तं
शब्दमवसुप्तस्तु
जटायुरथ
शुश्रुवे ।
निरीक्ष्य
रावणं
क्षिप्रं
वैदेहीं
च
ददर्श
सः ॥ १ ॥
ततः
पर्वतकूटाभस्तीक्ष्णतुण्डः
खगोत्तमः ।
वनस्पतिगतः
श्रीमान्
व्याजहार
शुभां
गिरम् ॥ २ ॥
दशग्रीव
स्थितो
धर्मे
पुराणे
सत्यसंश्रयः ।
जटायुर्नाम
नाम्नाऽहं
गृध्रराजो
महाबलः ॥ ३ ॥
राजा
सर्वस्य
लोकस्य
महेन्द्रवरुणोपमः ।
लोकानां
च
हिते
युक्तो
रामो
दशरथात्मजः ॥ ४ ॥
तस्यैषा
लोकनाथस्य
धर्मपत्नी
यशस्विनी ।
सीता
नाम
वरारोहा
यां
त्वं
हर्तुमिहेच्छसि ॥ ५ ॥
कथं
राजा
स्थितो
धर्मे
परदारान्
परामृशेत् ।
रक्षणीया
विशेषेण
राजदारा
महाबल ॥ ६ ॥
न
तत्
समाचरेद्धीरो
यत्परोऽस्य
विगर्हयेत् ।
यथात्मनस्तथान्येषां
दारा
रक्ष्या
विपश्चिता ॥ ७ ॥
अर्थं
वा
यदि
वा
कामं
शिष्टाः
शास्त्रेष्वनागतम् ।
व्यवस्यन्ति
न
राजानो
धर्मं
पौलस्त्यनन्दन ॥ ८ ॥
राजा
धर्मश्च
कामश्च
द्रव्याणां
चोत्तमो
निधिः ।
धर्मः
शुभं
वा
पापं
वा
राजमूलं
प्रवर्तते ॥ ९ ॥
पापस्वभावश्चपलः
कथं
त्वं
रक्षसां
वर ।
ऐश्वर्यमभिसम्प्राप्तो
विमानमिव
दुष्कृतिः ॥ १० ॥
कामं
स्वभावो
यो
यस्य
न
शक्यः
परिमार्जितुम् ।
नहि
दुष्टात्मनामार्यमावसत्यालये
चिरम् ॥ ११ ॥
विषये
वा
पुरे
वा
ते
यदा
रामो
महाबलः ।
नापराद्ध्यति
धर्मात्मा
कथं
तस्यापराद्ध्यसि ॥ १२ ॥
यदि
शूर्पणखाहेतोर्जस्थानगतः
खरः ।
अतिवृत्तो
हतः
पूर्वं
रामेणाक्लिष्टकर्मणा ॥ १३ ॥
अत्र
ब्रूहि
यथातत्त्वं
को
रामस्य
व्यतिक्रमः ।
यस्य
त्वं
लोकनाथस्य
भार्यां
हृत्वा
गमिष्यसि ॥ १४ ॥
क्षिप्रं
विसृज
वैदहीं
मा
त्वा
घोरेण
चक्षुषा ।
दहेद्दहनभूतेन
वृत्रमिन्द्राशनिर्यथा ॥ १५ ॥
सर्पमाशीविषं
बध्वा
वस्त्रान्ते
नावबुद्ध्यसे ।
ग्रीवायां
प्रतिमुक्तं
च
कालपाशं
न
पश्यसि ॥ १६ ॥
स
भारः
सौम्य
भर्तव्यो
यो
नरं
नावसादयेत् ।
तदन्नमपि
भोक्तव्यं
जीर्यते
यदनामयम् ॥ १७ ॥
यत्कृत्वा
न
भवेद्धर्मो
न
कीर्तिर्न
यशो
भुवि ।
शरीरस्य
भवेत्
खेदः
कस्तत्कर्म
समाचरेत् ॥ १८ ॥
षष्टिर्वर्षसहस्त्राणि
मम
जातस्य
रावण ।
पितृपैतामहं
राज्यं
यथावदनुतिष्ठतः ॥ १९ ॥
वृद्धोहं
त्वं
युवा
धन्वी
सशरः
कवची
रथी ।
तथाप्यादाय
वैदेहीं
कुशली
न
गमिष्यसि ॥ २० ॥
न
शक्तस्त्वं
बलाद्धर्तुं
वैदेहीं
मम
पश्यतः ।
हेतुभिर्न्यायसंयुक्तैर्ध्रुवां
वेदश्रुतीमिव ॥ २१ ॥
यद्ध्यस्व
यदि
शूरोऽसि
मुहूर्तं
तिष्ठ
रावण ।
शयिष्यसे
हतो
भूमौ
यथा
पूर्वं
करस्तथा ॥ २२ ॥
असकृत्संयुगे
येन
निहता
दैत्यदानवाः ।
न
चिराच्चीरवासास्त्वां
रामो
युधि
वधिष्यति ॥ २३ ॥
किनु
शक्यं
मया
कर्तुं
गतौ
दूरं
नृपात्मजौ ।
क्षिप्रं
त्वं
नश्यसे
नीच
तयोर्भीतो
न
संशयः ॥ २४ ॥
न
हि
मे
जीवमानस्य
नयिष्यसि
शुभामिमाम् ।
सीतां
कमलपत्राक्षीं
रामस्य
महिषीं
प्रियाम् ॥ २५ ॥
अवश्यं
तु
मया
कार्यं
प्रियं
तस्य
महात्मनः ।
जीवितेनापि
रामस्य
तथा
दशरथस्य
च ॥ २६ ॥
तिष्ठ
तिष्ठ
दशग्रीव
मुहूर्तं
पश्य
रावण ।
युद्धातिथ्यं
प्रदास्यामि
यथाप्राणं
निशाचर ॥ २७ ॥
वृन्तादिव
फलं
त्वां
तु
पातयेयं
रथोत्तमात् ॥ २८ ॥