इत्युक्तस्य
यथान्यायं
रावणस्य
जटायुषा ।
क्रुद्धस्याग्निनिभाः
सर्वा
रेजुर्विंशतिदृष्टयः ॥ १ ॥
संरक्तनयनः
कोपात्तप्तकाञ्चनकुण्डलः ।
राक्षसेन्द्रोऽभिदुद्राव
पतगेन्द्रममर्षणः ॥ २ ॥
स
सम्प्रहारस्तुमुलस्तयोस्तस्मिन्
महावने ।
बभूव
वातोद्धतयोर्मेघयोर्गगने
यथा ॥ ३ ॥
तद्बभूवाद्भुतं
युद्धं
गृध्रराक्षसयोस्तदा ।
सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ॥ ४ ॥
ततो
नालीकनाराचैस्तीक्ष्णाग्रैश्च
विकर्णिभिः ।
अभ्यवर्षन्महाघोरैर्गृध्रराजं
महाबलः ॥ ५ ॥
स
तानि
शरजालानि
गृघ्रः
पत्त्ररथेश्वरः ।
जटायुः
प्रतिजग्राह
रावणास्त्राणि
संयुगे ॥ ६ ॥
तस्य
तीक्ष्णनखाभ्यां
तु
चरणाभ्यां
महाबलः ।
चकार
बहुधा
गात्रे
व्रणान्
पतगसत्तमः ॥ ७ ॥
अथ
क्रोधाद्दशग्रीवो
जग्राह
दश
मार्गणान् ।
मृत्युदण्डनिभान्
घोरान्
शत्रुमर्दनकाङ्क्षया ॥ ८ ॥
स
तैर्बाणैर्महावीर्यः
पूर्णमुक्तैरजिह्मगैः ।
बिभेद
निशितैस्तीक्ष्णैर्गृधं
घोरैः
शिलीमुखैः ॥ ९ ॥
स
राक्षसरथे
पश्यन्
जानकीं
बाष्पलोचनाम् ।
अचिन्तयित्वा
तान्
बाणान्
राक्षसं
समभिद्रवत् ॥ १० ॥
ततोऽस्य
सशरं
चापं
मुक्तामणिविभूषितम् ।
चरणाभ्यां
महातेजा
बभञ्ज
पतगेश्वरः ॥ ११ ॥
ततोऽन्यद्धनुरादाय
रावणः
क्रोधमूर्च्छितः ।
ववर्ष
शरवर्षाणि
शतशोऽथ
सहस्रशः ॥ १२ ॥
शरैरावारितस्तस्य
संयुगे
पतगेश्वरः ।
कुलायमुपसम्प्राप्तः
पक्षीव
प्रबभौ
तदा ॥ १३ ॥
स
तानि
शरवर्षाणि
पक्षाभ्यां
च
विधूय
च ।
चरणाभ्यां
महातेजा
बभञ्जास्य
महद्धनुः ॥ १४ ॥
तच्चाग्निसदृशं
दीप्तं
रावणस्य
शरावरम् ।
पक्षाभ्यां
स
महावीर्यो
व्याधुनोत्पतगेश्वरः ॥ १५ ॥
काञ्चनोरश्छदान्
दिव्यान्
पिशाचवदनान्
खरान् ।
तांश्चास्य
जवसम्पन्नान्
जघान
समरे
बली ॥ १६ ॥
वरं
त्रिवेणुसम्पन्नं
कामगं
पावकार्चिषम् ।
मणिहेमविचित्राङ्गं
बभञ्ज
च
महारथम् ॥ १७ ॥
पूर्णचन्द्रप्रतीकाशं
छत्त्रं
च
व्यजनैः
सह ।
पातयामास
वेगेन
ग्राहिभी
राक्षसैः
सह ॥ १८ ॥
सारथेश्चास्य
वेगेन
तुण्डेनैव
महच्छिरः ।
पुनर्व्यपाहरच्छ्रीमान्
पक्षिराजो
महाबलः ॥ १९ ॥
स
भग्नधन्वा
विरथो
हताश्वो
हतसारथिः ।
अङ्केनादाय
वैदेहीं
पपात
भुवि
रावणः ॥ २० ॥
दृष्ट्वा
निपतितं
भूमौ
रावणं
भग्नवाहनम् ।
साधु
साध्विति
भूतानि
गध्रराजमपूजयन् ॥ २१ ॥
परिश्रान्तं
तु
तं
दृष्ट्वा
जरया
पक्षियूथपम् ।
उत्पपात
पुनर्हृष्टो
मैथिलीं
गृह्य
रावणः ॥ २२ ॥
गृध्रराजः
समुत्पत्य
समभिद्रुत्य
रावणम् ।
समावार्य
महातेजा
जटायुरिदमब्रवीत् ॥ २३ ॥
वज्रसंस्पर्शबाणस्य
भार्यां
