तमल्पजीवितं
गृध्रं
स्फुरन्तं
राक्षसाधिपः ।
ददर्श
भूमौ
पतितं
समीपे
राघवाश्रमात् ॥ १ ॥
सा
तु
ताराधिपमुखी
रावणेन
समीक्ष्य
तम् ।
गृध्रराजं
विनिहतं
विललाप
सुदुःखिता ॥ २ ॥
आलिङ्ग्य
गृध्रं
निहतं
रावणेन
बलीयसा ।
विललाप
सुदुःखार्ता
सीता
शशिनिभानना ॥ ३ ॥
निमित्तं
लक्षणज्ञानं
शकुनिस्वरदर्शनम् ।
अवश्यं
सुखदुःखेषु
नराणां
प्रतिदृश्यते ॥ ४ ॥
नूनं
राम
न
जानासि
महद्व्यसनमात्मनः ।
धावन्ति
नूनं
काकुत्स्थं
मदर्थं
मृगपक्षिणः ॥ ५ ॥
अयं
हि
पापचारेण
मां
त्रातुमभिसङ्गतः ।
शेते
विनिहतो
भूमौ
ममाभाग्याद्विहङ्गमः ॥ ६ ॥
त्राहि
मामद्य
काकुत्स्थ
लक्ष्मणेति
वराङ्गना ।
सुसन्त्रस्ता
समाक्रन्दच्छृण्वतां
तु
यथान्तिके ॥ ७ ॥
तां
क्लिष्टमाल्याभरणां
विलपन्तीमनाथवत् ।
अभ्यधावत
वैदेहीं
रावणो
राक्षसाधिपः ॥ ८ ॥
तां
लतामिव
वेष्टन्तीमालिङ्गन्तीं
महाद्रुमान् ।
मुञ्च
मुञ्चेति
बहुशः
प्रवदन्
राक्षसाधिपः ॥ ९ ॥
क्रोशन्तीं
राम
रामेति
रामेण
रहितां
वने ।
जीवितान्ताय
केशेषु
जग्राहान्तकसन्निभः ॥ १० ॥
प्रधर्षितायां
सीतायां
बभूव
सचराचरम् ।
जगत्सर्वममर्यादं
तमसाऽन्धेन
संवृतम् ॥ ११ ॥
न
वाति
मारुतस्तत्र
निष्प्रभोभूद्दिवाकरः ।
दष्ट्वा
सीतां
परामृष्टां
दीनां
दिव्येन
चक्षुषा ॥ १२ ॥
कृतं
कार्यमिति
श्रीमान्
व्याजहार
पितामहः ।
दृषट्वा
सीतां
परामृष्टां
दण्डकारण्यवासिनः ॥ १३ ॥
रावणस्य
विनाशं
च
प्राप्तं
बुध्वा
यदृच्छया ।
स
तु
तां
रामरामेति
रुदन्तीं
लक्ष्मणेति
च ॥ १४ ॥
जगामादाय
चाकाशं
रावणो
राक्षसेश्वरः ।
तप्ताभरणवर्णाङ्गी
पीतकौशेयवासिनी ॥ १५ ॥
रराज
राजपुत्री
तु
विद्युत्सौदामिनी
यथा ।
उद्धूतेन
च
वस्त्रेण
तस्याः
पीतेन
रावणः ॥ १६ ॥
अधिकं
प्रतिबभ्राज
गिरिर्दीप्त
इवाग्नीना ।
तस्याः
परमकल्याण्यास्ताम्राणि
सुरभीणि
च ॥ १७ ॥
पद्मपत्त्राणि
वैदेह्या
अभ्यकीर्यन्त
रावणम् ।
तस्याः
कौशेयमुद्धूतमाकाशे
कनकप्रभम् ॥ १८ ॥
बभौ
चादित्यरागेण
ताम्रमभ्रमिवातपे ।
तस्यास्तत्सुनसं
वक्रमाकाशे
रावणाङ्कगम् ॥ १९ ॥
न
रराज
विना
रामं
विनालमिव
पङ्कजम् ।
बभूव
जलदं
नीलं
भित्त्वा
चन्द्र
इवोदितः ॥ २० ॥
सिललाटं
सुकेशान्तं
पद्मगर्भाभमव्रणम् ।
शुक्लैः
सुविमलैर्दन्तैः
प्रभावद्भिरलङ्कृतम् ॥ २१ ॥
तस्यास्तद्विमलं
वक्रमाकाशे
रावणाङ्कगम् ।
रुदितं
व्यपमृष्टास्त्रं
चन्द्रवत्प्रियदर्शनम् ॥ २२ ॥
सुनासं
चारुताम्रोष्ठमाकाशे
हाटकप्रभम् ।
राक्षसेन
समाधूतं
तस्यास्तद्वदनं
शुभम् ॥ २३ ॥
