूलानामग्रे
चरितुमिच्छसि ॥ ४३ ॥
रामस्य
सदृशीं
भार्यां
योऽधिगन्तुं
त्वमिच्छसि ।
यदन्तरं
सिंहसृगालयोर्वने
यदन्तरं
स्यन्दिनिकासमुद्रयोः ॥ ४४ ॥
सुराग्य्रसौवीरकयोर्यदन्तरं
तदन्तरं
वै
तव
राघवस्य
च ।
यदन्तरं
काञ्चनसीसलोहयोर्यदन्तरं
चन्दनवारिपङ्कयोः ॥ ४५ ॥
यदन्तरं
हस्तिबिडालयोर्वने
तदन्तरं
दाशरथेस्तवैव
च ।
यदन्तरं
वायसवैनतेययोर्यदन्तरं
मद्गुमयूरयोरपि ॥ ४६ ॥
यदन्तरं
सारसगृध्रयोर्वने
तदन्तरं
दाशरथेस्तवैव
च ।
तस्मिन्
सहस्राक्षसमप्रभावे
रामे
स्थिते
कार्मुकबाणपाणौ ॥ ४७ ॥
हृताऽपि
तेऽहं
न
जरां
गमिष्ये
वज्रं
यथा
मक्षिकयावगीर्णम् ।
इतीव
तद्वाक्यमदुष्टभावा
सुधृष्टमुक्त्वा
रजनीचरं
तम् ॥ ४८ ॥
गात्रप्रकम्पव्यथिता
बभूव
वातोद्धता
सा
कदलीव
तन्वी ।
तां
वेपमानामुपलक्ष्य
सीतां
स
रावणो
मृत्युसमप्रभावः ॥ ४९ ॥
कुलं
बलं
नाम
च
कर्म
च
स्वं
समाचचक्षे
भयकारणार्थम् ॥ ५० ॥