सीताया
वचनं
श्रुत्वा
दशग्रीवः
प्रतापवान् ।
हस्ते
हस्तं
समाहत्य
चकार
सुमहद्वपुः ॥ १ ॥
स
मैथिलीं
पुनर्वाक्यं
बभाषे
च
ततो
भृशम् ।
नोन्मत्तया
श्रुतौ
मन्ये
मम
वीर्यपराक्रमौ ॥ २ ॥
उद्वहेयं
भुजाभ्यां
तु
मेदिनीमम्बरे
स्थितः ।
आपिबेयं
समुद्रं
च
हन्यां
मृत्युं
रणे
स्थितः ॥ ३ ॥
अर्कं
रुन्ध्यां
शरैस्तीक्ष्णैर्विभिन्द्यां
हि
महीतलम् ।
कामरूपिणमुन्मत्ते
पश्य
मां
कामदं
पतिम् ॥ ४ ॥
एवमुक्तवतस्तस्य
सूर्यकल्पे
शिखिप्रभे ।
क्रुद्धस्य
हरिपर्यन्ते
रक्ते
नेत्रे
बभूवतुः ॥ ५ ॥
सद्यः
सौम्यं
परित्यज्य
भिक्षुरूपं
स
रावणः ।
स्वं
रूपं
कालरूपाभं
भेजे
वैश्रवणानुजः ॥ ६ ॥
क्रोधेन
महताविष्टो
नीलजीमूतसन्निभः ।
दशास्यः
कार्मुकी
बाणी
बभूव
क्षणदाचरः ॥ ७ ॥
स
परिव्राजकच्छद्म
महाकायो
विहाय
तत् ।
प्रतिपद्य
स्वकं
रूपं
रावणो
राक्षसाधिपः ॥ ८ ॥
संरक्तनयनः
क्रोधाज्जीमूतनिचयप्रभः ।
रक्ताम्बरधरस्तस्थौ
स्त्रीरत्नं
प्रेक्ष्य
मैथिलीम् ॥ ९ ॥
स
तामसितकेशान्तां
भास्करस्य
प्रभामिव ।
वसनाभरणोपेतां
मैथिलीं
रावणोऽब्रवीत् ॥ १० ॥
त्रिषु
लोकेषु
विख्यातं
यदि
भर्तारमिच्छसि ।
मामाश्रय
वरारोहे
तवाहं
सदृशः
पतिः ॥ ११ ॥
मां
भजस्व
चिराय
त्वमहं
श्लाघ्यः
प्रियस्तव ।
नैव
चाहं
क्वचिद्भद्रे
करिष्ये
तव
विप्रियम् ॥ १२ ॥
त्यज्यतां
मानुषो
भावो
मयि
भावः
प्रणीयताम् ।
राज्याच्च्युतमसिद्धार्थं
रामं
परिमितायुषम् ॥ १३ ॥
कैर्गुणैरनुरक्ताऽसि
मूढे
मण्डितमानिनि ।
यः
स्त्रिया
वचनाद्राज्यं
विहाय
ससुहृज्जनम् ॥ १४ ॥
अस्मिन्
व्यालानुचरिते
वने
वसति
दुर्मतिः ।
अभिगम्य
सुदुष्टात्मा
राक्षसः
काममोहितः ॥ १५ ॥
जग्राह
रावणः
सीतां
बुधः
खे
रोहिणीमिव ।
वामेन
सीतां
पद्माक्षीं
मूर्द्धजेषु
करेण
सः ॥ १६ ॥
ऊर्वोस्तु
दक्षिणेनैव
परिजग्राह
पाणिना ।
तं
दृष्ट्वा
मृत्युसङ्काशं
तीक्ष्णदंष्ट्रं
महाभुजम् ॥ १७ ॥
प्राद्रवन्
गिरिसङ्काशं
भयार्ता
वनदेवताः ।
स
च
मायामयो
दिव्यः
खरयुक्तः
खरस्वनः ॥ १८ ॥
प्रत्यदृश्यत
हेमाङ्गो
रावणस्य
महारथः ।
ततस्तां
परुषैर्वाक्यैर्भर्त्सयन्
स
महास्वनः ॥ १९ ॥
अङ्केनादाय
वैदेहीं
रथमारोपयत्तदा ।
सा
गृहीता
विचुक्रोश
रावणेन