शुशुभे
न
विना
रामं
दिवा
चन्द्र
इवोदितः ।
सा
हेमवर्णा
नीलाङ्गं
मैथिली
राक्षसाधिपम् ॥ २४ ॥
शुशुभे
काञ्चनी
काञ्ची
नीलं
मणिमिवाश्रिता ।
सा
पद्मगौरी
हेमाभा
रावणं
जनकात्मजा ॥ २५ ॥
विद्युद्घनमिवाविश्य
शुशुभे
तप्तभूषणा ।
तरुप्रवालरक्ता
सा
नीलाङ्गं
राक्षसेश्वरम् ॥ २६ ॥
प्राशोभयत
वैदेही
गजं
कक्ष्येव
काञ्चनी ।
तस्या
भूषणघोषेण
वैदेह्या
राक्षसाधिपः ॥ २७ ॥
बभौ
सचपलो
नीलः
सघोष
इव
तोयदः ।
उत्तमाङ्गाच्च्युता
तस्याः
पुष्पवृष्टिः
समन्ततः ॥ २८ ॥
सीताया
ह्रियमाणायाः
पपात
धरणीतले ।
सा
तु
रावणवेगेन
पुष्पवृष्टिः
समन्ततः ॥ २९ ॥
समाधूता
दशग्रीवं
पुनरेवाभ्यवर्तत ।
अभ्यवर्तत
पुष्पाणां
धारा
वैश्रवणानुजम् ॥ ३० ॥
नक्षत्रमाला
विमला
मेरुं
नगमिवोमन्नम् ।
चरणान्नूपुरं
भ्रष्टं
वैदेह्या
रत्नभूषितम् ॥ ३१ ॥
विद्युन्मण्डलसङ्काशं
पपात
मधुरस्वनम् ।
तां
महोल्कामिवाकाशे
दीप्यमानां
स्वतेजसा ॥ ३२ ॥
जहाराकाशमाविश्य
सीतां
वैश्रवणानुजः ।
तस्यास्तान्यग्निवर्णानि
भूषणानि
महीतले ॥ ३३ ॥
सघोषाण्यवकीर्यन्त
क्षीणास्तारा
इवाम्बरात् ।
तस्याः
स्तनान्तराद्
भ्रष्टो
हारस्ताराधिपद्युतिः ॥ ३४ ॥
वैहेह्या
निपतन्
भाति
गङ्गेव
गगनाच्च्युता ।
उत्पन्नवाताभिहता
नानाद्विजगणायुताः ॥ ३५ ॥
मा
भैरिति
विधूताग्रा
व्याजह्रुरिव
पादपाः ।
नलिन्यो
ध्वस्तकमलास्त्रस्तमीनजलेचराः ॥ ३६ ॥
सखीमिव
गतोच्छ्वासामन्वशोचन्त
मैथिलीम् ।
समन्तादभिसम्पत्य
सिंहव्याघ्रमृगद्विजाः ॥ ३७ ॥
अन्वधावंस्तदा
रोषोत्सीतां
छायनुगामिनः ।
जलप्रपातास्रमुखाः
शृङ्गैरुच्छ्रितबाहवः ॥ ३८ ॥
सीतायां
ह्रियमाणायां
विक्रोशन्तीव
पर्वताः ।
ह्रियमाणां
तु
वैदेहीं
दृष्ट्वा
दीनो
दिवाकरः ॥ ३९ ॥
प्रतिध्वस्तप्रभः
श्रीमानासीत्
पाण्डरमण्डलः ।
यत्र
रामस्य
वैदेहीं
भार्यां
हरति
रावणः ॥ ४० ॥
इति
सर्वाणि
भूतानि
गणशः
पर्यदेवयन् ।
वित्रस्तका
दीनमुखा
रुरुदुर्मृगपोतकाः ॥ ४१ ॥
उद्वीक्ष्योद्वीक्ष्य
नयनैरास्रपाताविलेक्षणाः ।
सुप्रवेपितगात्राश्च
बभूवुर्वनदेवताः ॥ ४२ ॥
विक्रोशन्तीं
दृढं
सीतां
दृष्ट्वा
दुःखं
तथा
गताम् ।
तां
तु
लक्ष्मण
रामेति
क्रोशन्तीं
मधुरस्वरम् ॥ ४३ ॥
अवेक्षमाणां
बहुशो
वैदेहीं
धरणीतलम् ।
स
तामाकुलकेशान्तां
विप्रमृष्टविशेषकाम् ॥ ४४ ॥
जहारात्मविनाशाय
दशग्रीवो
मनस्विनीम् ।
ततस्तु
सा
चारुदती
शुचिस्मिता
विनाकृता
बन्धुजनेन
मैथिली ॥ ४५ ॥
अपश्यती
राघवलक्ष्मणावुभौ
विवर्णवक्त्रा
भयभारपीडिता ॥ ४६ ॥