सन्दिश्य
राक्षसान्
घोरान्
रावणोऽष्टौ
महाबलान् ।
आत्मानं
बुद्धिवैक्लव्यात्कृतकृत्यममन्यत ॥ १ ॥
स
चिन्तयानो
वैदेहीं
कामबाणसमर्पितः ।
प्रविवेश
गृहं
रम्यं
सीतां
द्रष्टुमभित्वरन् ॥ २ ॥
स
प्रविश्य
तु
तद्वेश्म
रावणो
राक्षसाधिपः ।
अपश्यद्राक्षसीमध्ये
सीतां
शोकपरायणाम् ॥ ३ ॥
अश्रुपूर्णमुखीं
दीनां
शोकभाराभिपीडिताम् ।
वायुवेगैरिवाक्रान्तां
मज्जन्तीं
नावमर्णवे ॥ ४ ॥
मृगयूथपरिभ्रष्टां
मृगीं
श्वभिरिवावृताम् ।
अधोमुखमुखीं
सीतामभ्येत्य
च
निशाचरः ॥ ५ ॥
तां
तु
शोकपरां
दीनामवशां
राक्षसाधिपः ।
स
बलाद्दर्शयामास
गृहं
देवगृहोपपम् ॥ ६ ॥
हर्म्यप्रासादसम्बाधं
स्त्रीसहस्रनिषेवितम् ।
नानापक्षिगणैर्जुष्टं
नानारत्नसमन्वितम् ॥ ७ ॥
काञ्चनैस्तापनीयैश्च
स्फाटिकै
राजतैरपि ।
वज्रवैडूर्यचित्रैश्च
स्तम्भैर्द्दष्टिमनोहरैः ॥ ८ ॥
दिव्यदुन्दुभिनिर्ह्रादं
तप्तकाञ्चनतोरणम् ।
सोपानं
काञ्चनं
चित्रमारुरोह
तया
सह ॥ ९ ॥
दान्तिका
राजताश्चैव
गवाक्षाः
प्रियदर्शनाः ।
हेमजालावृताश्चासन्
तत्र
प्रासादपङ्क्तयः ॥ १० ॥
सुधामणिविचित्राणि
भूमिभागानि
सर्वशः ।
दशग्रीवः
स्वभवने
प्रादर्शयत
मैथिलीम् ॥ ११ ॥
दीर्घिकाः
पुष्करिण्यश्च
नानावृक्षसमन्विताः ।
रावणो
दर्शयामास
सीतां
शोकपरायणाम् ॥ १२ ॥
दर्शयित्वा
तु
वैदेह्याः
कृत्स्नं
तद्भवनोत्तमम् ।
उवाच
वाक्यं
पापात्मा
सीतां
लोभितुमिच्छया ॥ १३ ॥
दश
राक्षसकोट्यश्च
द्वाविंशतिरथापराः ।
तेषां
प्रभुरहं
सीते
सर्वेषां
भीमकर्मणाम् ॥ १४ ॥
वर्जयित्वा
जरावृद्धान्
बालांश्च
रजनीचरान् ।
सहस्रमेकमेकस्य
मम
कार्यपुरस्सरम् ॥ १५ ॥
यदिदं
राजतन्त्रं
मे
त्वयि
सर्वं
प्रतिष्ठितम् ।
जीवितं
च
विशालाक्षि
त्वं
मे
प्राणैर्गरीयसी ॥ १६ ॥
बहूनां
स्त्रीसहस्राणां
मम
योऽसौ
परिग्रहः ।
तासां
त्वमीश्वरा
सीते
मम
भार्या
भव
प्रिये ॥ १७ ॥
साधु
किं
तेऽन्यथा
बुद्ध्या
रोचयस्व
वचो
मम ।
भजस्व
माऽभितप्तस्य
प्रसादं
कर्तुमर्हसि ॥ १८ ॥
परिक्षिप्ता
सहस्रेण
लङ्केयं
शतयोजना ।