रामस्य
रावण ।
अल्पबुद्धे
हरस्येनां
वधाय
खलु
रक्षसाम् ॥ २४ ॥
समित्रबन्धुः
सामात्यः
सबलः
सपरिच्छदः ।
विषपानं
पिबस्येतत्पिपासित
इवोदकम् ॥ २५ ॥
अनुबन्धमजानन्तः
कर्मणामविचक्षणाः ।
शीघ्रमेव
विनश्यन्ति
यथा
त्वं
विनशिष्यसि ॥ २६ ॥
बद्धस्त्वं
कालपाशेन
क्व
गतस्तस्य
मोक्ष्यसे ।
वधाय
बडिशं
गृह्य
सामिषं
जलजो
यथा ॥ २७ ॥
नहि
जातु
दुराधर्षो
काकुत्स्थौ
तव
रावण ।
धर्षणं
चाश्रमस्यास्य
क्षमिष्येते
तु
राघवौ ॥ २८ ॥
यथा
त्वया
कृतं
कर्म
भीरुणा
लोकगर्हितम् ।
तस्कराचरितो
मार्गो
नैष
वीरनिषेवितः ॥ २९ ॥
युद्ध्यस्व
यदि
शूरोऽसि
मुहूर्तं
तिष्ठ
रावण ।
शयिष्यसे
हतो
भूमौ
यथा
भ्राता
खरस्तथा ॥ ३० ॥
परेतकाले
पुरुषो
यत्कर्म
प्रतिपद्यते ।
विनाशायात्मनोऽधर्म्यं
प्रतिपन्नोऽसि
कर्म
तत् ॥ ३१ ॥
पापानुबन्धो
वै
यस्य
कर्मणः
कर्म
को
नु
तत् ।
कुर्वीत
लोकाधिपतिः
स्वयम्भूर्भगवानपि ॥ ३२ ॥
एवमुक्त्वा
शुभं
वाक्यं
जटायुस्तस्य
रक्षसः ।
निपपात
भृशं
पृष्ठे
दशग्रीवस्य
वीर्यवान् ॥ ३३ ॥
तं
गृहीत्वा
नखैस्तीक्ष्णैर्विरराद
समन्ततः ।
अधिरूढो
गजारोहो
यथा
स्याद्दुष्टवारणम् ॥ ३४ ॥
विरराद
नखैरस्य
तुण्डं
पृष्ठे
समर्पयन् ।
केशांश्चोत्पाटयामास
नखपक्षमुखायुधः ॥ ३५ ॥
स
तथा
गृध्रराजेन
क्लिश्यमानो
मुहुर्मुहुः ।
अमर्षस्फुरितोष्ठः
सन्
प्राकम्पत
स
रावणः ॥ ३६ ॥
स
परिष्वज्य
वैदेहीं
वामेनाङ्केन
रावणः ।
तलेनाभिजघानाशु
जटायुं
क्रोधमूर्च्छितः ॥ ३७ ॥
जटायुस्तमभिक्रम्य
तुण्डेनास्य
खगाधिपः ।
वामबाहून्
दश
तदा
व्यपाहरदरिन्दमः ॥ ३८ ॥
सञ्छिन्नबाहोः
सद्यैव
बाहवः
सहसाऽभवन् ।
विषज्वालावलीयुक्ता
वल्मीकादिव
पन्नगाः ॥ ३९ ॥
ततः
क्रोधाद्दशग्रीवः
सीतामुत्सृज्य
रावणः ।
मुष्टिभ्यां
चरणाभ्यां
च
गृध्रराजमपोथयत् ॥ ४० ॥
ततो
मुहूर्तं
सङ्ग्रामो
बभूवातुलवीर्ययोः ।
राक्षसानां
च
मुख्यस्य
पक्षिणां
प्रवरस्य
च ॥ ४१ ॥
तस्य
व्यायच्छमानस्य
रामस्यार्थे
स
रावणः ।
पक्षौ
पार्श्वौ
च
पादौ
च
खङ्गमुद्धृत्य
सोऽच्छिनत् ॥ ४२ ॥
स
च्छिन्नपक्षः
सहसा
रक्षसा
रौद्रकर्मणा ।
निपपात
हतो
गृध्रो
धरण्यामल्पजीवितः ॥ ४३ ॥
तं
दृष्ट्वा
पतितं
भूमौ
क्षतजार्द्रं
जटायुषम् ।
अभ्यधावत
वैदही
स्वबन्धुमिव
दुःखिता ॥ ४४ ॥
तं
नीलजीमूतनिकाशकल्पं
सुपाण्डुरोरस्कमुदारवीर्यम् ।
ददर्श
लङ्काधिपतिः
पृथिव्यां
जटायुषं
शान्तमिवाग्निदावम् ॥ ४५ ॥
ततस्तु
तं
पत्त्ररथं
महीतले
निपातितं
रावणवेगमर्दितम् ।
पुनः
परिष्वज्य
शशिप्रभानना
रुरोद
सीता
जनकात्मजा
तदा ॥ ४६ ॥