यशस्विनी ॥ २० ॥
रामेति
सीता
दुःखार्ता
रामं
दूरगतं
वने ।
तामकामां
स
कामार्तः
पन्नगेन्द्रवधूमिव ॥ २१ ॥
विवेष्टमानामादाय
उत्पपाताथ
रावणः ।
ततः
सा
राक्षसेन्द्रेण
ह्रियमाणा
विहायसा ॥ २२ ॥
भृशं
चुक्रोश
मत्तेव
भ्रान्तचित्ता
यथातुरा ।
हा
लक्ष्ण
महाबाहो
गुरुचित्तप्रसादक ॥ २३ ॥
ह्रियमाणां
न
जानीषे
रक्षसा
माममर्षिणा ।
जीवितं
सुखमर्थांश्च
धर्महेतोः
परित्यजन् ॥ २४ ॥
ह्रियमाणामधर्मेण
मां
राघव
न
पश्यसि ।
ननु
नामाविनीतानां
विनेतासि
परन्तप ॥ २५ ॥
कथमेवंविधं
पापं
न
त्वं
शास्सि
हि
रावणम् ।
नतु
सद्योऽविनीतस्य
दृश्यते
कर्मणः
फलम् ॥ २६ ॥
कालोप्यङ्गी
भवत्यत्र
सस्यानामिव
पक्तये ।
स
कर्म
कृतवानेतत्
कालोपहतचेतनः ॥ २७ ॥
जीवितान्तकरं
घोरं
रामाद्व्यसनमाप्नुहि ।
हन्तेदानीं
सकामाऽस्तु
कैकेयी
सह
बान्धवैः ॥ २८ ॥
ह्रिये
यद्धर्मकामस्य
धर्मपत्नी
यशस्विनः ।
आमन्त्रये
जनस्थाने
कर्णिकारान्
सुपुष्पितान् ॥ २९ ॥
क्षिप्रं
रामाय
शंसध्वं
सीतां
हरति
रावणः ।
माल्यवन्तं
शिखरिणं
वन्दे
प्रस्रवणं
गिरम् ॥ ३० ॥
क्षिप्रं
रामाय
शंस
त्वं
सीतां
हरति
रावणः ।
हंसकारण्डवाकीर्णां
वन्दे
गोदावरीं
नदीम् ॥ ३१ ॥
क्षिप्रं
रामाय
शंस
त्वं
सीतां
हरति
रावणः ।
दैवतानि
च
यान्यस्मिन्
वने
विविधपादपे ॥ ३२ ॥
नमस्करोम्यहं
तेभ्यो
भर्तुः
शंसत
मां
हृताम् ।
यानि
कानि
चिदप्यत्र
सत्त्वानि
निवसन्त्युत ॥ ३३ ॥
सर्वाणि
शरणं
यामि
मृगपक्षिगणानपि ।
ह्रियमाणां
प्रियां
भर्तुः
प्राणेभ्योऽपि
गरीयसीम् ॥ ३४ ॥
विवशाऽपहृता
सीता
रावणेनेति
शंसत ।
विदित्वा
मां
महाबाहुरमुत्रापि
महाबलः ॥ ३५ ॥
आनेष्यति
पराक्रम्य
वैवस्वतहृतामपि ।
सा
तदा
करुणा
वाचो
विलपन्ती
सुदुःखिता ॥ ३६ ॥
वनस्पतिगतं
गृध्रं
ददर्शायतलोचना ।
सा
तमुद्वीक्ष्य
सुश्रोणी
रावणस्य
वशं
गता ॥ ३७ ॥
समाक्रन्दद्भयपरा
दुःकोपहतया
गिरा ।
जटोयो
पश्य
मामार्य
ह्रियमाणामनाथवत् ॥ ३८ ॥
अनेन
राक्षसेन्द्रेण
करुणं
पापकर्मणा ।
नैष
वारयितुं
शक्यस्तव
क्रूरो
निशाचरः ॥ ३९ ॥
सत्त्ववान्
जितकाशी
च
सायुधश्चैव
दुर्मतिः ।
रामाय
तु
यथातत्त्वं
जटायो
हरणं
मम ॥ ४० ॥
लक्ष्मणाय
च
तत्सर्वमाख्यातव्यमशेषतः ॥ ४१ ॥