नेयं
धर्षयितुं
शक्या
सेन्द्रैरपि
सुरासुरैः ॥ १९ ॥
न
देवेषु
न
यक्षेषु
न
गन्धर्वेषु
पक्षिषु ।
अहं
पश्यामि
लोकेषु
यो
मे
वीर्यसमो
भवेत् ॥ २० ॥
राज्यभ्रष्टेन
दीनेन
तापसेन
गतायुषा ।
किं
करिष्यसि
रामेण
मानुषेणाल्पतेजसा ॥ २१ ॥
भजस्व
सीते
मामेव
भर्ताहं
सदृशस्तव ।
यौवनं
ह्यध्रुवं
भीरू
रमस्वेह
मया
सह ॥ २२ ॥
दर्शने
मा
कृथा
बुद्धिं
राघवस्य
वरानने ।
काऽस्य
शक्तिरिहागन्तुमपि
सीते
मनोरथैः ॥ २३ ॥
न
शक्यो
वायुराकाशे
पाशैर्बद्धुं
महाजवः ।
दीप्यमानस्य
वाप्यग्नेर्ग्रहीतुं
विमलां
शिखाम् ॥ २४ ॥
त्रयाणामपि
लोकानां
न
तं
पश्यामि
शोभने ।
विक्रमेण
नयेद्यस्त्वां
मद्बाहुपरिपालिताम् ॥ २५ ॥
त्वत्प्रेष्या
मद्विधाश्चैव
देवाश्चापि
चराचराः ।
अभिषेकोदकल्किन्ना
तुष्टा
च
रमयस्व
माम् ॥ २६ ॥
दुष्कृतं
यत्पुरा
कर्म
वनवासेन
तद्गतम् ।
यश्च
ते
सुकृतो
धर्मस्तस्येह
फलमाप्नुहि ॥ २७ ॥
इह
माल्यानि
सर्वाणि
दिव्यगन्धानि
मैथिलि ।
भूषणानि
च
मुख्यानि
सेवस्व
च
मया
सह ॥ २८ ॥
पुष्पकं
नाम
सुश्रोणि
भ्रातुर्वैश्रवणस्य
मे ।
विमानं
सूर्यसङ्काशं
तरसा
निर्जितं
मया ॥ २९ ॥
विशालं
रमणीयं
च
तद्विमानमनुत्तमम् ।
तत्र
सीते
मया
सार्धं
विहरस्व
यथासुखम् ॥ ३० ॥
वदनं
पद्मसङ्काशं
विमलं
चारुदर्शनम् ।
शोकार्तं
तु
वरारोहे
न
भ्राजति
वरानने ॥ ३१ ॥
एवं
वदति
तस्मिन्
सा
वस्त्रान्तेन
वराङ्गना ।
पिधायेन्दुनिभं
सीता
मुखमश्रूण्यवर्तयत् ॥ ३२ ॥
ध्यायन्तीं
तामिवास्वस्थां
दीनां
चिन्ताहतप्रभाम् ।
उवाच
वचनं
पापो
रावणो
राक्षसेश्वरः ॥ ३३ ॥
अलं
व्रीडेन
वैदेहि
धर्मलोपकृतेन
च ।
आर्षोऽयं
दैवनिष्यन्दो
यसत्वामभिगमिष्यति ॥ ३४ ॥
एतौ
पादौ
महास्निग्धौ
शिरौभिः
परिपीडितौ ।
प्रसादं
कुरु
मे
क्षिप्रं
वश्यो
दासोऽहमस्मि
ते ॥ ३५ ॥
इमाः
शून्या
मया
वाचः
शुष्ममाणेन
भाषिताः ।
न
चापि
रावणः
काञ्चिन्मूर्ध्ना
स्त्रीं
प्रणमेत
ह ॥ ३६ ॥
एवमुक्त्वा
दशग्रीवो
मैथीलीं
जनकात्मजाम् ।
कृतान्तवशमापन्नो
ममेयमिति
मन्यते ॥ ३७ ॥